॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|93
SK 2253
3|4|93
एत ऐ   🔊
SK 2253
सूत्रच्छेद:
एतः - षष्ठ्येकवचनम् , ऐ (लुप्तप्रथमान्तनिर्देशः)
अनुवृत्ति:
उत्तमस्य  [3|4|92] - षष्ठ्येकवचनम् ,  लोटः  [3|4|85] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लोट: लस्य उत्तमस्य एत: ऐः
सूत्रार्थ:
लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययेषु विद्यमानस्य एकारस्य ऐ-आदेशः भवति ।
लोट्-लकारस्य उत्तमपुरुषस्य प्रत्ययेषु विद्यमास्य एकारस्य आमेतः 3|4|90 इत्यनेन आम्-आदेशे प्राप्ते वर्तमानसूत्रेण परत्वेन अपवादत्वेन च वर्तमानसूत्रेण ऐ-आदेशः भवति । अस्य उदाहरणानि आत्मनेपदस्य प्रत्ययेषु दृश्यन्ते, यतः परस्मैपदस्य प्रत्ययेषु एकारस्यैव प्रसक्तिः नास्ति ।

तन्-धातुं स्वीकृत्य उदाहरणानि एतानि -

1. आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः
तन् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ तन् + इट् [तिप्तस्..3|4|78 इति इट् -प्रत्ययः]
→ तन् + उ + इ [तनादिकृञ्भ्यः उः 3|1|79 इति उ-प्रत्ययः]
→ तन् + उ + ए [टित आत्मनेपदानां टेरे 3|4|79 इति इकारस्य एकारादेशः]
→ तन् + उ + ऐ [एत ऐ 3|4|93 इति एकारस्य ऐकारादेशः]
→ तन् + उ + आट् + ऐ [आडुत्तमस्य पिच्च 3|4|92 इति आडागमः]
→ तन् + उ + ऐ [आटश्च 6|1|90 इति वृद्धि-एकादेशः]
→ तन् + ओ + ऐ [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]
→ तन् + अव् + ऐ [एचोऽयवावावः 6|1|78 इति अवादेशः]
→ तनवै

2. आत्मनेपदस्य उत्तमपुरुषद्विवचनस्य वहि-प्रत्ययः
तन् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ तन् + वहि [तिप्तस्..3|4|78 इति वहि-प्रत्ययः]
→ तन् + उ + वहि [तनादिकृञ्भ्यः उः 3|1|79 इति उ-प्रत्ययः]
→ तन् + उ + वहे [टित आत्मनेपदानां टेरे 3|4|79 इति इकारस्य एकारादेशः]
→ तन् + उ + वहै [एत ऐ 3|4|93 इति एकारस्य ऐकारादेशः]
→ तन् + उ + आट् + वहै [आडुत्तमस्य पिच्च 3|4|92 इति आडागमः]
→ तन् + ओ + आ + वहै [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]
→ तन् + अव् + आ + वहै [एचोऽयवावावः 6|1|78 इति अवादेशः]
→ तनवावहै

