॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
4|1|1
SK 182
4|1|1
ङ्याप्प्रातिपदिकात्‌  
SK 182
सूत्रच्छेद:
ङ्याप्प्रातिपदिकात् - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , ङ्याप्प्रातिपदिकात्  [4|1|1]
सम्पूर्णसूत्रम्
ङ्याप्प्रातिपदिकात्
सूत्रार्थ:
अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तं ये केऽपि प्रत्ययाः वक्ष्यन्ते, ते सर्वे ङ्यन्तात् आबन्तात् प्रातिपदिकात् च भवन्ति ।
इदम् अधिकासूत्रम् अस्ति । अस्य व्याप्तिः सम्पूर्ण-चतुर्थाध्याये पञ्चमाध्याये च वर्तते । एतयोः द्वयोः अध्याययोः प्रोक्ताः सर्वे प्रत्ययाः (1) ङ्यन्तात् (2) आबन्तात् (3) प्रातिपदिकात् च भवन्ति ।

1) ङ्यन्तात् - ङीप्, ङीष्, ङीन् - एते त्रयः स्त्री-प्रत्ययाः । "ङी" अनेन एतेषां त्रयाणां ग्रहणं क्रियते । अतः ङ्यन्तात् (= ङी + अन्तात्) इत्युक्ते ङीप्/ङीष्/ङीन् प्रत्ययान्तशब्दात् । एतेभ्यः शब्देभ्यः परम् अस्मिन् अधिकारे प्रोक्ताः सर्वे प्रत्ययाः भवन्ति । यथा - "गौरी" अयम् शब्दः गौर-शब्दात् षिद्गौरादिभ्यश्च 4|1|41 इत्यनेन ङीष्-प्रत्ययं कृत्वा सिद्ध्यति । अतः अस्मात् अनन्तरम् अस्मिन् अधिकारे प्रोक्ताः प्रत्ययाः भवितुं अर्हन्ति । यथा - गौरी + सुँप् = गौरी ।
प्रायः सर्वे दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दाः ङीप् / ङीष् / ङीन्-प्रत्ययान्ताः सन्ति । यथा - नदी, कुमारी, घटी आदयः ।

2) आबन्तात् - टाप, डाप्, चाप् - एते त्रयः अपि स्त्री-प्रत्ययाः । "आप्" अनेन एतेषां त्रयाणां ग्रहणं क्रियते । अतः आबन्तात् (=आप् + अन्तात्) इत्युक्ते चाप् / टाप् / डाप् प्रत्ययान्तशब्दात् । एतेभ्यः शब्देभ्यः परम् अस्मिन् अधिकारे प्रोक्ताः सर्वे प्रत्ययाः भवन्ति । यथा - "अजा" अयम् शब्दः अज-शब्दात् अजाद्यतष्टाप् 4|1|4 इत्यनेन टाप्-प्रत्ययं कृत्वा सिद्ध्यति । अतः अस्मात् अनन्तरम् अस्मिन् अधिकारे प्रोक्ताः प्रत्ययाः भवितुं अर्हन्ति । यथा = अजा + सुँप् = अजा ।
प्रायः सर्वे दीर्घ-आकारान्त-स्त्रीलिङ्गशब्दाः टाप् / डाप् / चाप्-प्रत्ययान्ताः सन्ति । यथा - ललना, शाला, दुर्गा आदयः ।

3) प्रातिपदिकात् - "प्रातिपदिकम्" इति व्याकरणविशिष्टा संज्ञा । अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1|2|45 तथा कृत्तद्धितसमासाश्च 1|2|46 एतयोः सूत्रयोः प्रातिपदिकसंज्ञा दीयते । यः शब्दः प्रातिपदिकसंज्ञां प्राप्नोति, तस्मात् अनन्तरम् अस्मिन् अधिकारे प्रोक्ताः सर्वे प्रत्ययाः भवितुम् अर्हन्ति । यथा - "राम" अयं शब्दः अर्थवद् अस्ति अतः प्रातिपदिकसंज्ञां प्राप्नोति । अतः अस्मात् अनन्तरम् अस्मिन् अधिकारे प्रोक्ताः प्रत्ययाः भवितुं अर्हन्ति । यथा = राम + सुँप् = रामः ।

ज्ञातव्यम् -

1. यद्यपि सूत्रे "ङ्याप्" इत्युच्यते, तथापि प्रत्ययग्रहणे तदन्तस्यापि ग्रहणम् अनया परिभाषया "ङी" इत्यनेन ङीप्/ङीष्/ङीन्-प्रत्ययान्तस्य, तथा "आप्"-इत्यनेन चाप्/टाप्/डाप्-प्रत्ययान्तस्य ग्रहणम् भवति ।

2. स्त्रीप्रत्ययान्तशब्दानाम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1|2|45 तथा कृत्तद्धितसमासाश्च 1|2|46 एतयोः प्रातिपदिकसंज्ञा न भवति, यतः स्त्रीप्रत्ययाः कृत्-प्रत्ययाः अपि न सन्ति, तद्धितप्रत्ययाः अपि न सन्ति । अतः प्रातिपदिकसंज्ञया एतयोः ग्रहणं न भवति । परन्तु प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति काचन परिभाषा अस्ति । अस्याः अर्थः अयम् - प्रातिपदिकस्य ग्रहणं यत्र क्रियते तत्र तस्य प्रातिपदिकस्य लिङ्गबोधकप्रत्ययेन सह अपि ग्रहणं भवति । इत्युक्ते, "गौर" शब्दस्य अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1|2|45 इत्यनेन यदा प्रातिपदिकसंज्ञा भवति, तदा ङीष्-प्रत्ययसहितस्य गौरी-शब्दस्य अपि प्रातिपदिकसंज्ञा भवत्येव । अनेन प्रकारेण सर्वेषां स्त्रीप्रत्ययान्तशब्दानाम् (टाप् / चाप् / डाप् / ङीष् / ङीप् / ङीन् / ऊङ् / क्तिन् प्रत्ययान्तशब्दानाम्) प्रातिपदिकसंज्ञा भवत्येव । एवमस्ति चेत् अस्मिन् सूत्रे ङीग्रहणम् / आप्ग्रहणम् किमर्थम् इति प्रश्नः जायते । तस्य उत्तरम् एतत् - अस्मिन् अधिकारे प्रोक्ताः प्रत्ययाः ङ्यन्तात् / आबन्तात् "अनन्तरम्" भवति इति ङीग्रहणस्य / आप्ग्रहणस्य अर्थः । इत्युक्ते, यदि कश्चन शब्दः ङी/आप् प्रत्ययं स्वीकर्तुं शक्नोति, तथा च (अस्मिन् अधिकारे उक्तम्) तद्धितप्रत्ययम् अपि स्वीकर्तुं शक्नोति, तर्हि तस्य शब्दस्य प्रथमम् स्त्रीप्रत्ययं कृत्वा अनन्तरम् तद्धितप्रत्ययः करणीयः ।
उदाहरणम् - "द्वाभ्याम् ललनाभ्याम् एका अधिकहरितवर्णीया अस्ति" एतत् वक्तुम् स्त्रीत्वस्य विवक्षायाम् हरित-शब्दस्य वर्णादनुदात्तात्तोपधात्तो नः 4|1|39 इत्यनेन ङीप्-अयं स्त्रीपत्ययः भवति, तथा च तुलनार्थम् द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 इत्यनेन तरप्-प्रत्ययः अपि भवति । अस्यां स्थितौ अनेन सूत्रेण एतत् स्पष्ट भवति यत् प्रथमम् स्त्रीप्रत्ययं कृत्वा ततः तरप्-प्रत्ययः एव करणीयः । अनेन "हरिणितरा" इति प्रातिपदिकं सिद्ध्यति । अत्र स्त्री-प्रत्यययोजनात् प्राक् तद्धितप्रत्ययः न करणीयः ।
One-line meaning in English
This is an अधिकार, and all the प्रत्यया: told in this अधिकार are to be applied to ङ्यन्त, आबन्त and प्रातिपदिक words.
काशिकावृत्तिः
अधिकारो ऽयम्। यदित ऊर्ध्वम् अनुक्रमिष्यामः आपञ्वमाध्यायपरिसमाप्तेः ङ्याप्प्रातिपदिकादित्येवं तद् वेदितव्यम्। स्वादिषु कप्पर्यन्तेषु प्रकृतिः अधिक्रियते। ङीब्ङीष्ङीनां सामान्येन ग्रहणं "ङी" इति, टाब्डाप्चापाम् "आप्" इति, प्रातिपदिकम् उक्तम् अर्थवत्... 1|2|45, कृत्तद्धितसमासाश्च 1|2|46 इति, तेषां समाहारनिर्देशः "ङ्याप्प्रातिपदिकात्" इति। यद्यपि च प्रत्ययपरत्वेन पारिशेष्यात् इयम् एव प्रकृतिः लभ्यते, तथापि वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्तव्यम्, इतरथा हि समर्थविशेषणम् एतत् स्यात्। अथ ङ्याप्ग्रहणं किम्, न प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इत्येव सिद्धम्? न एतदस्ति। स्वरूपविधिविषये परिभाषेयं प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्तग्रहणं भवति इति। तथा च युवा खलतिपलितवलिनजरतीभिः 2|1|67 इति ज्ञापकमस्यास्तादृशम् एव। किं च तदन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, कालितरा, हरिणितरा, खट्वातरा, मालातरा इति। विप्रतिषेधाद् धि तद्धितबलीयस् त्वं स्यात्।
`अधिकारोऽयम्` इति। स्वरितेनासञ्जितत्वात्। `आ पञ्चमाध्यायपरिसमाप्तेः` इति। अनेनाधिकारस्यावधिं दर्शयति। ततः परं नायमनुवत्र्तते; अस्वरितत्वात्। `स्वादिषु कप्पर्यन्तेषु` इति। अधिकारस्य विषमाचष्टे। `ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम्` इत्यादि। `ङी` इति विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं ङीमात्रं तदिह गृह्रते। `टाब्डाप्चापामाप्` इति। सामान्येन ग्रहणमिति प्रकृतेन सम्बन्धः। ननु च ङ्यादीनां बहुत्वाद्बहुवचनेन भवितव्यम्, तत्कथं `ङ्याप्प्रातिपदिकात्` 4|1|1 इत्येकवचनेन निर्देश इत्याह --`तेषाम्` इत्यादि। समाहारद्वन्देनेह ङ्यादीनामयं निर्देशः कृत इत्यर्थः। इतरेतरयोगे हि द्वन्द्वे स्याद्बहुवचनम्। न चायमितरेतरयोगे द्वन्द्वः,किं तर्हि? समाहारे। तस्य चैकार्थत्वादेकवचनमेव युक्तम्। `समाहारनिर्देशः` इति वचनमितरेतरयोगनिवृत्त्यर्थम्,सामासन्तरनिवृत्त्यर्थञ्च, अन्यथा हि ङ्यापोः प्राप्तिपदिकं ङ्याप्प्रातिपदिकमित्यपि षष्ठीसमास आशङ्क्येत। ततो ङ्यन्तमाबन्तञ्च समासप्रातिपदिकं यत् ततः स्याद् राजकुमार्यादिभ्यः न तु केवलेभ्यः कुमार्यादिभ्यः। ङ्यापोस्तु विधानेनैव प्रातिपदिकं प्रकृतिः स्यात्। तस्मात् समाहार द्वन्द्वेनायं निर्देशः। तत्र तु त्रयं प्रकृतित्वेनाधिक्रियते, तेन सर्वतो भवति।अथ कथं पुनरत्र विग्रहः? केचिदाहुः-- `ङीश्च आप्च प्रातिपदिकञ्चेति। ननु च `अप्रत्ययः` 1|2|45 इति प्रातिपदिकसंज्ञाप्रतिषेधाद् ङीश्चेति विभक्त्युत्पत्तिर्न स्यात्? उच्यते; नायं प्रत्ययः, अपि तु प्रत्ययानुकरणमिदम्। एवमपि `प्रकृतिवदनुकरणं भवति` (व्या।प।