॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|90
SK 2251
3|4|90
आमेतः   🔊
SK 2251
सूत्रच्छेद:
आम् - प्रथमैकवचनम् , एतः - षष्ठ्येकवचनम्
अनुवृत्ति:
लोटः  [3|4|85] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लोट: लस्य एत: आम्
सूत्रार्थ:
लोट्-लकारस्य विषये प्रत्यये विद्यमानस्य एकारस्य आम्-आदेशः भवति ।
लोट्लकारस्य विषये तिङ्-प्रत्ययेषु यत्र एकारः दृश्यते, तत्र तस्य आम्-आदेशः भवति । परस्मैपदस्य नव प्रत्ययेषु कुत्रापि एकारः न दृश्यते, अतः अस्य सूत्रस्य प्रसक्तिः केवलम् आत्मनेपदस्य प्रत्ययेषु एव भवति । तनादिगणस्य तन्-धातुं स्वीकृत्य आत्मनेपदस्य सर्वेषां प्रत्ययानाम् प्रक्रिया इयम् -

1. प्रथमपुरुषैकवचनस्य "त" प्रत्ययः -
तन् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ तन् + त [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् त-प्रत्ययः]
→ तन् + उ + त [तनादिकृञ्भ्यः उः 3|1|79 इति उ-प्रत्ययः]
→ तन् + उ + ते [टित आत्मनेपदानां टेरे 3|4|79 इत्यनेन अकारस्य एकारः]
→ तन् + उ + ताम् [आमेतः 3|4|90 इति एकारस्य आम्-आदेशः]
→ तनुताम्

2. प्रथमपुरुषद्विवचनस्य "आताम्" प्रत्ययः -
तन् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ तन् + आताम् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषद्विवचनस्य विवक्षायाम् आताम्-प्रत्ययः]
→ तन् + उ + आताम् [तनादिकृञ्भ्यः उः 3|1|79 इति उ-प्रत्ययः]
→ तन् + उ + आते [टित आत्मनेपदानां टेरे 3|4|79 इत्यनेन टिसंज्ञकस्य "आम्"-इत्यस्य एकारः]
→ तन् + उ + आताम् [आमेतः 3|4|90 इति एकारस्य आम्-आदेशः]
→ तन्वाताम् [इको यणचि 6|1|77 इति यणादेशः]

3. प्रथमपुरुषबहुवचनस्य "झ" प्रत्ययः -
तन् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ तन् + झ [तिप्तस्.. 3|4|78 इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झ-प्रत्ययः]
→ तन् + उ + झ [तनादिकृञ्भ्यः उः 3|1|79 इति उ-प्रत्ययः]
→ तन् + उ + अत [आत्मनेपदेष्वनतः 7|1|5 इत्यनेन झ्-इत्यस्य अत्-आदेशः]
→ तन् + उ + अते [टित आत्मनेपदानां टेरे 3|4|79 इत्यनेन अत्-इत्यस्य एकारः]
→ तन् + उ + अताम् [आमेतः 3|4|90 इति एकारस्य आम्-आदेशः]
→ तन्वताम् [इको यणचि 6|1|77 इति यणादेशः]

4. मध्यमपुरुषैकवचनस्य "थास्" प्रत्ययः -
अस्य प्रत्ययस्य थासस्से 3|4|80 इत्यनेन से-आदेशः भवति । अग्रे आमेतः 3|4|90 इत्यनेन एकारस्य आम्-आदेशे प्राप्ते सवाभ्यां वामौ __3।491__ इत्यनेन अपवादत्वेन एकारस्य वकारादेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति ।

