॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|9
SK 3436
3|4|9
तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः   🔊
SK 3436
सूत्रच्छेद:
तुमर्थे - सप्तम्येकवचनम् , से-सेन्-असे-असेन्-क्से-कसेन्-अध्यै-अध्यैन्-कध्यै-कध्यैन्-शध्यै-शध्यैन्-तवै-तवेङ्-तवेन: - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
छन्दसि इत्येव। तुमुनो ऽर्थस् तुमर्थः। तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति। तुमर्थो भावः। कथं ज्ञायते? वचनसामर्थ्यात् तावदयम् कर्तुरपकृष्यते। न च अयम् अन्यस्मिन्नर्थे तुमुनादिश्यते। अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति। स्वार्थश्च धातूनां भाव एव। से वक्षे रायः। सेन् ता वामेषे रथानाम्। असे, असेन् क्रत्वे दक्षाय जीवसे। स्वरे विशेषः। क्षे प्रेषे भगाय कसेन् श्रियसे। अध्यै, अध्यैन् काममुपाचरध्यै। स्वरे विशेषः। कध्यै इन्द्राग्नी आहुवध्यै। कध्यैन् श्रियध्यै। शध्यै, शध्यैन् वायवे पिबध्यै। राधसः सह मादयध्यै। तवै सोममिन्द्राय पातवै। तवेङ् दशमे मासि सूतवे। तवेन् स्वर्देवेषु गन्तवे। कर्तवे। हर्तवे।
`कथं ज्ञायते` इति। `कत्र्तरि कृत्` 3|4|67 इति वचनात् कर्त्तैव तुमर्थो युक्त इति मन्यते। `वचनसामथ्र्यात्` इत्यादि। यदि कर्त्तैव तुमर्थः स्यात् तुमर्थवचनमर्थकं स्यात्, कृत्त्वादेव हि सयादयः कत्र्तरि भविष्यन्ति। तस्मात् तुमर्थग्रहणाल्लिङ्गात् कत्र्तरि तुमुन्न भवति। `अपकृष्यते`। अपनीयते। कत्र्तरि न भवतीति यावत्। स्यादेतत्, कर्मादिरस्यार्थो भविष्यतीत्याह-- `न च` इत्यादि। `अन्यस्मिन्` इति। कर्मादौ। यथा तर्हि कर्मादावनिर्देशान्न भवति तथा भावेऽपि न स्यात्। भावेऽपि नैव तुमुन्निर्दिश्यत इत्याह-- `अनिर्दिष्टार्थाः` इत्यादि। अर्थान्तरस्य निर्देशाद्या प्रकृतिः प्रत्ययानां निमित्तत्वेनोपादीयते तदर्थस्य प्रत्यासत्तेस्तत्रैवानिनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, स पुनरिह स्वार्थो भावः। कुत एतत्? धात्वधिकारात्, धातोश्च भाववचनत्वात्। यद्येवम्, भावग्रहणमेव कुर्यात्, लघुत्वात्? नैवं शक्यम्; भावग्रहणे सति `कत्र्तरि कृत्` 3|4|67 इति वचनात्तुमुन् कत्र्तर्येव स्यात्। तुमर्थग्रहणे हि तुमुनोऽपि हि भाव एवार्थ इत्येतद्ज्ञापितं भवतीति न कश्चिद्दोष इति। `वक्षे` इति। `वच परिभाषणे` (धातुपाठः-1063), सेप्रत्ययः, `चोः कुः` 8|2|30 इति कुत्वम्। `एषे` इति। इणः सेन्प्रत्ययः। `जीवसे` इति। `जीव प्राणधारणे` (धातुपाठः-562)। प्रत्ययद्वयस्याप्येतदेवोदाहरणम्, स्वरस्तु भिद्यते। `प्रेषे` इति। इणः प्रपूर्वात् क्से, `आद्गुणः` 6|1|84 । `श्रियसे` इति। `श्रिञ् सेवायाम्` (धातुपाठः-897), अस्मात् क्सेन, इयङ्। `उपाचरध्यै` इति। `चर