113) इति स्यादेव प्रतिषेधः? नैष दोषःच अनुकरणं द्वैधम्-- अर्थस्य, शब्दमात्रस्य चेति। ज्ञापितमाचार्येणैतद् द्वेधा निर्देशात् -- `परिव्यवेभ्यः क्रियः` 1|3|18 , `विपराभ्यां जेः` 1|3|19 इतीयङादेशस्य करणाकरणाभ्याम्। अतोऽत्र शब्दमात्रमनुकृतम्, न त्वर्थसहितम्। तेनात्र `अप्रत्ययः` 1|2|45 इति नास्त्येव प्रतिषेधः। प्रकृतिवदतिदेशस्त्वर्थवत्यनुकरणे। ननु चेवमपि हल्ङ्यादिलोपेन 6|1|68 भाव्यम्? उच्यते; ङ्यन्तात् सुलोपः, न ङीमात्रात्। व्यपदेशिवद्भावात् स्यादिति चेत्? न; `व्यपदेशवद्भावोऽप्रातिपदिकेन` (शाक।प।65) इत्युच्यते, प्रातिपदिकञ्चदम्। तस्मात् `ङीश्च` इति। अथ प्रत्ययविधिविषयैषा परिभाषा पूर्वादिनिः` 5|2|85 `सपूर्वाच्च` 5|2|87 इत्यत्र ज्ञापितत्वात्? न चायं प्रत्ययविधिः, कस्तर्हि? लोपविधिरिति, अतः परिभाषा न प्रवत्र्तत इत्यस्त्येव व्यपद#एशिवद्भाव इति ततः प्रवत्र्तते लोपशास्त्रम्। अतः सुलोपेन भवितव्यम्-- ङी चेति। सामान्येन परिभाषाप्रवृत्तिमाश्रित्य ङीश्चेति विग्रहः।अन्यस्त्वाह-- `प्रयोगस्य एव कुमारी, गौरीत्यादिषु य ईकारः सोऽत्रानुकृत एव लुप्तविभक्तिकः,तेन ङी इत्येव भवति। यद्येवम्, कुतो ङकारः सामान्यग्रहणार्थ आसज्यते? ननु चानुक्रियमाणेनार्थेनार्थवत्त्वात् पुनरपि विभक्त्युत्पत्तिः प्राप्नोति, ततश्च ङीश्चेति भवितव्यम्? नैतदस्ति; प्राक्कालभाविनी या विभक्तिस्तां प्रत्ययलक्षणेनाश्रित्याप्रत्यय 1|2|45 इति प्रतिषेधात्। अथापि स्यात्-- `न ङिसम्बुद्ध्योः` 8|2|8 इति ज्ञापकात् प्रत्ययलक्षणेनाप्रत्यय 1|2|45 इति प्रातिपदिकसंज्ञा न प्रतिषिध्यते` इति। असदेतत्; नलोपविधिविषयमेवैतज्ज्ञापकम्। अतोऽत्र नास्त्येव प्रत्ययलक्षणेन प्रातिपदिकसंज्ञाप्रतिषेध इति स्थितमेतत्।ननु च प्रत्ययत्वे सति `परश्च` 3|1|2 इति वचनात् परे भवन्तः स्वादयः पूर्वां प्रकृतिमाक्षिप्य भवन्ति, न ह्रन्यथा परत्वमुपपद्यते, तस्य परत्वस्य पूर्वापेक्षत्वात्, न च ङ्यादिभ्योऽन्या प्रकृतिरुपपद्यते। तत्र ङ्याप्प्रातिपदिकग्रहणमन्तरेणापि पारिशेष्यादियमेव प्रकृतिर्लभ्यते तथा हि, प्रकृत्यन्तरं धातुरिति-- तिङन्तञ्च, वाक्यञ्च। प्रत्यया अपि स्वादयः, टाबादयः अणादयश्च। तत्र धातोस्तावत् स्वादिभिर्न भवितव्यम्, ते ह्रेकत्वादिष्वर्थेषु विधीयमानास्तद्वन्तं शब्दमाक्षिपन्ति। न च धातुरेकत्वादिमान्। अथाप्यविशेषणोत्पद्यन्ते, उत्पन्नानां तु नियमः क्रियते? तथापि न #ऐव तेषां धातोरुत्पत्तिर्युक्ता; सामान्यविहितानां स्वादीनां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात्। टाबादयस्तर्हि धातोर्भवेयुरिति चेत्? स्यादेतत्। असति ङ्याप्प्रातिपदिकग्रहणेऽकारान्तेभ्यो धातुभ्यो जुगुप्सादिभ्यः `अतः` 4|1|4 इति टाप् स्यात्, अपिद्भ्यो वञ्चुप्रभृतिभ्यः `उगितश्च` 4|1|6 इति ङीप् स्यात्, नकारान्तेभ्यो मन्प्रभृतिभ्यः `ऋन्नेभ्यो ङीप्` 4|1|5 इति ङीप्प्रत्ययः इति? एतच्च नास्ति ; यतः स्त्रियां टाबादयो विधीयन्ते, क्रियावचनश्च धातु#ः। क्रियायाश्चासत्त्वभूतत्वाल्लिङ्गेन योगो नास्ति; तस्य द्रव्यधर्मत्वात्। एतेन तिङन्ताद्वाक्याच्च टाबादीनामुत्पत्तिः प्रतिक्षिप्ता; तयोरपि क्रियाप्रधानत्वात्। अणादीनामपि नैव धातोरुत्पत्तिरुपपद्यते। ते ह्रपत्यादिनार्थेन सम्बन्धे सति विधीयन्ते। धातुवाच्यस्यार्थस्यासत्त्वभूतत्वाद्यथा स्त्रीत्वेन योगो न सम्भवति, तथाप्यपत्यादिना ह्रर्थेन। एतेन तिङन्ताद्वाक्याच्चाणादीनामुत्पत्तिर्निरस्ता; तदर्थस्यापि क्रियाप्रधानस्यापत्यादिना सम्बन्धाभावात्। देवदत्तस्य पचति यस्तस्यापत्त्यमिति सत्यपि सम्बन्धे `तिङश्च` 5|3|56 इति ज्ञापकान्न भवति। येऽपत्यादिनार्थेन सम्बन्धे तद्धिता विधीयन्ते तेऽनन्तरोक्तया नीत्या मा भून्, ये तु स्वार्थे विधीयन्ते तैर्युक्तमेव भवितुमिति चेत्? वात्र्तमेतत्; यथैव हि स्वादीनां सामान्यविहितानां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात् तदुत्पत्तिर्नोपपद्यते तथा स्वार्थिकानामपि सामान्यविहितानां स्वार्थिकैस्तुमुन्नादिभिर्विशेषविहितैर्बाधितत्वान्नोपपद्यत एव। तिङन्तात् तर्हि के स्युरिति चेत्? ज्ञापकान्न भविष्यन्ति। यदयं क्वचित् तद्धितविधौ तिङ्गर्हणं करोति-- `अतिशायने तमबिष्ठनौ` 5|3|55 `तिङश्च` 5|3|56 इति, क्वचित् तद्धितविधौ तिङ्ग्रहणं करोति-- `अतिशायने तमबिष्ठनौ` 5|3|55 `तिङश्च` 5|3|56 इति, तज्ज्ञापयति-- तिङन्तात् तद्धिता न भवन्तीति। वाक्यात् तर्हि भवेयरिति चेत्? अनभिधानान्न भविष्यन्ति। न हि `देवदत्तस्याआकः` इत्युक्ते वाक्यार्थगता अज्ञातादयोऽर्थाः कप्रत्ययेन द्योत्यन्ते, किं तर्हि? अआशब्दगता एव।स्वादिभिरपि नैव तिङन्ताद्भवितव्यम्, तेषां ह्रेकत्वादयोऽर्थाः,ते च तिङभिरेवोक्ताः। न चोक्तर्थानां प्रयोगे युक्तः; `उक्तार्थानामप्रयोगः` (व्या।प।60) इति वचना। ननु चोक्तार्थानामपि प्रयोगो दृश्यते, यथा-- एको द्वौ बहव इति चेत्? युक्तोऽत्र प्रयोगः वचनग्रहणात्। `प्रातिपदिक` इत्यादौ हि सूत्रे वचनग्रहणस्यैतत् तेषां भवति; तत्रास्याः परिभाषाया उपस्थानात्। तेन लिङ्गविशिष्टानामपि सर्वादीनां सर्वनामकार्यमुपपद्यते। यद्येवम्, इममेव न्यायमाश्रित्य शक्यं ङ्याब्ग्रहणमकर्त्तुम्? नैतदस्ति; न हि प्रातिपदिकसंज्ञा लिङ्गविशिष्टस्यार्थवतः शब्दरूपस्य भवितुमर्हति; `अप्र्तयय` 1|2|45 इति प्रतिषेधात्। न च प्रातिपदिकसंज्ञाविधौ सर्वेऽर्थवन्तः संज्ञिनः स्वरूपेण शक्या दर्शयितुम्; तेषामानन्त्यात्। यद्येवम्, `णाविष्ठवत् प्रातिपदिकस्य` (वा।813) इत्यत्रापि तर्हीयं परिभाषा नोपतिष्ठते; स्वरूपाग्रहणात्, ततश्च लिङ्गव्शीष्टेष्वष्ठवद्भावो न स्यात्। तत्र को दोषः? कुमारीमाचष्टे कुमारीयतीत्यत्र टिलोपो न स्यात्? नैष दोषः; बहुलमिष्ठवद्भाव इष्यते, तथा च चुरादौ पठते `प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च` (चुरा।ग।सू।186) इति। तस्माद्बहुलवचनाल्लिङ्गविशिष्टस्यापीष्ठवद्भावो भविष्यति।`किञ्च` इत्यादना प्रयोजनान्तरं समुच्चिनोति। तदिति ङ्यापोः प्रत्यवर्शः। ङ्यन्तादाबन्ताच्च तद्धितविधानं यथा स्यादित्येवमर्थं च ङ्याब्ग्रहणम्। `कालितरा` इति। कालशब्दाज्जनपदादिसूत्रेण 4|1|42 ङीप्, तदन्तात् `द्विवचनविभज्योपपदे` 5|3|57 इत्यादिना तरप्, `घरूपकल्प` 6|3|42 इत्यादिना ह्यस्वः। `हरिणितरा` इति। हरितशब्दात् `वर्णादनुदात्तात् तोपधातो नः` 4|1|39 इति ङीप्, तकारस्य नकारः, `अट्कुप्वाङ्` 8|4|2 इत्यसति ङ्याब्ग्रहणे परत्वादातिशयिकः स्यात्। अस्मस्तु सति ङ्यापोस्तद्धितविधाने प्रकृतित्वेनाश्रयणात् पूर्वं ङ्याब्भ्यां भवितव्यमिति तदन्तात् तद्धितविधिः सिध्यति। ननु चान्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तदिताः, तथा हि-- `समर्थानां प्रथमाद्वा` 4|1|82 इत्यधिकाराद्विभक्त्यन्ताते उत्पद्यन्ते, विभक्तयश्च कर्माद्यपेक्षाः, कर्मादयश्च बाह्रक्रियानिमित्तत्वाद्बहिरङ्गाः ततश्च निमित्तस्य बहिरङ्गत्वात् तद्धिता अपि बहिरङ्गाश्रया एव भवन्ति; लिङ्गस्य तु सम्बन्ध्यन्तरानपेक्षत्वादन्तरङ्गत्वञ्च, अतस्तन्निमित्ता अपि टाबादयोऽन्तरङ्गा भवन्ति, ततश्चान्तरङ्गत्वादेव टाबादिभिस्तावद्भवितव्यम्, पश्चात् तदन्तात् तद्धितैरित्यपार्थकं ङ्याब्ग्रहणम्? नैतदस्ति; तदन्तात् तद्धितविमधानार्थं ङ्याब्ग्रहणमित्यत्र हि वाक्ये तद्धितग्रहणेन स्वार्थिका ये तद्धितास्त एव विवक्षिताः। इममेवार्थं सूचयितुं कालितरा, हरिणितरेति स्त्रीप्रत्ययान्तात् स्वार्थिक एव तरप्प्रत्यय उदाह्मतः।स्वार्थिकेषु च `समर्थानाम्` 4|1|82 इत्येतन्नानुवत्र्तते। तथा हि क्ष्यति वृत्तिकारः-- `स्वार्थिकप्रत्ययावधिश्चायमधिकारः `प्राग्दिशो विभक्तिः` 5|3|1 इति यावत्। स्वार्थिकेषु ह्रस्योपयोगो नास्ति` इति। एवञ्च सति विभक्त्युत्पत्तिमनपेक्ष्य प्रातिपदिकादेव स्वार्थिकैर्भवितव्यमिति कुतस्तेषां बहिरङ्गत्वम् ! नन्वेवमपि कालितरेत्याद्यनुदाहरणम्; तरप्प्रत्ययस्य बहिरङ्गत्वात्। स हि यद्यपि विभक्त्युत्पतिंत नापेक्षते, प्रतियोगिनं तु बाह्रार्थमपेक्षत एव, स्त्रीप्रत्ययस्य तु न कश्चित् प्रतियोग्यपेक्षेति तस्यान्तरङ्गत्वम्? नैष दोषः; उदाहरणदिगियं वृत्तिकारेण दर्शिता।