5. मध्यमपुरुषद्विवचनस्य "आथाम्" प्रत्ययः -
तन् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ तन् + आथाम् [तिप्तस्.. 3|4|78 इति मध्यमपुरुषद्विवचनस्य विवक्षायाम् आथाम्-प्रत्ययः]
→ तन् + उ + आथाम् [तनादिकृञ्भ्यः उः 3|1|79 इति उ-प्रत्ययः]
→ तन् + उ + आथे [टित आत्मनेपदानां टेरे 3|4|79 इत्यनेन टिसंज्ञकस्य "आम्"-इत्यस्य एकारः]
→ तन् + उ + आथाम् [आमेतः 3|4|90 इति एकारस्य आम्-आदेशः]
→ तन्वाथाम् [इको यणचि 6|1|77 इति यणादेशः]

6. मध्यमपुरुषबहुवचनस्य "ध्वम्" प्रत्ययः -
अस्य प्रत्ययस्य टित आत्मनेपदानां टेरे 3|4|79 इत्यनेन एकारादेशेन "ध्वे" भवति । अग्रे आमेतः 3|4|90 इत्यनेन एकारस्य आम्-आदेशे प्राप्ते सवाभ्यां वामौ __3।491__ इत्यनेन अपवादत्वेन एकारस्य अम्-आदेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति ।

7. उत्तमपुरुषस्य प्रत्ययानाम् विषये एत ऐ 3|4|93 इत्यनेन एकारस्य ऐकारादेशः भवति, अतः वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
One-line meaning in English
An एकार present in the प्रत्यया: of लोट्-लकार is converted to आम्.
काशिकावृत्तिः
लोटः इत्येव। लोट् सम्बधिनः एकारस्य अम् इत्ययम् आदेशो भवति। पचताम्, पचेताम्, पचन्ताम्।
अत्रैकारेण लोड्विशिष्यते, लोटा वैकार इति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत तदैकास्य विशएषणत्वाद्विशेषणेन च तदन्तविधिर्भवतीत्येकारान्तस्य लोट आम् विधीयमानोऽनेकाल्त्वात् सर्वादेशः स्यादित्येष दोषः प्रतिविधेयः। द्वितीये तु पक्ष एकार एव विशेष्यत्वात् प्रधानम्। न च प्रधाने तदन्तविधिरित्येकारस्यैव भविष्यीति न किञ्चित् प्रतिविधेयम्। तेन द्वितीयपक्षमाश्रित्याह-- `लोट्सम्बन्धिन एकारस्य` इत्यादि। `पचताम्` इति। टेरेत्वे कृत आम्। इह पचावेदम्, यजावेदमिति यद्यप्यन्तादिवद्भावाद्गुणो लोड्ग्रहणेन गृह्रते, तथापि बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यन्तरङ्ग आमादेशे कत्र्तव्ये बहिरङ्गस्याद्गुणस्यासिद्धत्वादामादेशो न भवति। बहिरङ्गत्वं तु गुणस्य द्विपदाश्रयत्वात्। आमस्त्वन्तरङ्गत्वमेकपदाश्रयत्वात्॥
लोट्सम्बन्धिन इति । लोडादेशसम्बन्धिन इत्यर्थः । एतेन लोटैकारो विशेष्यत इति दर्शयति । एकारेण तु लोटि विशेष्यमाणे तदन्तविधौ सत्येकारान्तस्य लोट आम्विधीयमानोऽनेकाल्त्वात्सर्वादेशः स्यात्, तत्र हि ठ्निर्दिश्यमानस्यादेशा भवन्तिऽ इति परिहारो वाच्यः स्यादित्यर्थः ॥
सिद्धान्तकौमुदी
लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥
आमेतः - आमेतः । आम्-एत इति च्छेदः ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोट एकारस्येति । लोडादेशावयवस्य एकारस्येत्यर्थः । एधतामिति । लोटस्तादेशे टेरेत्वे आमादेशे शपि रूपम् । एधेतामिति । आताम् । टेरेत्वं । शप् ।सार्वधातुकमपि॑दिति ङित्त्वादातो ङित इत्याकारस्य इय् । गुणः । यकारलोपः । "आमेत" इत्येकारस्य आम् । एधन्तामिति । झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम् ।अथ लोटस्थासः सेभावे शपि एध — से इति स्थिते ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!