गत्यर्थः` (धातुपाठः-559), उपाङपूर्वः। प्रत्ययद्वयस्यापीदुहारणम्, स्वरभेदात्तु भेदः। `आहुवध्यै` इति। `पा पाने` (धातुपाठः-925), शध्यै, प्राघ्रादिसूत्रेण 7|3|78 पिबादेशः। `मादयध्यै` इति। `मदी {हर्षग्लेपनयोः-धातुपाठः-} हर्षे` (धातुपाठः-815), हेतुमण्णिच्, शध्यैन्, गुणायादेशौ। `पातवै` इति। पिबतेस्तवै। `सूतवे` इति। `षूङ प्राणिगर्भविमोचे` (धातुपाठः-1031), तवेङ, ङित्वाद्गुणाभावः। `गन्तवे` इत्यादीन्युदाहरणानि गमिकरोतिहरतीनां यथाक्रमेण॥
कथं ज्ञायत इति । ठ्कर्तरि कृत्ऽ इति वचनात् भावस्तुमर्थो नोपपद्यत इति प्रश्नः । अपकर्षःउअपनयः, स्वार्थश्च धातूनां भाव इति साध्यमानरूपः । स एव हि धातुवाच्यो भावः । घञादिवाच्यस्तु भावो धात्वर्थव्यतिरिक्तः सिद्धतारूपः । पिबध्यै इति । ठ्यको बहुलं च्छन्दसिऽ इति लुकि पिबादेशः । मादयर्ध्यै इति । यकः प्रसङ्गे व्यत्ययेन शप् ॥
सिद्धान्तकौमुदी
से । वक्षे रायः । सेन् । ता वामेषे (ता वा॒मेषे॑) । असे । शरदो जीवसे धाः (श॒रदो॑ जी॒वसे॑ धाः) । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे (गवा॑मिव श्रि॒यसे॑) । अध्यै । अध्यैन् । जठरं पृणध्यै (ज॒ठरं॑ पृ॒णध्यै॑) । पक्षे आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै (आहु॒वध्यै॑) । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै (राध॑सः स॒ह मा॑द॒यध्यै॑) । शध्यैन् । वायवे पिबध्यै (वा॒यवे॒ पिब॑ध्यै) । तवै । दातवाउ (दात॒वाउ॑) । तवेङ् । सूतवे (सूत॑वे) । तवेन् । कर्तवे (कर्त॑वे) ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः (1170) (अथाव्ययसंज्ञककृत्प्रकरणम्) (595 सेप्रभृतिप्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आदृ6) (आक्षेपभाष्यम्) तुमर्थे इत्युच्यते कस्तुमर्थो नाम। (समाधानभाष्यम्) कर्ता तुमर्थः। (समाधाननिरासभाष्यम्) यद्येवं नार्थस्तुमर्थग्रहणेन येनैव खल्वपि हेतुना कर्तरि तुमुन्भवति तेनैव हेतुना सयादयोपि भविष्यन्ति।। (समाधानसाधकभाष्यम्) एवं तर्हि सिद्धे सति यत्तुमर्थग्रहणं करोति तज्ज्ञापयत्याचार्यः अस्त्यन्यः कर्तुस्तुमुनोर्थः इति।। कः पुनरसौ?। भावः।। (आक्षेपभाष्यम्) कुतो नु खल्वेतद्। भावे तुमुन् भविष्यति, न पुनः कर्मादिषु कारकेषु स्यादिति।। (समाधानभाष्यम्) ज्ञापकात्तावदयं कर्तुरपकृष्यते। न चान्यस्मिन्नर्थे आदिश्यते। अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ती ति स्वार्थे भविष्यति। तद्यथा। गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति। सोऽसौ स्वार्थोभवन् भावे भविष्यति। किमेतस्य ज्ञापने प्रयोजनम् ‐ -अव्ययकृतो भावे भवन्ति इत्येतन्न वक्तव्यं भवति।। तुमर्थे से।। 9 ।।