एतानि त्वत्रोदाहरणानि दर्शयितव्यानि-- एनिका, श्येनिका, रोहिणिकेति। अत्र हि यदि पूर्वं तद्धितः स्यात् तदेतश्यतरोहितशब्देभ्योऽज्ञाताद्यर्थविवक्षायां कप्रत्यये `वर्णादनुदात्तात् तोपधात् तो नः` 4|1|39 इत्यनेन ङीब्नकारौ न स्याताम्। यदि तर्हि ङ्याबन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, समासान्ता अपि तदन्तादेव स्युः, ततश्च बहवो गोमन्तोऽस्यां नगर्यामिति स्यात्, बहुव्रीहौ कृते `उगितश्च` 4|1|6 इति ङीप्, ततश्च `नद्यृतश्च` 5|4|153 इति कपि बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते? नैष दोषः; न हि समासान्ताः समासादुत्पद्यन्ते। किं तर्हि? अकृत एव समासे तदर्थादुत्तरपदात्। तथा हि `न कपि` 7|4|14 इत्यत्र वक्ष्यति वृत्तिकारः-- `गोस्त्रियोरुपसर्जनस्य` 1|2|48 इत्ययमपि ह्यस्वः कपि न भवति, समासार्थे ह्रुत्तरपदे कपि कृते पश्चात् समासेन भवितव्यमिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति` इति। न च बहवो गोमन्तोऽस्यां नगर्यामित्यत्र वाक्ये समासार्थमुत्तरपदं स्त्रियां वत्र्तत इति प्राक्कपैव भवितव्यम्, पश्चात् समासेन, ततः स्त्रीप्रत्ययेन प्रत्ययानुपूव्र्या बहुगोमत्केति सिद्धं भवति।यिद तह्र्रकृत एव समासे तदर्थादुत्तरपदात् समासान्ता भवन्ति, तदा `नञस्तत्पुरुषात्` 5|4|71 इत्यत्र `नञढः परे वक्ष्यमाणा य ऋगादयस्तदन्तात् तत्पुरुषात् समासान्ता न भवन्ति` इत्येष वृत्तिग्रन्थो विरुध्यते, तेब्यस्तत्पुरुषसमासार्थेभ्यः समासान्ता न भवन्तीति वक्तव्यं स्यात्? नञः प्रकृतत्वात् स एव विज्ञायते। `तत्पुरुषात्` 5|4|71 इत्यत्रापि तत्पुरुषशब्दस्तादथ्र्यात् तत्पुरुषार्थ उत्तरपदे वत्र्तते। तत्र पुनः ऋगादेः श्रुतत्वादृगादिरेव विज्ञायते, तदन्तात् तत्पुरुषादिति च व्यधिकरणे पञ्चम्यौ। ततोऽयमर्थः नञः परे य ऋगादयस्ते समीपभूता यस्य नञस्तस्मात् परं यत्तत्पुरुषार्थमृगादिपदं ततः समासान्तो न भवतीति। अथ वा-- अवयववचनोऽन्तशब्दः, समानाधिकरण एव पञ्चम्यौ; तादथ्र्यात्। ऋगाद्यन्तं तत्पुरुषार्थं युदत्तरपदं तदेव। तदन्तात् तत्पुरुषार्थादित्युक्तम्। ततश्चायमर्थः नञः परे य ऋगादयस्तदन्तात् तत्पुरुषार्थादुत्तरपदात् समासान्ता न भवन्तीति। तत् पुनस्तदन्ततत्पुरुषार्थम्। उत्तरपदं सामथ्र्यादृगाद्येव विज्ञायते। `बहुव्रीहौ संख्येये डजबहुगणात्` 5|4|73 इत्यत्र तर्हि योऽयं वृत्तिग्रन्थः-- `संख्येये योऽयं बहुव्रीह#इर्वत्र्तते तस्मादबहुगणान्ताड्डच्प्रत्ययो भवति` इति, तस्य विरोधः? नास्ति विरोधः; अत्र हि बहुव्रीह्रर्थमुत्तरपदमेव तादथ्र्याद्बहुव्रीहिरित्युक्तं भवति। तदयमर्थः-- संख्येये यद्बहुव्रीह्रर्थमुत्तरपदं वत्र्तते तस्माड्ड्च्प्रत्ययो भवतीति। अनया दिशाऽप्यन्य एवञ्जातीया विरोधाः परिहत्र्तव्याः। तदेवं स्थितमेवैतत्-- तदन्तात् तद्धितविधानार्थं ह्राब्ग्रहणमिति, विप्रतिषेधात् तद्धितविधानार्थं ङ्याब्ग्रहणमिति, विप्रतिषेधात् तद्धितवलीयस्त्वमिति।यद्येवम्, `युनस्तिः` 4|1|77 `ऊङुतः` 4|1|66 इत्येतयोरपि त्यूङोग्र्रहणं कस्मान्न विज्ञायते, तदन्तात् तद्धितोत्पत्तिर्यथा स्यात्-- युवतितरा, ब्राहृबन्धूतरेति? `नद्याः शेषस्यान्यतरस्याम्` 6|3|43 इत्यूङो विकल्पेन ह्यस्वत्वं न कत्र्तव्यम्; ह्राब्ग्रहणस्योपलक्षणार्थत्वात्। `स्त्रियाम्` 4|1|3 इति प्रकृत्य येषां विधानं तदुपलक्षणार्थमिह ङ्याब्ग्रहमम्। अतस्त्यूङोरपि ग्रहणमिह कृतमेव वेदितव्यम्।ङ्याब्ग्रहणं यद्युपलक्षणार्थम, अन्यतरस्यैव ग्रहणं कत्र्तव्यम्, एकेनापि हि स्त्रीप्रत्यया उपलक्ष्यन्त एव? सत्यमेतत् ; वैचित्र्यार्थं तु द्वयोग्र्रहणम्। `यावादिभ्यः कन्` 5|4|29 , `लोहितान्मणौ` 5|4|30 , `वर्णे चानित्ये` 5|4|31 इत्यनेन तु विकल्पेन स्वार्थिकेन स्त्रीप्रत्ययस्य बाधनमिष्यते। तत्र यदा बाधा तदा लोहितशब्दात् कनि टापि कृते चेत्वे लोहितिकेति भवितव्यम्; यदा तु न बाधा तदा ` वर्णादनुदात्तात्तोपधात् तो नः` 4|1|39 इति ङीब्नकारयोः कनि च `केऽणः` 7|4|13 इति ह्यस्वत्वे कृते लोहिनिकेति भवितव्यम्। तस्माद्वक्तव्यमेवैतत्-- लोहिताल्लिङ्गबाधनं वेति॥
अधिकारोऽयमिति । विधेयपरिभाष्ययोरनिर्देशाद्वक्ष्यमाणानां च स्वादीनां प्रकृत्यपेक्षत्स्वरितत्वाच्च । आ पञ्चमाध्यायपरिसमाप्तेरिति । अधिकारस्यावधिं दर्शयति । अधिकारोऽनेकप्रकारः----संज्ञाधिकारः, विशेषणाधिकारः, प्रकृत्यधिकारश्चेति, तत्र कीदृसोऽयमधिकारः ? इत्यत आह---स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रयते इति । टाब्डाप्चापामाव्रितीति । सामान्यहणमित्यनुषङ्गः । समाहारनिर्द्देश इति । समाहारद्वन्द्वेन तेषां ङ्यादीनामयं निर्देश इत्यर्थः । ततश्च समाहारस्यैकत्वादेकवचनमेव युक्तम्, न बहुवचनमिति भावः । किमर्थमिदमुच्यते ? ङ्याप्प्रातिपदिकात्परे स्वादयो यथा स्युरिति केवलानां प्रयोगो मा भूत् । ठ्परश्चऽ इति वचनात्केवलानां प्रयोगो न भविष्यति ? इदं तर्हि प्रयोजनम्---ङ्याप्प्रातिपदिकादेव यथा स्युरित प्रकृत्यन्तरान्मा भूवन् । असतिह्यस्मिन्नधिकारे धातुः, तिङ्न्तम्, वाक्यम्, सुबन्तं चेति ङ्याप्प्रातिपदिकव्यतिरिक्ताति चतुर्विधा प्रकृतिरस्ति, वक्ष्यमाणाश्च प्रत्ययाश्चतुर्विधाः---स्वादयः, टाबादयः, अणादयः, स्वार्थिकाश्चेति; तदिह चतुर्विधाभ्यः प्रकृतिभ्यश्चतुर्विधाः प्रत्यया मा भूवन्निति कर्तव्य एवायमधिकारः । न कर्तव्यः । ननु चासत्यस्मिन् धात्वधिकाराद्धातोरेव स्युः, कृदुपपदसंज्ञे च स्याताम्, वासरूपविधिश्चस्यात् ? न; निवृतत्वाद्धातुग्रहणस्य । यदि परं धातोरपि स्युः, तदपि न; कर्मादीनामभावात् । कर्मादिषु च कारकेष्वेकत्वादिकायां च संख्यायां स्वादयो विधीयन्ते, न च धात्वर्थस्य कर्मादिभिर्योगः सम्भवति । कथं तर्हि कर्मणि तत्र्यदादयो भवन्ति ? नैव धात्वर्थस्य कर्मत्वे तव्यदादयो भवन्ति, किं तर्हि ? धात्वर्थं प्रति यत्कर्म तस्मिन्वाच्ये---कर्तव्यः कट इति । स्वादयस्तु प्रकृत्यर्थस्य कर्मत्वे चरितार्था नान्यस्य कर्मत्वे भवितुमर्हन्ति, तव्यदादिभिश्च बाधितत्वाद्धातोः स्वादीनामभावः । ननु च धात्वर्थस्यैव कर्मत्वं दृष्टम्---सन्प्रकृतौ चिकीर्षतीत्यादौ ? एवमपि संख्याभावः सिद्ध एव, अव्ययेभ्यस्तु ठव्ययादाप्सुपःऽ इति ज्ञापकात्स्वादयो भवन्ति । यत्पुनः ठ्बहुषु बहुवचनम्ऽ इत्यत्रोक्तम्---यत्र च संख्या सम्भवतीति, तदस्यां दशायां तथा नाश्रीयते । टाबादयस्तर्हि धातोर्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च धात्वर्थस्य स्त्रीत्वेन योगोऽस्ति । कथं तर्हि स्त्रियां क्तिन्नादयो विधीयन्ते ? नैवात्र धात्वर्थस्य स्त्रीत्वे क्तिन्नादयः स्मर्यन्ते, कस्य तर्हि ? यस्तस्य सिद्धत्वं नाम धर्मस्तस्य । क्तिन्नादिभिश्च बाधितत्वाट्टाबादीनामभावः । अणादयस्तर्हि धातोर्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणादयो विधीयन्ते, न च धात्वर्थस्यापत्यादिभिर्योगोऽस्ति, समर्थविभक्त्यभावाच्चाणादीनामनुत्पत्तिः, ठ्तस्यापत्यम्ऽ, ठ्तेन रक्तम्ऽ, ठ्तत्र भवःऽ इत्येवमादिभिः षष्ठ।लदिविभक्त्यन्तादणादयो विधीयन्ते, न च धातोर्विभक्तिः सम्भवति । स्वाथिका अपि स्वार्थकैस्तुमुन्नादिभिर्बाधितत्वादेव धातोर्न भविष्यन्ति । तिङ्न्तातर्हि स्वादयो मा भूवन्निति ? तिङ्न्तेषु क्रिया प्रधानभूता, साधनं गुणभूतम्, तत्र प्रधानभूतायाः क्रियायाः कर्मादीनामभावात्स्वादयो न भविष्यन्ति । पचति भवति, भवति वै किञ्चिदाचार्याः क्रियमाणमपि चोदयन्तीत्यादौ कर्तृत्वं दृष्टमिति चेत्, एवमपि संख्याया अभावः सिद्ध एव । यस्तु गुणभूतः कर्ताऽभीधीयते; तत्र अभिहितत्वादेव विभक्त्यभावः सिद्धः । न च गुणभूतस्य कर्तुः क्रियान्तरावेशः सम्भवति; यतः पाचकं पश्येत्यादिवद् द्वितीयादयो भवेयुः । ननु पुत्रीयवदेतत्स्यात्, तद्यथा---पुत्रीयशब्दादन्तर्भूतक्रियाकर्मवाचिनः कर्तरि लकार उत्पद्यते---पुत्रीयतीति, तथेहापि पचतिशब्दात् कर्तृविशिष्टक्रियावाचिनः क्रमादिषु द्वितीयादयः स्युरेव ? नैष दोः ; उक्तमेतत्---प्रकृत्यर्थस्य कर्मत्वे चरितार्थाः स्वादयो नान्यस्य कर्मत्वे भवितुमर्हन्तीति । न चैकक्रियापेक्षयोर्भिन्नयोः साधनयोरेकस्मिन्पदे युगपदभिधानं सम्भवति । पुत्रीयशब्दस्तु जीवत्यादिधातुवद्विशिष्टक्रियावचन इति, ततः कर्तरि लकारोत्पतिरविरुद्धा । अवश्यं चैतदेवं विज्ञेयम्---अर्थाभावादेव तिङ्न्ताद् द्वितीयादयो न भवन्तीति । यो हि मन्यते---ङ्याप्प्रातिपदिकाधिकारान्न भवन्तीति; रूपबाद्यन्तातस्य द्वितीयादयः स्युरेव, पचतिरूपं पश्य, पचतिरूपेण कृतमित्यादि, भवति ह्यएतत्प्रातिपदिकम् । कथं तर्हि रूपबाद्यन्तात्प्रथमैकवचनमपि भवति ? उक्तत्वात्सङ्ख्यायाः, न हि तत्कर्तुः सङ्ख्यायामेकवचनम् । यदि तथा स्यात् पचतेरूपं पचन्तिरूपमिति