॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|91
SK 2252
3|4|91
सवाभ्यां वामौ   🔊
SK 2252
सूत्रच्छेद:
स-वाभ्याम् - पञ्चमीद्विवचनम् , व-अमौ - प्रथमाद्विवचनम्
अनुवृत्ति:
एतः  [3|4|90] - षष्ठ्येकवचनम् , लोटः  [3|4|85] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लोट: लस्य सवाभ्याम् एत: व-अमौ
सूत्रार्थ:
लोट्लकारस्य प्रत्ययेषु विद्यमानस्य सकारात् परस्य एकारस्य "व" आदेशः तथा वकारात् परस्य एकारस्य अम्-आदेशः भवति ।
लोट्लकारस्य प्रत्ययेषु सकारात्-परः एकारः मध्यमपुरुषैकवचनस्य विषये, तथा वकारात्-परः एकारः मध्यमपुरुषबहुकवचनस्य विषये दृश्यते । एतयोः क्रमेण व् तथा अम् आदेशौ भवतः । वन्द्-धातुं स्वीकृत्य प्रक्रिया एतादृशी भवति -

1. मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः
वन्द् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ वन्द् + थास् [तिप्तस्.. 3|4|78 इति थास्-प्रत्ययः]
→ वन्द् + शप् + थास् [कर्तरि शप् 3|1|68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ]
→ वन्द् + अ + से [थासस्से 3|4|80 इति थास्-प्रत्ययस्य "से" आदेशः]
→ वन्द् + अ + स् + व [सवाभ्यां वामौ 3|4|91 इति सकारात् परस्य एकारस्य वकारः]
→ वन्दस्व

2. मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः
वन्द् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ वन्द् + ध्वम् [तिप्तस्.. 3|4|78 इति ध्वम् -प्रत्ययः]
→ वन्द् + शप् + ध्वम् [कर्तरि शप् 3|1|68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ]
→ वन्द् + अ + ध्वे [टित आत्मनेपदानां टेरे 3|4|68 इति एकारः]
→ वन्द् + अ + ध्व् + अम् [सवाभ्यां वामौ 3|4|91 इति वकारात् परस्य एकारस्य अम्-आदेशः]
→ वन्दध्वम्
One-line meaning in English
An एकार coming after a सकार or a वकार of प्रत्यय of लोट्लकार is respectively converted to व and अम्.
काशिकावृत्तिः
लोटः इत्येव। सकारवकाराभ्याम् उत्तरस्य लोट्सम्बन्धिन एकारस्य यथासङ्ख्यं च अम् इत्येतावादेशौ भवतः। आमो ऽपवादः। पचस्व। पचध्वम्।
`पचस्व` इति। `थासः से` 3|4|80 इति कृते वकारः। `पचध्वम` इति। टेरेत्वे कृतेऽमादेशः॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥
सवाभ्यां वामौ - सवाभ्यां । सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च अम्च वाऽमौ ।लोटो लङ्व॑दित्यास्माल्लोट इतिआमेत॑इत्यस्मादेत इति चानुवर्तते । तदाह — सकारेति ।आमेत॑इत्यस्यापवादः । एधस्वेति ।एध-सेट इत्यत्र एकारस्य "व" इति वकाराकारसङ्घात आदेशः । एधेथामिति । आथाम् । टेरत्वं । शप् । "आतो ङि" इत्याकारस्य इय् । गुणः । यलोपः "आमेत" इत्याम् । एधध्वमिति । ध्वमि, शप्, टेरेत्वे कृते सवाभ्यामिति वकारात्परत्वादेकारस्य अम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!