Page loading... Please wait.
3|4|94 - लेटोऽडाटौ
॥ तस्मै पाणिनये नमः ॥
3|4|94
SK 3427
लेटोऽडाटौ   🔊
सूत्रच्छेदः
लेटः (षष्ठ्येकवचनम्) , अट्-आटौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 लस्य  3|4|77
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
लेटो ऽडाटावागमौ भवतः पर्यायेण। जोषिषत्। तारिषत्। मन्दिषत्। पताति दिद्युत्। प्रजापतिरुदधिं च्यावयाति।
`पर्यायेण` इति। अथ युगपदेव कस्मान्न भवतः? एवं मन्यते-- टितावेतौ विधीयेते, टित्त्वञ्चादिविधानार्थंम्। न च युगपद्द्वयोरादित्वं भवति, एकेनैवादिदेशस्यावष्टब्धत्वान्न युक्तं यौगपद्यमिति। `जोषिषत्` इत्यादीव्युदाहरणानि `सिब्बहुलं लेटि` 3|1|34 इत्यत्र व्युत्पादितानि। अत्रापि व्युत्पाद्यन्ते। `जोषिषत्` इति-- `जुषी प्रीतिसेवनयोः` (धातुपाठः-1288), सिप इकार उच्चारणार्थः, अनेनाट्, `इतश्च लोपः परस्मैपदेषु` 3|4|97 इतीकारलोपः `आर्धधातुकस्येड्वलादेः` 7|2|35 इतीट्, लघूपधगुणः, `आदेशप्रत्यययोः` 8.3.59) इति षत्वम्। `तारिषत्` इति-- `तृ प्लवनतरणयोः` (धातुपाठः-969), `सार्वधातुकार्धधातुकयोः` 7|3|84 इति व्यत्ययेन धात्वकारस्य दीर्घः। शेषं पूर्ववत्। `मन्दिवत्` इति--`मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु` (धातुपाठः-13) इदितो नुम्` 7|1|58 । `पदाति` इति। `पद गतौ` (धातुपाठः-1169) दिवादावनुदात्तेत् , व्यत्ययेन परस्मैपदम्; शप्प्रत्ययश्च, अटा सहाकः सवर्णे 6|1|97 दीर्घत्वम्, तिप्। इकारलोपोऽत्र न भवति; तद्विधौ `वैतोऽन्यत्र` 3|4|96 इत्यतो वाग्रहणानुवृत्तेः। `च्यावयति` इति। `च्युङ् ज्युङ प्रुङ प्लुङ गतौ` (धातुपाठः-955--958), हेतुमण्णिच्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
लेटः अट् आट् एतावागमौ स्तस्तौ च पितौ ॥ ब्बिहुलं णिद्वक्तव्यः (वार्तिकम्) ॥ वृद्धिः । प्रण आयूंषि तारिषत् (प्रण॒ आयूं॑षि तारिषत्) । सुपेशसस्करति जोषिषद्धि (सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि) । आ साविषदर्शसानाय (आ सा॑विषदर्शसा॒नाय॒) । सिप इलोपस्य चाभावे । पाताति दिद्युत् (पाता॑ति दि॒द्युत्) । प्रियः सूर्ये प्रियो अग्ना भवाति (प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.