द्विवचनबहुवचने स्याताम् । ठ्प्रातिपदिकार्थऽ इत्यत्र तु प्रातिपदिकग्रहणात्प्रातिपदिकमात्रानुबन्धिनी प्रथमा भवति । तत्राप्येकवचनमेव; ठेकवचनमुत्सर्गः करिष्यतेऽ इति वचनात् । न चैवं तिङ्न्तेऽपि प्रसङ्गः तस्याप्रातिपदिकत्वात् । टाबादयस्तर्हि तिङ्न्तान्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यार्थस्य स्त्रीत्वेन योगोऽस्ति । यदि परं साधनस्य स्त्रीत्वे टाबादयः स्युः पचेद् ब्राह्मणः, पचेरन् ब्राह्मण्य इति ? तदपि न; स्वभावतो हि तिङ्न्तानि साधनाश्रयां सङ्ख्यामेवोपाददते, न लिङ्गम् । उक्तं च--- एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । शोभनं पचतीत्यादौ क्रियाविशेषणस्यैव लिङ्गेन योगः, न क्रियायाः, तत्रापि नपुंसकेन । पचति रूपमित्यादावपि रूपबाद्यन्तवाच्यायाः क्रियायाः स्वभावतो लिङ्गेन योगः, तत्रापि नपुंसकेन । विचित्रा हि शब्दानां शक्तयो यथादर्शनमभ्युपगन्तव्याः, न सामान्यतो दृष्टेनानुमानेन व्यवस्थापयितुं शक्यन्ते । अवश्यं चैतदेवं विज्ञेयम्---स्त्रीत्वाभावातिङ्न्ताट्टाबादयो न भवन्तीति, अन्यथा पचतिरूपं ब्राह्मणीत्यादौ रूपबाद्यन्ताट्टाप्स्यादेव । अणादयस्तरिहि तिङ्न्तान्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणाअदयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यापत्यादिभिर्योगोऽस्ति । अप्रधानस्य त्वप्रधानत्वादेवापत्यादिभिर्योगाभावः, समर्थविभक्त्यभावाच्चाणाद्यभावः सिद्धः । अवश्यं चैतदेवं विज्ञेयम्, अन्यथा यः पचतिरूपं तस्यापत्यमिति रूपबाद्यन्तादणादयः स्युरेव । स्वाथिका अपि ज्ञापकातिङ्न्तान्न भविष्यन्ति, यदयं क्वचितद्धितविधौ तिङ्ग्रहणं करोति---ठतिशायने तमबिष्ठनौऽ, ठ्तिङ्श्चऽ इति । वाक्यादपि नैव स्वादयो भवितुमर्हन्ति; अर्मादीनामभावात् । न खलु क्रियारूपस्य संसर्गरूपस्य भेदरूपस्य वा वाक्यार्थस्य कर्मादिभि स्त्रीत्वेनापत्यादिभिर्वा योगः सम्भवति । ठ्पश्य मृगो धावतिऽ इत्यादौ दृष्टमिति चेत् ? एवमपि संख्यायोगाभावः सिद्धः । स्वार्थिका अप्यभिधानाभावान्न वाक्याद्भविष्यन्ति । तथा हि---ठ्देवदतारोहाश्वम्ऽ इत्यस्माद्वाक्यात्प्रागिवीयेष्वर्थेषु के सुल्बुकि च कृते वाक्यार्थस्यासत्वभूतत्वाच्छक्तिलिङ्गसङ्ख्यायोगाभावात्स्वाद्यौत्पतेरभावाद् देवदतारोहाश्वकेति भवितव्यम्, न चैवम्भूतेन वाक्यार्थगताः कुत्सादयो गम्यन्त इति । सुबन्तादपि नैव स्वादयो भवितुमर्हन्ति । नहि स्वादिषु विधीयमानेषु तदन्ता प्रकृतिः सम्भवति, यथोक्तम्---ठ्सनन्तान्न सनिष्यतेऽ इति । किञ्च सुबन्तमपि सङ्ख्याप्रधानं कारकशक्तिप्रधानं वा, न चास्यापरैः कर्मादिभिर्योगः सम्भवति । टाबादयोऽपि स्त्रीत्वाभावान्न भविष्यन्ति । अणादिषु पुनर्नास्ति विशेषः, सुबन्ताद्वोत्पतौ सत्यां प्रातिपदिकाद्वा । यथा चैततथा ठ्समर्थानां प्रथमाद्वाऽ इत्यत्र प्रतिपादयिष्यामः । सर्वथा रूपबाद्यन्तात्प्रातिपदिकादप्यनिष्टः प्रत्ययो यद्वात् तद्वद्धात्वादिकादपीति नार्थ एतेनेत्याक्षेप्ता शङ्कते तावत्---यद्यपीति । प्रत्ययपरत्वेन प्रकृतिर्लभ्यते । पारिशेष्याच्चेयमेव प्रकृतिर्लभ्यत इत्यर्थः । परिहरति---तथापीति । वृद्धादयो लक्षणं निमितं यस्य प्रत्ययविधेस्तत्र ङ्याप्प्रातिपदिकस्य विशेष्यत्वेन सम्प्रात्ययो यथा स्यादित्येवमर्थमित्यर्थः । इतरथा हीति । यदि ङ्याप्प्रातिपदिकग्रहणं न क्रियेतेत्यर्थः । समर्थविशेषणमेतत्स्यादिति । ठ्समर्थानां प्रथमाद्वाऽ इत्यधिकारात् । किं च समर्थम् ? सुबन्तम् । समर्थविशेषणे सति को दाषः ? ठुदीचां वृद्धादगोत्रात्ऽ इति फिन् । इह च प्रसज्येत---ज्ञानां ब्राह्मणानामपत्यमिति, एतद्धि समर्थंवृद्धम् । इह च न स्यात्---ज्ञानां ब्राह्मणानामपत्यमिति, न ह्यएतत्समर्थमवृद्धम् । यत्र ह्यादेशादिवशेन सङ्ख्याविशेषाभिव्यक्तिर्भवति न भवति तत्र द्विवचनबहुवचनान्तानामपि वृत्तिः---तावकः, मामक इति । यथा इह च फिञुत्पद्यमानो बहुत्वमन्तरेण वृद्धत्वानुपपतेर्बहुत्वं गमयेत्, एवं फिन्नपि द्वित्वमिति स्यादेवायं प्रसङ्गः । अवर्ण---ठत इञ्ऽ इहैव स्यात् दक्षस्यापत्यमिति, दक्षयोः दक्षाणामित्यत्र तु न स्यात् । स्वर---ठनुदातादेरञ्ऽ, इह च प्रसज्येत---वाचो विकारः, त्वचो विकारः, एतद्धि समर्थमनुदातादि, ठ्सावेकाचःऽ इति विभक्तेरुदातत्वात् । नन्वत्रैकाचो नित्यं मयटमिच्छन्तीति मयटा भाव्यम् ? इदं तर्हि पञ्चानां विकार इति ठ्षट्त्रिचतुर्भ्यो हलादिःऽ इति विभक्तेरुदातत्वे सति समर्थमनुदातादि, प्रातिपदिकं तु ठ्न्रः सङ्ख्यायाःऽ इत्याद्यौदातम् । इह च न स्यात्---सर्वेषां विकार इति, ठ्सर्वस्य सुपिऽ इत्याद्यौदातं पदम्, प्रातिपादिकं त्वन्तोदातं निपातितम् । द्व्यच्---ठ्नौद्व्यचष्ठन्ऽ, इह च प्रसज्येत---वाचा तरति, त्वचा तरति,एतद्धि समर्थं द्व्यच् । नौग्रहणं तु नियमार्थं स्यात्---औकारान्ताद्यदि भवति नौशब्दादेवेति । इह च न स्यात्---घटेन तरतीति । साम्ना तरतीत्यादौ पुनरुभयथापि सिद्धम् । ङ्याप्प्रातिपदिकग्रहणे तु सति तत्सामर्थ्यातस्यैव विशेषणं वृद्धादि भवति, समर्थाधिकाराच्च समर्थात्प्रत्ययः । तत्रैवमभिसम्बन्धः---वृद्धादि यद् ङ्याप्प्रातिपदिकं तस्मात् समर्थात् प्रत्ययः इति । ठ्यस्मात्प्रत्ययविधिःऽ इति प्रत्ययविधौ पञ्चमीनिर्दिष्टस्य विधीयमाना अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरित्येततु प्रयोजनंन भवति, कथम् ? दैवेन हि जानता यतः प्रत्ययो विहितस्तस्यैताः संज्ञाः पञ्चम्या निर्द्दिश्यतां मा वा निर्देशि । इह च ठ्कंसीयपरशव्ययोर्यञञौ लुक्चऽ इति प्रातिपदिकात्परयोश्च्छयतोर्लुग्यथा स्यादौणादिकयोरुकारसशब्दयोर्मा भूदित्येतदपि न प्रयोजनम्, कथम् ? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ, उणाअदिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे पुनः कंसग्रहणाद्विज्ञायते, तस्माद् वृद्धाद्येव प्रयोजनमधिकारस्य । ङ्याब्ग्रहणं क्रियते; प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् । ठ्यूनस्तिःऽ युवतिरित्यस्य तु तद्धितान्तत्वात्प्रातिपदिकत्वम् । ठूणुतःऽ इत्युवर्णान्तादूङ् विधीयते, तत्रैकादेशस्यान्तवद्भावात्प्रातिपदिकत्वम् । ठ्श्वशुरस्योकाराकारलोपश्चऽ इति श्वश्रूरित्यत्र ठ्श्वशुरः श्वश्र्वश्चऽ इति निपातनाद्विभक्त्यादिसिद्धिः, एवं स्थिते चोद्यम्---अथेति । न प्रातिपदिकग्रहण इति । नञः काक्वा प्रयोगात्सिद्धमेवेत्यथः । अनेकार्थत्वाद्वा निपातानाम् । ननुशब्दस्यार्थे नशब्दो द्रष्टव्यः । लिङ्गविशिष्टस्येति । लिङ्गनिमितप्रत्ययेनाधिकस्येत्यर्थः । अस्याश्च परिभाषायाः प्रयोजनम्---सर्वनामस्वरसमासोपचारेष्ठवद्भावाः । सर्वनाम---भवच्छब्दस्य विधीयमाना सर्वनामसंज्ञा भवतीशब्दस्यापि भवति, ठ्सर्वनाम्नास्तृतीया चऽ, भवता हेतुना, भवतो हेतोः, भवत्या हेतुना, भवत्या हेतोरिति । स्वर---ठ्कुशूलकूपवुम्भशालं बिलेऽ, कुशूलबिलं कुशूलीबिलम् । समास---ठ्पूर्वसदृशऽ, मातृसदशः, मातृसदृशी; ठ्सदृशप्रतिरूपयोःऽ इति स्वरोऽप्यत्र भवति । तथा ठ्कुमारः श्रमणादिभिःऽ । कुमारीश्रमणा, कुमारश्रमणा, एवं युवतिर्वलिना, युववलिना । उपचार---ठतः कृकमिकंसकुम्भऽ, अयस्कुम्भः, अयस्कुम्भी । इष्ठवद्भाव---ठ्णाविष्ठवत्प्रातिपदिकस्यऽ, कुमारीमाचष्टे कुमारयति । इह तु ठचितहस्तिधेनोष्ठक्ऽ, हस्तिनीनां समूहो हास्तिकरमिति, ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावेन ङीपि निवृते हस्तिशब्द एवायमिति ठक्सिद्धिः । ठ्तद्धितेऽ इत्येषा हि विषयसप्तमी । अवश्यं च पुंवद्भाव एवाश्रयणीयः, अन्यथा हस्तिनीशब्दाट्ठकि यस्येतिलोपग्य स्थानिवद्भावात् ठ्नस्तद्धितेऽ इति टिलोपो न स्यात् । इह च ठ्नेन्त्सिद्धबध्नातिषु च स्थण्डिलशायिनिऽ इति ठ्गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनादनुत्पन्न एव ङीपि समासे सतीन्नन्तमेवोतरपदमित्यलुक्प्रतिषेधः सिद्धः । एवं ठ्शयवासवासिष्वकालात्ऽ ग्रामेवासिनीत्यलुक् । तथा ठ्क्यङ्मानिनोश्चऽ ठ्स्वाङ्गाच्चेतोमानिनिऽ दर्शनीयमानिनी, दीर्घमुखमानिनी---मानिन्शब्द एवोतरपदमिति पुंवद्भावः सिद्धः । इह च ठ्तृजकाभ्यां कर्तरिऽ ठ्कर्तरि चऽ इति कर्तरि यौ तृजकौ ताभ्यां योगे या षष्ठी तस्या येन सह समासः प्राप्तः स सर्वो न भवतीति विज्ञानादपां स्रष्ट्रीत्यत्रापि समासनिषेदः सिद्धः । यदि ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ भवति, अतिप्रसङ्गो