॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|87
SK 2201
3|4|87
सेर्ह्यपिच्च   🔊
SK 2201
सूत्रच्छेद:
सेः - षष्ठ्येकवचनम् , हि (लुप्तप्रथमान्तनिर्देशः) अपित् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
लोटः  [3|4|85] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लोट: लस्य से: हि अपित् च
सूत्रार्थ:
लोट्-लकारस्य सिप्-प्रत्ययस्य अपित् "हि" आदेशः भवति ।
मध्यमपुरुषैकवचनस्य यः सिप्-प्रत्ययः, तस्य लोट्-लकारस्य विषये "हि" आदेशः भवति, स च अपित् अस्ति । यथा -

1. ज्ञा-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -
ज्ञा + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ ज्ञा + सिप् [तिप्तस्.. 3|4|78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ ज्ञा + श्ना + सिप् [क्र्यादिभ्यः श्ना 3|1|73 इति विकरणप्रत्ययः श्ना]
→ जा + ना + सिप् [ज्ञाजनोर्जा 7|3|79 इति अङ्गस्य जा-आदेशः]
→ जा + ना + हि [सेर्ह्यपिच्च 3|4|87 इति सिप्-प्रत्ययस्य अपित्-"हि" आदेशः]
→ जानीहि [ई हल्यघोः 6|4|113 इति हलादि-अपित्-प्रत्यये परे विकरणस्य आकारस्य ईकारादेशः]

2. पठ्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -
पठ् + लोट् [लोट् च 3|3|162 इति लोट्-लकारः]
→ पठ् + सिप् [तिप्तस्.. 3|4|78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ पठ् + शप् + सिप् [कर्तरि शप् 3|1|68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ]
→ पठ् + अ + हि [सेर्ह्यपिच्च 3|4|87 इति सिप्-प्रत्ययस्य अपित्-"हि" आदेशः]
→ पठ् + अ [अतो हेः 6|4|105 इति हि-प्रत्ययस्य लोपः]
→ पठ

ज्ञातव्यम् -
1. सिप्-प्रत्ययः पित्-अस्ति, अतः अस्मिन् सूत्रे हि-इत्यस्य अपित्-गुणधर्मः निर्दिष्टः अस्ति । केवलम् "सेर्हिः" वदामश्चेत् हि-प्रत्ययः अपि पित्-भवेत्, येन अङ्गस्य गुणादेशस्य प्रसक्तिः स्यात् । तत् मा भूत् अतः अत्र हि-प्रत्ययः अपित्-निर्दिष्टः अस्ति । अपित्-त्वात् सार्वधातुकमपित् 1|2|4 इत्यनेन अयम् प्रत्ययः ङित्वत् भवति, अतः क्ङिति च 1|1|5 इत्यनेन अङ्गस्य गुणादेशः निषिध्यते ।

2. अतो हेः 6|4|105 इत्यनेन अदन्तात् अङ्गात् परस्य हि-प्रत्ययस्य लोपः भवति ।
One-line meaning in English
The सिप्-प्रत्यय of the लोट्-लकार is converted to "हि".
काशिकावृत्तिः
लोटः इत्येव। लोडादेशस्य सेः हि इत्ययम् आदेशो भवति, अपिच् च भवति। स्थानिवद्भावात् पित्त्वं प्राप्तं प्रतिषिध्यते। लुनीहि। पुनीहि। राध्नुहि। तक्ष्णुहि।
`लुनीहि` इति। पित्त्वे प्रतिषिद्धे `सार्वधातुकमपित्` 1|2|4 इति ङित्त्वम्, ततस्तन्निबन्धनं `ई हल्यघोः` 6|4|113 इतीत्वं भवति। `राघ्नुहि` इति। `राध साध संसिद्धौ` (धातुपाठः-1262), 1263) स्वादित्वात् श्नुः। अत्रापि पूर्ववन्ङित्वने सति गुणो न भवति। अथ किमर्थं गुरु सूत्रं क्रियते, न `से र्हि ङिच्च` इत्येवोच्येत? नैवं शक्यम्; ङित्त्वस्य विधाने स्थानिवद्भावातम् पित्त्वं स्यादेव। ततश्च ङित्त्वान्ङित्कार्यं गुणनिषेधादिकं स्यात्, पित्त्वाच्चानुदात्तत्वम्। तस्माद्यथान्यासमेवास्तु॥
लुनीहीति । पित्वाभावान्डित्वे सति ठी हल्यघोःऽ इतीत्वं भवति । राघ्नुहीत्यत्र गुणाभावः । इह सेहिर्ङ्च्चेइति वक्तव्यम् । नन्वेवं ङ्त्वानिङित्कार्यं भवतु, स्थानिवद्भावेन पित्वमप्यस्तीत्यनुदातत्वमपि प्राप्नोति ? ठ्ङ्च्चि पिन्न भवतिऽ इति वचनान्न भविष्यति, यथा---अपि स्तुयाद्राजानमिति, अत्र ठुतो वृद्धिर्लुकि हलिऽ इति पिति विधीयमाना वृद्धिर्न भवति । ब्रूताद्भवानिति, ब्रुव इण्न भवति । किं च नाप्रप्ते पित्वे ङ्त्विमारभ्यमाणं तद्वाधिष्यते ॥
सिद्धान्तकौमुदी
लोटः सेर्हिः स्यात्सोऽपिच्च ॥
सेर्ह्यपिच्च - सेह्र्रपिच्च । "हि" इति लुप्तप्रथमाकम् ।लोटो लङ्व॑दित्यतो "लोट" इत्यनुवर्तते । तदाह — लोटः सेरिति । स्तुहीत्यादौ सिप्स्थानिकस्य हेः पित्त्वात्सार्वधातुकपिदिति ङिद्वात्त्वाऽभावाद्गुणे प्राप्ते अपिद्वचनम् । एवञ्च ङिद्वत्त्वात्क्ङतिचेति गुणो न ।सेर्हर्हिङिच्चे॑त्येव तु न सूत्रितम्, पितस्सिपोऽनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि स्थिते —
सेर्ह्यपिच्च - सोऽपिच्चेति । एवं च पित्त्वेनानुदात्तस्य सिपः स्थाने यो हिरादेशः स तुस्थानेऽन्तरतमः॑ इत्यनुदात्तो न भवति,जहि शत्रून्ट,स्तुहि श्रुतम्॥
लघुसिद्धान्तकौमुदी
लोटः सेर्हिः सोऽपिच्च॥
महाभाष्यम्
सेर्ह्यपिच्च (1238) (611 आदेशविधिसूत्रम्।। 3 । 4 । 1 आदृ 23)