3. आत्मनेपदस्य उत्तमपुरुषबहुवचनस्य महिङ्-प्रत्ययः
तन् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ तन् + महिङ् [तिप्तस्..3|4|78 इति वहि-प्रत्ययः]
→ तन् + उ + महि [तनादिकृञ्भ्यः उः 3|1|79 इति उ-प्रत्ययः]
→ तन् + उ + महे [टित आत्मनेपदानां टेरे 3|4|79 इति इकारस्य एकारादेशः]
→ तन् + उ + महै [एत ऐ 3|4|93 इति एकारस्य ऐकारादेशः]
→ तन् + उ + आट् + महै [आडुत्तमस्य पिच्च 3|4|92 इति आडागमः]
→ तन् + ओ + आ + महै [आट्-आगमस्य पित्-त्वात् सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]
→ तन् + अव् + आ + महै [एचोऽयवावावः 6|1|78 इति अवादेशः]
→ तनवामहै
One-line meaning in English
The एकार occurring in the उत्तमपुरुष प्रत्यया: of लोट्-लकार is converted to ऐ.
काशिकावृत्तिः
लोट उत्तमस्य इति वर्तते। लोडुत्तमसम्भन्धिनः एकारस्य ऐकाराऽदेशो भवति। आमो ऽपवादः। करवैक् करवावहै, करवामहै। इह कस्मान् न भवति, पचावेदम्, यजावेदम्? बहिरङ्गलक्षणत्वाद् गुणस्य।
`आमोऽपवादः` इति। `आमेतः` 3|4|90 इति प्राप्तस्य। `पचावेदं यजावेदम्` इति। `लोटो लङ्वत्` 3|4|85 इति सलोपे सति `आद्गुणः` 6|1|87 इति वृद्धिः॥
इह कस्मादिति । गुणस्यान्तवद्भावेन लोड्ग्रहणेन ग्रहणादस्ति प्रसङ्ग इति भावः । बहिरङ्गलक्षणत्वादिति । द्विपदाश्रयत्वाद् गुणस्य बहिरङ्गत्वम्, ऐकारस्त्वेकपदाश्रयत्वादन्तरङ्गः, अत एव हेतोः ठामेतःऽ इत्ययमपि विधिर्न भवति ॥
सिद्धान्तकौमुदी
लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ॥
इतश्च - इतश्च । लस्येत्यधिकृमतम् ।इतश्च लोपः परसमैपदेष्वि॑त्यस्माल्लोप इति, परस्मैपदेष्विति चानुवर्तते । परस्मैपदष्वित्येततत्षष्ठआ विपरिणम्यते । तदाह — ङितो लस्येत्यादिना । अलोऽन्त्यस्येत्यन्त्यस्य लोपः । तदाह — अभवदिति । अभवतामिति । लङस्तस्तामादेशः । शप् गुणावादैशौ । अट् । अभवन्निति । झेरन्तादेशः । शप् गुणावादेशौ ।अट् ।इतश्चे॑तीकारलोपः । तकारस्य संयोगान्तलोपः । अभव इति । सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ । अभवतमिति । थसस्तमादेशः । शप् । गुणावदेशौ । अट् । अभवतेति । थस्य तादेशे शपि गुणे अवादेशेऽटि । अभवमिति । मिपोऽमादेशे शपि गुणेऽवादेशे पूर्वरूपम् । अभवावेति । वसि शपि गुणावादेशौ । अट् ।अतो दीर्घो यञी॑ति दीर्घः । "नित्यं ङित" इति सकारलोपः । एवं मसि अभवामेति रूपम् । इति लङप्रक्रिया ।
इतश्च - ॒इतश्च लोपः॑ इति सूत्रात्परस्मैपदेष्वित्यनुवृत्तं षष्ठएकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेष्येते । तदाह — परस्मैपदमिकारान्तं यत्तस्येति । प्राचा तुपरस्मैपदेष्विकारस्य लोपर॑ इत्युक्तम्, तदयुक्तम्, भवेदित्यादावतिव्याप्तेः । ननुअतो येयः॑ इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्तातिव्याप्तिःइतश्चे॑ति तपरकरणात् । अत एव अबोभवीदित्यादावपि न दोष इति चेत् । मैवम् । करुदेर्लङि अरुदितामित्यादौ दोषध्रौव्यादिति मनोरमायां स्थितम्॥
लघुसिद्धान्तकौमुदी
लोडुत्तमस्य एत ऐ स्यात्। एधै। एधावहै। एधामहै॥ आटश्च। ऐधत। ऐधेताम्। ऐधन्त। ऐधथाः। ऐधेथाम्। ऐधध्वम्। ऐधे। ऐधावहि। ऐधामहि॥
महाभाष्यम्
एत ऐ (1254) (693 आदेशविधिसूत्रम्।। 3 । 4 । 1 आ. 25) (5078 आक्षेपवार्तिकम्।। 1।।) - एत ऐत्वे आद्गुणप्रतिषेधः- (भाष्यम्) एत ऐत्वे आद्गुणस्य प्रतिषेधो वक्तव्यः। पचावेदम्। पचामेदम्। आद्गुणे कृते एत ऐ इत्यैत्वं प्राप्नोति।। (5079 आक्षेपबाधकवार्तिकम्।। 2 ।।) - न वा बहिरङ्गलक्षणत्वात्- (भाष्यम्) न वा वक्तव्यः। किं कारणम्?। बहिरङ्गलक्षणत्वात्। बहिरङ्गलक्षण आद्गुणः। अन्तरङ्गमैत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे।। एत ऐ।। 93 ।।