भवति---ठ्द्विषत्परयोस्तापेऽ द्विषतीतप इत्यत्रापि स्यात्, उक्तमत्र---ठ्द्विषत्परयोरिति द्वितकारकोऽयं निर्देशः तकारान्तो द्विषच्छब्दःऽ इति । इह च गार्ग्या अपत्यम्, दाक्ष्या अपत्यमिति ठ्यञिञोश्चऽ इति फकं परत्वात् स्त्रीभ्यो ढग्बाधते । इह च ठ्ञ्नित्यादिनित्यम्ऽ दाक्षिः, ग्लुचुकायनिरित्यस्यामवस्थायामाद्यौदातत्वे कृते पश्चात् ठितो मनुष्यजातेःऽ इति ङीषि सति शिष्टः प्रत्ययस्वर एव भवति---दाक्षी, ग्लुचुकायनी । न चास्यामवस्थायामाद्यौदातत्वं पुनः प्रवर्तते; पूर्वमेव प्रवृतत्वात् । तथा बहवो गोमन्तोऽस्यां बहुगोमतीति प्रागेव बहुस्वरे प्रवृते पश्चान्ङीप्, पित्वादनुदातो भवति । न च पुनरपि ठ्बहोर्नञ्वद्ऽ इत्यम्य प्रवृत्तिः पूर्वमेव प्रवृतत्वात्समासाच्चात्र ङीबुत्पन्न इत्युतरपदं न लिङ्गविशिष्टम् । इह तर्हि ठ्राजाहः सखिभ्यष्टच्ऽ मद्राणां राज्ञीति टच् स्यात्, ततश्च ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावेन ईकारे निवृते टिलोपे च टित्वान्ङीपि मद्रराजीति स्यात्, मद्रराज्ञीति चेष्यते । तथा महती प्रिया यस्य महतीप्रिय इति पुंवद्भावप्रतिषेधविषये ठान्महतःऽ इत्यात्वं स्यात् । तथाऽऽर्ययोर्ब्राह्मणकुमारयोः, राजा च राजब्राह्मणीत्यत्रापि स्यात् । तथा विभक्त्याश्रयं यत्कार्यं विभक्तौ परतो विभक्तेर्वा तत्रापि दोषः, यथा---ठ्न गोश्वन्साववर्णऽ इति शुना, शुन इत्यत्र ठ्सावेकाचःऽ इति प्राप्तं विभक्तेरुदातत्वं न भवति । तथा गौरादिङीषन्तात् शुन्या, शुन्यै इत्यादावपि ठुदातयणो हलपूर्वात्ऽ इत्यस्यापि निषेधः स्यात् । ठुगिदचाम्ऽ इति नुम् गोमतीत्यादावपि स्यात् । ठ्चतुरनडुहोराम्ऽ अनडुहीत्यत्रेकारात्परः स्याद् । ठ्पथिमथ्यृभुक्षामात्ऽ शोभनः पन्था अस्यामिति ठ्न पूजनात्ऽ इति समासान्ते निषिद्धे ऋन्नेभ्यो ङीपि भस्य टेर्लोपे सुपथीत्यत्रापि स्यात् । अङ्गाधिकारे तदन्तस्यापि ग्रहणात्सुपन्था इतिवत् ठ्पुंसोऽसुङ्ऽ सुपंसीत्यत्रापि स्यात् । शोभनाः पुमांसोऽस्यामिति, उरः प्रभृतिषु पुमानिति विभक्त्यन्तस्य पाठादेकवचनान्तादेव नित्यं कप् भवति, बहुवचनान्तस्य तु ठ्शेषाद्विभाषाऽ इति विकल्पित एवेति कबभावपक्षे पूङे ह्रस्वः, मसुश्च प्रत्ययः, आकार उच्चारणार्थः, तत्र प्रत्यस्योगित्वात् ठुगितश्चऽ इति ङीप् । ठ्सख्युरसम्बुद्धौऽ ठनङ् सौऽ इति णित्वानङै सखौ सख्यावित्यादावपि स्याताम् । ठ्सख्यशिश्वीति भाषायाम्ऽ इति ङीष्विधानं तु सखीभ्यामित्याद्यर्थं स्यात् । ठ्विभाषा भवद्भगवदघवताम्ऽ इत्यत्र त्ववशब्दः सम्बुद्धाविति विश्ष्यते, तत्र ठ्येन नाव्यवधानम्ऽ इत्येकेन वर्णेन व्यवाये ओत्वं प्रवर्तमानमिह न भवति---हे भगवति, हे अघवतीति, तदभावातत्सन्नियोगशिष्टस्य रुत्वस्याप्यभावः । ठ्श्वयुवमघोनामतद्धितेऽ इत्यत्रापि ठल्लोपोऽनःऽ इत्यतः ठनःऽ इत्यपकर्षाद्यौवतीः पश्येति सम्प्रसारणाभावः । तदेवं लिङ्गविशिष्टपरिभाषायाः सन्ति प्रयोजनानि, सन्ति च दोषाः । यानि प्रयोजनानि तदर्थमेषा कर्तव्या, प्रतिविधेयं दोषेषु । प्रतिविधानं च ठ्शक्तिलाङ्गलऽ इत्यत्र घटग्रहणेनैव सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थमिति । तदेवं स्थितमेतत्---ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति । परहरति---नैतदस्तोति । स्वरूपविधिविषय इति । स्वरूपाश्रयो विधिः स्वरूपविधिः, स चासौ विषयश्च तत्रेत्यर्थः । किमुक्तं भवतीत्याह---प्रातिपदिकस्वरूप ग्रहणे सतोति । कुत एतदित्यत आह---तथा चेति । यथा च युवञ्च्छब्दस्य जरतीशब्देन समासवचनमत्रार्थे ज्ञापकं तथा तत्रैव प्रतिपादिकम् । तादृशमेवेति । ठ्प्रातिपदिकस्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतिऽ इति यदुक्तं तदनुगुणमेवेत्यर्थः । यदि स्वरूपविधिविषये परिभाषेयम्, कथमिष्ठवद्भावः---कुमारीमाचष्टे कुमारयतीति ? बाहुलकात्सिद्धिं मन्यते, चुरादौ हीदं पठ।ल्ते---ठ्प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चऽ इति । भाष्ये तु यथाकथंचित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्थितम् । तथा च ठ्सर्वप्रातिपदिकेभ्य इत्येकेऽ इति क्विप् ङ्यन्तादपि भवति---यामिनयन्त्यहानीति । किञ्चेत्यादिना प्रयोजनान्तरं समुच्चिनोति । कालितरेति । कालशब्दात् जानपदादिसूत्रेण ङीषि तरपि ठ्घरूपकल्पऽ इत्यादिना ह्रस्वः । किं पुनः कराणं तदन्तातद्धितविधिर्न सिध्यतीत्याह--- विप्रतिषेधाद्धीति । स्त्रीप्रत्ययस्यावकाशः---प्रकर्षाविवक्षायां कालीति, प्रकर्षप्रत्ययस्यावकाशः---स्त्रीत्वाविवक्षायां कालतर इति ; उभयविवक्षायामुभयप्रसङ्गे परत्वातद्धितः स्यात् । ङ्याब्ग्रहणे तु सति तरब्विधौ प्रकृतित्रयाधिकारसामर्थ्यात्पूर्वं ङ्यापौ भवतः, पश्चातरबिति सिद्धमिष्टम् । ननु च स्त्रीत्वस्यान्तरङ्गत्वातन्निमितः प्रत्ययोऽन्तरङ्गः, प्रकर्षस्तु बाह्यप्रतियोग्यपेक्षत्वाद्बहिरङ्गः, ततस्तन्निमितस्य प्रत्ययस्यापि बहिरङ्गत्वम् । योऽप्यज्ञातादिष्वर्थेषु ठ्प्रागिवात्कःऽ विधीयते सोऽप्यज्ञाताद्यर्थापेक्षत्वाद्बहिरङ्ग एव, विभक्त्यन्तस्य हि सतः पश्चादज्ञातादियोगो भवति, विभक्तयश्च संख्याकर्माद्यपेक्षाः । प्रागेव संख्याकर्मादियोगाल्लिङ्गेन प्रातिपदिकं युज्यते । उक्तं च---ठ्स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्, समवेतस्य तु वचने लिङ्गं संख्यां विभक्तिं चाभिधाय तान्विशेषानवेक्षमाणश्च पूर्णमात्मानमप्रियकुत्सनादिषु ततः विशेष्ये बुद्धिरिति पूर्वं विशेषणभूतः स्वार्थोऽभिधातव्यः, पश्चातद्विशिष्ट्ंअ द्रव्यम्; तस्य धर्मित्वेन प्रधानत्वात्, ततो लिङ्गमन्तरङ्गत्वात् । संख्या हि भेदापेक्षत्वाद्बहिरङ्गा, सापि तु सजातीयापेक्षा विजातीयकर्मादिकारकशक्त्यपेक्षेभ्यः कारकेभ्योऽन्तरङ्गेति ततस्तस्या अभिधानम्, ततः कारकाणाम्, एवं परिपूर्णार्थस्य पश्चात्कुत्सनादिभिर्योगः । स्वार्थादयो हि कुत्सनादिहेतवः, द्रव्यस्य पण्डितक इत्यादौ तथावसायात् । तदेवमन्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तद्धिताः, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः ? इह तहि ठ्वर्णे चानित्येऽ, ठ्रक्तेऽ ठ्कालाच्चऽ इत्यस्यावकाशः स्त्रीत्वाविवक्षायां कालक इति, स्त्रीप्रत्ययस्य कालीत्यवकाशः; कालिकेत्यत्रोभयप्रसङ्गे परत्वान्कन् स्यात् । तस्य चात्यन्तस्वाथिकत्वान्न तदपेक्षं स्त्रीप्रत्ययस्यान्तरङ्गत्वमस्ति । नास्त्यत्र विशेषः, कालशब्दादप्युत्पतौ ठ्प्रत्ययस्थात्ऽ इतीत्वे कालिकेति सिद्धम् ? यदा तहिं हरितशब्दात् ठ्न सामिवचनेऽ इति ङीब्नकारौ बाधित्वा परत्वात्कन् स्यात्, ततश्च हरिणिकेति न स्यात् । हरितशब्देन समानार्थो हरिणशब्दोऽस्ति, ततः कर्मत्वे च भविष्यति, हरितशब्दातु हरितिकेति ? अयं तहि---ठ्लोहितान्मणोऽ इत्यत्यन्तस्वर्थिकः कन् ठ्वर्णादनुदातात्ऽ इति ङीब्नकारौ परत्वाद्बाधेत, ततश्च लोहितिकेत्येव स्यात्, न लोहिनिकेति;उभयमपीष्यते, तदर्थं ङ्याब्ग्रहणम् । ननु च ठ्लोहिताल्लिङ्गबाधनं चऽ इत्यनेनैवैतत्सिद्धम्, तन्न वक्तव्यं भवति, कथम् ? ठ्वर्णादनुदातात्ऽ इत्यत्र वेति वर्तते, तत्र ङ्याबन्ताभ्यां लोहिनीलोहिताशब्दाभ्यां कनि विहिते यतायोगं ह्रस्वत्वेत्वयोः कृतयोर्लोहिनिका लोहितिकेति सिद्धमिष्टम् । तदेवं सति ङ्याब्ग्रहणे लिङ्गनिमितेन प्रत्ययेन विकल्पेन बाधा यथा स्यान्नित्यं मा भूदित्येवमर्थं तावन्न वक्तव्यम्---लोहिताल्लिङ्गबाधनं वेति । नापि प्रतिपदविहितत्वेन कना लिङ्गनिमितस्य प्रत्ययस्य नित्ये बाधे प्राप्ते । विकल्पेन बाधा यथा स्यादित्येवमर्थमपि वक्तव्यम्; ङ्याब्ग्रहणस्यानन्यार्थत्वात् । यदि ह्यएतश्वेतशब्दाभ्यामत्यन्तस्वार्थिकः कन्निष्यते, तदा तत्र ङ्याब्ग्रहणस्य चरितार्थत्वाल्लोहितशब्दात्प्रतिपदविहितेन कना ङीपो नित्ये बाधे प्राप्ते तद्वक्तव्यम् ? तदापि वा न वक्तव्यम्, ठ्लोहितान्मणौऽ इत्यस्यापि पुनन्नपुंसकयोश्चरितार्थत्वात् । तदेवमत्यन्तस्वार्थिकोऽपि कन् ङ्यन्ताद्यथा स्यादिति ङीब्ग्रहणं तावत्कर्तव्यम् । आब्ग्रहणं तु विस्पष्टार्थम् । तत्र समासान्तेषु दोषः---बहवो गोमन्तोऽस्यां नगर्यामिति बहुव्रीहौ कृते स्त्रिया अन्यपदार्थत्वान्ङीप् च प्राप्नोति कप् च, ङ्याब्ग्रहणान् ङीपि कृते कप् स्यात्, ततश्च बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते ? नैष दोषः समासार्थादुतरपदादकृत एव समासे समासान्ता भवन्ति पश्चातदन्तेन समासः, एवं हि समासं प्रत्यन्तावयवत्वमुपपद्यते समासान्तानाम्, तथा च ठ्न कपिऽ इत्यत्र वक्ष्यति । तत्र चोतरपदे समासार्थाया विभक्तेः पुरस्तात्समासान्ता इति केचित् । परस्तात्समासान्तेषु सुब्लुकि तद्धितान्तत्वेन ततः सुपि सुबन्तस्य समास इत्यन्ये । सर्वथा बहुचर्मिकेतीत्वं प्राप्नोति, ठसुपःऽ इति प्रतिषेधात्, यथा बहुपरिव्राजका मदुरेति ? कर्तव्योऽत्र यत्नः । ठ्नञस्तत्पुरुषात्ऽ इत्यादौ तु ग्रन्थविरोधं तत्र तत्र परिहरिष्यामः । तदेवं स्थितमेतत्---तदन्तातद्धितविधानार्थं ङ्याब्ग्रहणं विप्रतिषेधाद्धि तद्धितबलीयस्त्वमिति । यद्येवम्, ठ्यूनस्तिःऽ ठूणुतःऽ इति त्यूङेरपि ग्रहणं कर्तव्यं तदन्तातद्धितविधानार्थम्---युवतितरा । भाष्यकारप्रयोगात् ठ्तसिलादिष्वाकृत्वसुचःऽ इति पुंवद्भावो न भवति, खिद्धादिषु पुंवद्भावाद् ह्रस्वत्वं विप्रतिषेधेनेति वा पर्जन्यवल्लक्षणप्रवृत्या ह्रस्वेन बाधितत्वात् । ब्रह्मबन्धूतरा ठ्नद्याः शेषस्यान्यतरस्याम्ऽ इति ह्रस्वाभावपक्षे ठ्जातेश्चऽ इति पुंवद्भावप्रतिषेधः । पूर्वत्र त्वनेन प्रतिषेधो न लभ्यते; यौवनस्याजातित्वात् । यावद्द्रव्यभाविनी हि जातिः, तथा च युवजानिरित्युदाहृतम् । नन्वत्रान्तरङ्गत्वादेव त्यूङै भविष्यतः, अत्यन्तस्वार्थिके तु कनि ब्रह्मबन्धुकेत्यत्र ठ्केऽणःऽ इति ह्रस्वे सति नास्ति विशेषः---ऊङ्न्ताद्वोत्पतौ सत्याम्, उकारान्ताद्वा, युवतिशब्दादपि कनि पुंवद्भावेन भ्वायमिति नास्त्येव विशेषः । न चास्मात्कन्निष्यत इत्यत्रापि प्रमाणमस्ति । तस्मान्नार्थस्त्यूङेर्ग्रहणेन ॥
सिद्धान्तकौमुदी
ङ्यन्तात् आबन्तात् प्रातिपदिकात् च इति आपञ्चमपरिसमाप्तेः अधिकारः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्‌ इत्येव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् ङ्याब्भ्यां प्राक् मा भूत् इत्येवमर्थम् ।
ङ्याप्प्रातिपदिकात् - ङ्याप्प्रातिपदिकात् । चतुर्थाध्यायस्यादिमं सूत्रमिदम् । ङी च, आप् च, प्रातिपदिकं चेति समाहारद्वन्द्वः । ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम् । आबिति टाप्डाप्चापां ग्रहणम् । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । तदाह — ङ्यन्तादित्यादिना ।आ पञ्चमे॑त्य वधिनियमे तु व्याख्यानमेव शरणम् । ननु प्रातिपदिकादित्येव सूत्र्यताम् । ङ्याब्ग्रहणं मास्तु । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण॑मिति परिभाषया ऊङप्रत्ययान्तात् आश्रूशब्दादिव दण्डिनी अजा खट्वेत्यादिभ्योऽपि ङ्याबन्तेभ्यः सुबादिप्रत्ययसम्भवादित्यत आह — प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति । स्त्रीलिङ्गबोधकङीबादिप्रत्ययविशिष्टस्येत्यर्थः । यथा स्यादिति । यथेति योग्यतायाम् । ङ्याबन्तादेव तद्धितः प्राप्तुं योग्यः । स च ङ्याब्ग्रहणे सत्येव स्यादित्यर्थः । व्यवच्छेद्यं दर्शयति-ङयाब्भ्यां प्राङ्भाभूदिति । ततश्च लोहनिका आर्यका च सिध्यति । तथाहि — लोहितशब्दस्तावत्वर्णाना तणतिनितान्तानाम् इति फिट्सूत्रेणाद्युदात्तः । ततश्च ओकार उदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति परिशिष्टौ इकारा.ञकारावनुदात्तौ । तथाचवर्णादनुदात्तात्तोपधात्तो नः॑ इत#इ मणौ विद्यमानाल्लोहितशब्दात्स्त्रीत्वविवक्षायां ङीप्, तत्संनियोगेन तकारस्य नकारादेशश्च प्राप्तः । "लोहितान्मणौ" इति स्वार्थिकः कनपि प्राप्तः । तत्र स्वार्थिकत्वादन्तरङ्ग परश्च कन् नत्वसंनियोगशिष्टं ङीपं बाधित्वा प्रवर्तेत । ततश्च ङीपो न प्रसक्तिः । कोपधत्वेन तोपधत्वाऽभावात् । ततश्च लोहितकशब्दात् "अजाद्यतः" इति टापिप्रत्ययस्था॑दित्यादिना इत्वे लोहितिकेत्येव स्यात्, न तु लोहिनिकेति । इष्यते तु रूपद्वयमपि ।ङ्याप्प्रातिपदिका॑दित्यत्र ङीब्ग्रहणे तु तत्सामथ्र्यादन्तरङ्गं परमपि कनं बाधित्वा नत्वसंनियोगशिष्टे ङीपि कृते, लोहिनीशब्दात्कनि, "केऽणः" इति ह्यस्वे, लोहिनिकेति रूपम् ।वर्णादनुदात्ता॑दित्यस्य वैकल्पिकतया नत्वसंनियोगशिष्टङीबभावे तु लोहिताशब्दात्कनि, ह्यस्वे, पुनः कान्ताट्टापि, प्रत्ययस्थादितीत्वे लोहितिकेत्यपि सिध्यति । तथा आर्यशब्दात्स्वार्थिके कनि, समुदायोत्तरटापैव स्त्रीत्वबोधनसम्भवादेकाज्द्विर्वचनन्यायेन कनन्तादेव टापि, कनः पूर्वं टाबभावात्, आत्स्थानिकस्य अतोऽभावादुदीचामातःस्थाने इति इत्वविकल्पस्याऽप्रवृत्तौ, प्रत्ययस्थादिति नित्यमित्वे आर्यिकेत्येव स्यात्, आर्यकेति न स्य#आत् । इष्यते तूभयमपि ।ङ्याप्प्रातिपदिका॑दित्यत्र आब्ग्रहणे तु तत्सामथ्र्यात्स्वार्थिकं कनं बाधित्वा टापि, ततः कनि, "केऽण" इति ह्यस्वे, पुनः कनन्ताट्टापि , "उदीचामातः स्थाने" इतीत्वविकल्पे रूपद्वयं सिध्यति । वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु, सुबन्तादेव तद्धितोत्पत्तिः । सुपः प्रागेव च ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात् । तथाहि-स्वार्थः=प्रवृत्तिनिमित्तं जात्यादि । तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिराकाङ्क्षितत्वाच्च । ततः स्वमात्रापेक्षत्वाल्लिङ्गस्य ज्ञानम् । ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम् । ततः कारकरूपविभक्त्यर्थापेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम् । शब्दरत्ने च परिष्कृतमेतत् ।
ङ्याप्प्रातिपदिकात् - ङ्याप्प्रातिपदिकात् । समाहारद्वन्द्वादेकवचनम् ।ङी॑ति ङीप्ङीष्ङीनां सामान्यग्रहणम् ।आ॑विति च टाप्डाप्चापाम् । आपञ्चमपरिसमाप्तेरिति । ननुघकालतनेषु॑ — इति ज्ञापकात्सुबन्तात्तद्धितोत्पत्तिरित्यभ्युपगतेः किमर्थस्तद्धितेषु प्रातिपदिकाधिकार इति चेदत्राहुः — असति त्वधिकारेअत इ॑ञित्यत्राऽत इत्येतत्सुबन्तस्यैव विशेषणं स्यात्, ततश्च दक्षस्यापत्यमित्यत्रैव इञ्स्यान्न तु दक्षयोर्दक्षाणामित्यत्र । किञ्चवद्धाच्छः॑ इत्यत्रवृद्ध॑-मित्येतत्सुबन्तविशेषणं मा भूत् । अन्यथा जानन्तीति ज्ञाः,इगुपधे॑तु कः ।ज्ञानामय॑मित्यत्र सुबन्तस्य वृद्धत्वाच्छो न भवति, किन्त्वणेव भवति । शब्दकौस्तुभे त्वसत्यस्मिन्नधिकारे वाक्यादपि कप्रत्ययादयः स्युः । ततो विशिष्यस्य प्रातिपदिकतया [सकल]सुब्लोपे स्पष्टमेवानिष्टमिति स्थितम् । लिह्गविसिष्टस्येति । लिङ्गबोधकप्रत्ययविशिष्टस्यापीत्यर्थः । परिभाषायाः प्रयोजनः-आश्रूः । प्रत्ययान्तत्वेनाऽप्रातिपदिकत्वेऽपि इह स्वादयः । न चआशुरः आओ॑ति निर्देशादेव स्वादिसिद्धिरिति वाच्यम् । निर्देशस्य शब्दपरत्वात् ।विपाराभ्यां जेः॒॑ङेर्यः॑ इतिवत् । किंच कुमारीमाचष्टे कुमारयति ।णाविष्ठव॑दिति टिलोपः । एवं यामिन्य इवांचरन्ति अहानियामिनयन्ती॑त्यत्राचारे क्विबपि फलम् । ङ्याब्भ्यां प्रागिति । तेनएनिका॑आर्यका॑ च सिध्यति । तथाहिन सामिवचने॑ इति ज्ञापयिष्यमाणोऽत्यन्तस्वार्थिकः क एतार्याशब्दाभ्यां ङ्यापौ बाधेत, ततश्चएतिका॑आर्यिके॑त्येव रूपं स्यात् । ङ्याब्ग्रहणसामथ्र्यात्तु ङीबन्तात्कनिएनिके॑-त्यपि सिध्यति ।वर्णादनुदात्ता॑दित्यस्य वैकल्पिकत्वात् । आबन्तात्कनि तुउदीचामातः स्थाने॑ इतीत्त्वविकल्पादार्यका आर्यिकेति रूपद्वयं सिध्यति । वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु,घकालतनेषु॑ — इत्यलुग्विधानसामथ्र्यात्सुबन्तात्तद्धितोत्पत्तिरिति हि निष्कर्षः । तथा च सुपः प्रागेव ङ्यापौ प्रवर्तेते । स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्वीकारादित्यवधेयम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ङ्याप्प्रातिपदिकात् (1275) (अधिकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) ङ्याप्प्रातिपदिकग्रहणं किमर्थम्। (समाधानभाष्यम्) ङ्याप्प्रातिपदिकात्स्वादयो यथा स्युः। धातोर्मा भूवन्निति।। (प्रयोजननिरासभाष्यम्)) नैतदस्ति प्रयोजनम्। धातोस्तव्यदादयो विधीयन्ते, तेऽपवादत्वाद्बाधका भविष्यन्ति।। (प्रयोजनपरभाष्यम्) तिङन्तात्तर्हि मा भूवन्निति।। (प्रयोजनपरिहारभाष्यम्) एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। ते चात्र तिङोक्ता एकत्वादय इति कृत्वा, उक्तार्थत्वान्न भविष्यन्ति।। (प्रयोजनपरभाष्यम्) टाबादयस्तर्हि तिङन्तान्मा भूवन्निति।। (प्रयोजननिरासभाष्यम्) स्त्रियां टाबादयो विधीयन्ते। न च तिङन्तस्य स्त्रीत्वेन योगोऽस्ति।। (प्रयोजनपरभाष्यम्) अणादयस्तर्हि तिङन्तान्मा भूवन्निति।। (प्रयोजननिरासभाष्यम्) अपत्यादिष्वर्थेष्वणादयो विधीयन्ते। न च तिङन्तस्यापत्यादिभिर्योगोऽस्ति।। (अभ्युपगमभाष्यम्) अथापि कथंचिद्योगः स्यात्। एवमपि न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति ‐ न तिङन्तादणादयो भवन्तीति यदयं क्वचित्तद्धितविधौ तिङ्ग्रहणं करोति ‐ अतिशायने तमबिष्ठनौ, तिङश्चेति।। (वार्तिकावतरणभाष्यम्) अत उत्तरं पठति ‐ (5094 प्रयोजनवार्तिकम्।। 1 ।।) - ङ्याप्प्रातिपदिकग्रहणमङ्गभपदसंज्ञार्थम् - (भाष्यम्) ङ्याप्प्रातिपदिकग्रहणं क्रियते, अङ्गभपदसंज्ञार्थम्। अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरिति।। (वार्तिकोक्तप्रयोजननिराकरणभाष्यम्) क्व पुनरिहाङ्गभपदसंज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेनार्थः?। टाबादिषु। नैतदस्ति प्रयोजनम्। ग्रहणवद्भ्यष्टाबादयो विधीयन्ते। उगितो ङीब्भवति। अतष्टाब्भवतीति यत्तच्छब्दरूपं गृह्यते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।। (अभ्युपगमवादभाष्यम्) अथापि कश्चिदग्रहणः। एवमपि न दोषः। स्त्रियां टाबादयो विधीयन्ते। यत्तच्छब्दरूपं स्त्रियां वर्तते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।। (आशंकानिराकरणभाष्यम्) अणादिषु तर्हि। अणादयोऽपि ग्रहणवद्भ्यो विधीयन्ते ‐ गर्गादिभ्यो यञ्ञ्, नडादिभ्यः फगिति। यत्तच्छब्दरूपं गृह्यते, तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।। (अभ्युपगमवादभाष्यम्) अथापि कश्चिदग्रहणः। एवमपि न दोषः। अपत्यादिष्वर्थेष्वणादयो विधीयन्ते। यत्तच्छब्दरूपमपत्यादिष्वर्थेषु वर्तते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।। (आशंकानिराकरणभाष्यम्) स्वार्थिकेषु तर्हि। स्वार्थिका अपि ग्रहणवद्भ्यो विधीयन्ते ‐ यावादिभ्यः कन्, प्रज्ञादिभ्योऽणिति। यत्तच्छब्दरूपं गृह्यते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।। (अभ्युपगमवादभाष्यम्) यस्तर्ह्यग्रहणः। शुक्लतमः शुक्लतरः कृष्णतमः कृष्णतर इति। अत्रापि न यावच्छुक्लःउतावच्छुक्लतरः, प्रकृष्टः शुक्लःउशुक्लतरः। यत्तच्छब्दरूपं प्रकृष्टे वर्तते तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति। (आशंकानिराकरणभाष्यम्) स्वादिषु तर्हि। एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। यत्तच्छब्दरूपमेकत्वादिष्वर्थेषु वर्तते। तस्मादुत्पत्तिस्तस्यैताः संज्ञा भविष्यन्ति।। (आक्षेपभाष्यम्) कथं पुनरिहोच्यमानाः स्वादय एकत्वादिष्वर्थेषु शक्या विज्ञातुम्।। (समाधानभाष्यम्) एकवाक्यत्वात्। एकं वाक्यंतच्चेदं च। यद्येकं वाक्यं तच्चेदं च किमर्थं नानादेशस्थं क्रियते? कौशलमात्रमेतदाचार्यो दर्शयति ‐ यदेकं वाक्यं सन्नानादेशस्थं करोति, अन्यदपि किंचित्संग्रहीष्यामीति।। (5095 द्वितीयप्रयोजनवार्तिकम्।। 2 ।।) - यच्छयोश्च लुगर्थम् - (भाष्यम्) यच्छयोस्तर्हि लुगर्थं ङ्याप्प्रातिपदिकग्रहणं क्रियते। कंसीयपरशव्ययोर्यञ्ञञ्ञौ लुक्च इति ङ्याप्प्रातिपदिकात्परस्य लुग्यथा स्यात्। अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेरपि लुक् प्रसज्येत।। (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। यथापरिभाषितं प्रत्ययस्य लुक्श्लुलुपो भवन्तीति ‐ प्रत्ययस्य भविष्यति।। (अनिष्टापत्युद्भावकभाष्यम्) एवमप्युकारसकारयोः प्रसज्येत। कमेः सः कंसः। परान् शृणातीति परशुरिति।। (समाधानभाष्यम्) उणादयोऽव्युत्पन्नानि प्रातिपदिकानि।। (5096 सिद्धान्तवार्तिकम्।। 3 ।।) - वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् - (भाष्यम्) वृद्धावृद्धावर्णस्वरद्वयज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं क्रियते। वृद्धात्, अवृद्धात्, अवर्णान्तात्, अनुदात्तादेः, द्व्यचः, इत्येतानि ङ्याप्प्रातिपदिकविशेषणानि यथा स्युरिति।। (एकदेश्याक्षेपभाष्यम्) अथाक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्यैतानि विशेषणानि स्युः।। (एकदेशिसमाधानभाष्यम्) समर्थविशेषणानि।। (दोषनिरूपकभाष्यम्) तत्र को दोषः।। उदीचां वृद्धादगोत्रात्। इह च प्रसज्येत। ज्ञानां ब्राह्मणानामपत्यमिति। एतद्धि समर्थं वृद्धम्।। इह च न स्यात्। ज्ञयोर्ब्राह्मण्योरपत्यमिति। एतद्धि समर्थमवृद्धम्। वृद्ध।। (दोषप्रदर्शकभाष्यम्) ।। अवृद्ध, प्राचामवृद्धात्फिन्बहुलम्। इह च प्रसज्येत ‐ ज्ञयोर्ब्राह्यण्योरपत्यमिति। एतद्धि समर्थमवृद्धम्। इह च न स्यात् ‐ ज्ञानां ब्राह्मणानामपत्यमिति। एतद्धि समर्थं वृद्धम्। अवृद्ध।। अवर्ण, अत इञ्ञ्भवतीति ‐ इहैव स्यात् ‐ दक्षस्यापत्यं दाक्षिरिति। एतद्धि समर्थमकारान्तम्। इह च न स्यात् ‐ दक्षयोरपत्यं दक्षाणामपत्यमिति। एतद्धि समर्थमनवर्णान्तम्। अवर्ण।। स्वर, अनुदात्तादेरञ्ञ्भवति। इह च प्रसज्येत ‐ वाचो विकारस्त्वचो विकार इति। एतद्धि समर्थमनुदात्तादि। इह च न स्यात् ‐ सर्वेषां विकार इति। एतद्धि समर्थमुदात्तादि। स्वर।। द्व्यज्लक्षण, द्व्यचष्ठन्निति। इह च प्रसज्येत ‐ वाचा तरति त्वचा तरतीति। एतद्धि समर्थं द्व्यच्। इह च न स्यात् ‐ घटेन तरतीति। एतद्धि समर्थमद्व्यच्।। (समर्थाधिकारफलप्रदर्शकभाष्यम्) अस्ति पुनः समर्थविशेषणे सति किंचिदिष्टं संगृहीतं भवति। आहोस्विद्दोषान्तमेव। अस्तीत्याह। किम्? साम्ना तरति वेम्ना तरतीति। एतद्धि समर्थमपि द्व्यच् ङ्याप्प्रातिपदिकमपि।। (आक्षेपभाष्यम्) अथ ङ्याब्ग्रहणं किमर्थम्। न प्रातिपदिकादित्येव सिद्धम्।। (समाधानभाष्यम्) न सिध्यति। अप्रत्यय इति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्राप्नोति।। (प्रत्याक्षेपभाष्यम्) यद्येष ङ्याब्ग्रहणे हेतुः। त्यूङ्ग्रहणमपि कर्तव्यम्। तावपि हि प्रत्ययौ।। (प्रत्याक्षेपनिरासभाष्यम्) तिग्रहणे तावद्वार्तम्। तद्धितः प्रातिपदिकमिति प्रातिपदिकसंज्ञा भविष्यति।। उङ्ग्रहणे चापि वार्तम्। उवर्णान्तादूङि्वधीयते तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति।। (आक्षेपसमर्थकभाष्यम्) यद्येष उङोऽग्रहणे हेतुः। आब्ग्रहणमपि न कर्तव्यम्। आबपि ह्यकारान्ताद्विधीयते। तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति।। यस्तर्ह्यनकारान्तात् ‐ कुञ्ञ्चा, उष्णिहा, देवविशेति। अत्राप्यकारान्ताद् वृत्तिर्लक्ष्यते ‐ क्रुञ्ञ्चानालभेत, उष्णिहककुभौ, देवविशं च मनुष्यविशं चेति।। (आब्ग्रहणवादिभाष्यम्) इह तावदुष्णिहककुभाविति। आप एवैतदौत्तरपदिकं ह्रस्वत्वम्।। इह खल्वपि देवविशं च मनुष्यविशं चेति। नास्ति विशेषः। अकारान्तादम् उत्पत्तौ सत्यां व्यञ्ञ्जनान्ताद्वेति।। (प्रत्याख्यानवादिभाष्यम्) यत्तावदुच्यते ‐ इह तावदुष्णिहककुभावित्याप एवैतदौत्तरपदिकं ह्रस्वत्वमिति।। संज्ञाछन्दसोरित्येवं तत्।। नैषा संज्ञा, नापीदं छन्दः।। यदप्युच्यते इह खल्वपि देवविशं च मनुष्यविशं चेति।। नास्ति विशेषः ‐ अकारान्तादम् उत्पत्तौ सत्यां व्यञ्ञ्जनान्ताद्वेति।। स्वरे विशेषः ‐ यद्यत्र व्यञ्ञ्जनान्तादुत्पत्तिः स्याद् देवविशमित्येवं स्वरः प्रसज्येत। देवविशमिति चेष्यते। तस्मात्क एष एवं विषयः।। (आब्ग्रहणवादिभाष्यम्) इदं तर्हि ‐ पादोऽन्यतरस्याम् टाबृचि इति।। ऋचीत्युच्यते।। तत्र च्छान्दसत्वाद्भविष्यति।। ऋचीति नेदं छन्दो विवक्षितम् ‐ काठकं कालापकं मौदकं पैप्पलादकं वा। किं तर्हि ‐ प्रत्ययार्थविशेषणमेतत्। ऋक्चेत्प्रत्ययार्थो भवतीति।। एतदपि नास्ति प्रयोजनम्। पदशब्दः पादशब्दसमानार्थोऽकारान्तश्छन्दसि दृश्यते ‐ तस्याः सप्ताक्षरमेकं पदम्, एकः पाद इत्यर्थः। तस्मादुत्पत्तिर्भविष्यति।। इदं तर्हि ‐ डाबुभाभ्यामन्यतरस्याम् इति। बहुराजा बहुराजे बहुराजा इति।। (5097 सिद्धान्तवार्तिकम्।। 4 ।।) - ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् - (भाष्यम्) ङ्याब्ग्रहणमनर्थकम्।। किं कारणम्? प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्।। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येषा परिभाषा कर्तव्या। कः पुनरत्र विशेषः? एषा वा परिभाषा क्रियेत, ङ्याब्ग्रहणं वा? अवश्यमेषा परिभाषा कर्तव्या। बहून्येतस्याः परिभाषायाः प्रयोजनानि।। (जिज्ञासाभाष्यम्) कानि? (5098 प्रयोजनवार्तिकम्।। 5 ।।) - सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् - (भाष्यम्) सर्वनामविधिः प्रयोजनम्। सर्वनाम्नः सुडिहैव स्यात् ‐ येषाम्, तेषाम्।। यासाम्, तासामित्यत्र न स्यात्।। (प्रयोजनखण्डनभाष्यम्) नैतदस्ति प्रयोजनम्। अवर्णान्ताट्टाब्विधीयते। तत्रैकादेशे कृतेऽन्तादिवद्भावात्सुड् भविष्यति।। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् ‐ सर्वनाम्नस्तृतीया च इहैव स्यात् ‐ भवता हेतुना, भवतो हेतोरिति। भवत्या हेतुना, भवत्या हेतोरित्यत्र न स्यात्। सर्वनाम।। (व्याख्यानभाष्यम्) स्वर, कुसूलकूपकुम्भशालं बिले इहैव स्यात् ‐ कुसूलबिलम्। कुसूलीबिलमित्यत्र च न स्यात्। स्वर।। (व्याख्यानभाष्यम्) समास द्वितीया श्रितादिभिः सह समस्यते। इहैव स्यात् ‐ कष्टं श्रितःउकष्टश्रितः। कष्टं श्रिताउकष्टश्रितेत्यत्र न स्यात्।। (वार्तिकोक्तप्रयोजनखण्डनभाष्यम्) एतदपि नास्ति प्रयोजनम्। श्रितशब्दोऽकारान्तस्तत्रैकादेशे कृतेऽन्तादिवद्भावाद्भविष्यति।। (प्रयोजनभाष्यम्) इदं तर्हि ‐ पूर्वसदृशेति। इहैव स्यात् ‐ पित्रा सदृशःउपितृसदृशः।। पित्रा सदृशीउपितृसदृशीत्यत्र न स्यात्। समास।। (व्याख्यानभाष्यम्) तद्धितविधि, अचित्तहस्तिधेनोष्ठक् इहैव स्यात्-हस्तिनां समूहो हास्तिकम्।। हस्तिनीनां समूहो हास्तिकमित्यत्र न स्यात्।। (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। पुंवद्भावेनैतत्सिद्धम्।। (प्रयोजनभाष्यम्) इदं तर्हि ‐ प्रमाणे द्वयसच्। यथेह भवति ‐ हस्तिद्वयसम्, हस्तिमात्रम्। एवं हस्तिनीद्वयसम्, हस्तिनीमात्रमित्यपि यथा स्यात्। तद्धितविधि।। (व्याख्यानभाष्यम्) लुक्, नेन्सिद्धबध्नातिषु च इहैव स्यात् ‐ स्थण्डिलशायी।। स्थण्डिलशायिनीत्यत्र न स्यात्। लुक्।। (व्याख्यानभाष्यम्) अलुक् शयवासवासिष्वकालात् इहैव स्यात् ‐ ग्रामेवासी।। ग्रामेवासिनीत्यत्र न स्यात्।। (5099 परिभाषाप्रयोजनवार्तिकम्।। 6 ।।) - मानिनि च विधिप्रतिषेधार्थम् - (भाष्यम्) मानिनि च विधिप्रतिषेधार्थं प्रयोजनम् ‐ विध्यर्थं तावत् क्यङ्मानिनोश्च इहैव स्यात्। दर्शनीयमानी।। दर्शनीयमानिनीत्यत्र न स्यात्।। प्रतिषेधार्थमपि। वक्ष्यति स्वाङ्गाच्चेतोऽमानिनि तस्मिन् क्रियमाणे इहैव स्यात् ‐ दीर्घमुखमानी।। दीर्घमुखमानिनीत्यत्र न स्यात्।। (5100 परिभाषाप्रयोजनवार्तिकम्।। 7 ।।) - प्रत्ययग्रहणोपचारेषु च - (भाष्यम्) प्रत्ययग्रहणोपचारेषु च प्रयोजनम्। तृजकाभ्यां कर्तरि इहैव स्यात् ‐ अपां स्रष्टा।। अपां स्रष्ट्रीत्यत्र न स्यात्। प्रत्यय।। उपचार ‐ अतः कृकमिकंसकुम्भ इहैव स्यात् ‐ अयस्कुम्भः।। अयस्कुम्भीत्यत्र न स्यात्।। (परिभाषाफलोपसंहारभाष्यम्) एतान्येतस्याः परिभाषायाः प्रयोजनानि। यदर्थमेषा परिभाषा कर्तव्या।। एतस्यां च सत्यां नार्थो ङ्याब्ग्रहणेन।। (5101 परिभाषाक्षेपवार्तिकम्।। 8 ।।) - अतिप्रसङ्ग उपपदविधौ - (भाष्यम्) उपपदविधावतिप्रसङ्गो भवति द्विषत्परयोस्तापेः यथेह भवति-द्विषन्तप इति।। एवं द्विषतीताप इत्यत्रापि स्यात्।। (5102 परिभाषाक्षेपे द्वितीयवार्तिकम्।। 9 ।।) - यञ्ञिञ्ञोः फकि - (भाष्यम्) यञ्ञिञ्ञोः फक्यतिप्रसङ्गो भवति। यथेह भवति ‐ गार्ग्यायणः, दाक्षायणः।। एवं गार्गेयो दाक्षेय इत्यत्रापि स्यात्।। नैष दोषः।। ढगत्र बाधको भविष्यति।। (5103 परिभाषाक्षेपे तृतीयवार्तिकम्।। 10 ।।) - समासान्तेषु च - (भाष्यम्) समासान्तेषु चातिप्रसङ्गो भवति राजाहः सखिभ्यष्टच् यथेह भवति ‐ मद्रराजः, कश्मीरराजः।। एवं मद्रराज्ञी कश्मीरराज्ञीत्यत्रापि स्यात्।। (आक्षेपभाष्यम्) न वा भवति मद्रराजीति।। (उपपादकभाष्यम्) भवति, यदा समासान्तादीकारः। लिङ्गविशिष्टग्रहणे तु इर्कारान्तात्समासान्तः प्रसज्येत।। तत्र को दोषः? पुंवद्भावष्टिलोपश्च। तत्र मद्रराजीत्येवं रूपं स्यात् मद्रराज्ञीति चेष्यते।। (5104 परिभाषाक्षेपे चतुर्थवार्तिकम्।। 11 ।।) - महदात्वे प्रियादिषु - (भाष्यम्) महदात्वे प्रियादिष्वतिप्रसङ्गो भवति। आन्महतः समानाधिकरणजातीययोः इति यथेह भवति महान् प्रियोऽस्य महाप्रियः।। एवं महती प्रियाऽस्य महतीप्रिय इत्यत्रापि स्यात्।। किमुच्यते प्रियादिष्विति? यत्र पुंवद्भावः प्रतिषिध्यते।। यत्र तु न प्रतिषिध्यते भवितव्यमेव तत्रात्वेनेति।। (5105 परिभाषाक्षेपे पञ्ञ्चमवार्तिकम्।। 12 ।।) - ञ्ञ्नित्स्वरे - (भाष्यम्) ञ्ञ्नित्स्वरेऽतिप्रसङ्गो भवति ञ्ञ्नित्यादिः उदात्तो भवतीति। यथेह भवति ‐ दाक्षिः, अहिचुम्बकायनिः।। एवं दाक्षी, अहिचुम्बकायनीत्यत्रापि स्यात्।। (5106 परिभाषाक्षेपे षष्ठवार्तिकम्।। 13 ।।) - राज्ञः स्वरे ब्राह्मणकुमारयोः - (भाष्यम्) राज्ञः स्वरे ब्राह्मणकुमारयोरतिप्रसङ्गो भवति राजा च ब्राह्मणकुमारयोरिति। यथेह भवति ‐ राजब्राह्मणः, राजकुमारः।। एवं राजब्राह्मणी, राजकुमारीत्यत्रापि स्यात्।। (5107 परिभाषाक्षेपे सप्तमवार्तिकम्।। 14 ।।) - समाससंघातग्रहणेषु च - (भाष्यम्) समाससंघातग्रहणेषु चातिप्रसङ्गो भवति बहोर्नञ्ञ्वदुत्तरपदभूम्नि यथेह भवति ‐ बहुगोमान् बहुयवमान्।। एवं बहुगोमती बहुयवमतीत्यत्रापि स्यात्। (संघातपदाक्षेपभाष्यम्) किमुच्यते समाससंघातग्रहणेष्विति?।। (संघातपदप्रयोजनभाष्यम्) यदवयवग्रहणं प्रयोजनमेवैतस्याः परिभाषायाः कुसूलकूपकुम्भशालं बिले कुसूलीबिलमिति यथा।। (5108 परिभाषाक्षेपेऽमष्टेवार्तिकम्।। 15 ।।) - विभक्तौ चोक्तम् - (भाष्यम्) किमुक्तम्? न वा विभक्तौ लिङ्गविशिष्टाग्रहणादिति।। (परिभाषोपसंहारभाष्यम्) एतेऽस्याः परिभाषाया दोषाः, एतानि च प्रयोजनानि स्युः।। एते दोषाः समा भूयांसो वा? तस्मान्नार्थोऽनया परिभाषया।। न हि दोषाः सन्तीति परिभाषा न कर्तव्या। लक्षणं वा न परिणेयम्।। न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। न च मृगाः सन्तीति यवा नोप्यन्ते।। दोषाः खल्वपि साकल्येन परिगणिताः। प्रयोजनानामुदाहरणमात्रम्। कुत एतत्। न हि दोषाणां लक्षणमस्तीति।। तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या, प्रतिविधेयं च दोषेषु।। (5109 ङ्याप्प्रयोजनवार्तिकम्।। 16 ।।) - तद्धितविधानार्थं तु - (भाष्यम्) तद्धितविधानार्थं तु ङ्याब्ग्रहणं कर्तव्यं ङ्याबन्तात्तद्धितोत्पत्तिर्यथा स्यात् ‐ कालितरा, हरणितरा, खट्वातरा, मालातरा।। (आक्षेपभाष्यम्) किं पुनः कारणं न सिध्यति? (5110 आक्षेपसाधकवार्तिकम्।। 17 ।।) - विप्रतिषेधाद्धि तद्धितबलीयस्त्वम् - (भाष्यम्) विप्रतिषेधाद्धि तद्धितोत्पत्तिः प्राप्नोति।। (5111 ङ्याब्ग्रहणे दोषवार्तिकम्।। 18 ।।) - तत्र समासान्तेषु दोषः - (भाष्यम्) तत्र समासान्तेषु दोषो भवति ‐ बहुगोमत्का, बहुयवमत्का।। समासान्ता अपि ङ्याबन्तात्स्युः।। (5112 न्यूनतापूरकवार्तिकम्।। 19 ।।) - त्यूङोश्च ग्रहणम् - (भाष्यम्) त्यूङोश्चापि ग्रहणं कर्तव्यं भवति। युवतिका, ब्रह्मबन्धुकेति।। (वार्तिकाक्षेपभाष्यम्) उङ्ग्रहणेन तावन्नार्थः। नास्त्यत्र विशेषः। उकारान्तादुत्पत्तौ सत्यामूङन्ताद्वा।। (प्रयोजनभाष्यम्) इदं तर्हि ‐ युवतितरा, ब्रह्मबन्धुतरा, इति।। (5113 दोषपरिहारवार्तिकम्।। 20 ।।) - तदन्तस्य च प्रत्ययार्थेनायोगात्तद्धितानुत्पत्तिः - (भाष्यम्) तदन्तस्य च ङ्याबन्तस्य प्रत्ययार्थेनायोगात्तद्धितोत्पत्तिर्न प्राप्नोति। कालितरा, हरिणितरा, खट्वातरा, मालातरेति।। किं कारणम्? ङ्याबन्तमेतत् स्त्रीप्रधानम्। न च स्त्रीत्वस्य प्रकर्षाप्रकर्षौ स्तः। नैष दोषः। न हि किंचिदुच्यते ‐ एवंजातीयकादुत्पत्तव्यमेवं जातीयकान्नेति। एतावदुच्यते ‐ अतिशायने तमबिष्ठनौ तिङश्च इति। यस्य च प्रकर्षोऽस्ति तस्य प्रकर्षे प्रत्ययो भविष्यति। अस्ति चाप्रधानस्य गुणस्य प्रकर्षः। इह खल्वपि शुक्लतरः कृष्णतर इति। द्रव्यं प्रधानम्। गुणस्य च प्रकर्षे प्रत्यय उत्पद्यते।। (5114 सिद्धान्तवार्तिकम्।। 21 ।।) - उक्तं वा - (भाष्यम्) किमुक्तम्? सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात्स्वार्थे टाबादयः इति। प्रातिपदिकविशेषणं स्त्रीग्रहम्, स्वार्थिकाष्टाबादयः।। नैवं विज्ञायते ‐ स्त्रियामभिधेयायामिति।। नापि स्त्रीसमानाधिकरणात्प्रातिपदिकादिति।। कथं तर्हि ‐ यत्प्रातिपदिकं स्त्रियां वर्तते तस्माट्टाबादयो भवन्ति।। कस्मिन्नर्थे? स्वार्थे इति।। (वार्तिकोक्तदोषपरिहारभाष्यम्) ननु चोक्तं तत्र समासान्तेषु दोष इति।। समासान्ता अपि स्वार्थिकाः।। उभयोः स्वार्थिकयोः परत्वात्समासान्ता भविष्यन्ति।। (वार्तिकोक्तदोषपरिहारभाष्यम्) कथं कालिकेति?।। प्रत्ययस्थात्कात्पूर्वस्येतीत्वं भविष्यति।। (वार्तिकोक्तदोषपरिहारभाष्यम्) कथं हरिणिका इति?।। हरिणशब्दः प्रकृत्यन्तरमस्ति। (वार्तिकोक्तदोषपरिहारभाष्यम्) कथं लोहिनिकेति? वक्ष्यत्येतल्लोहिताल्लिङ्गबाधनं वेति ।। 1 ।।