॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|85
SK 2198
3|4|85
लोटो लङ्वत्‌   🔊
SK 2198
सूत्रच्छेद:
लोटः - षष्ठ्येकवचनम् , लङ्वत् - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लोट: लङ्वत्
सूत्रार्थ:
लोट्-लकारस्य प्रत्ययाः लङ्लकारवत् एव सन्ति ।
एतत अतिदेशसूत्रम् । अनेन सूत्रेण लङ्-लकारस्य गुणाः लोट्-लकारे आरोप्यन्ते । इत्युक्ते, लङ्-लकारविशिष्टं प्रत्ययकार्यम् लोट्-लकारस्य विषये अपि भवति इत्यर्थः । यथा -

1. तस्थस्थमिपाम् तान्तन्तामः 3|4|101 इत्यनेन लङ्लकारस्य विषये तस्-प्रत्ययस्य ताम्-आदेशः, थस्-प्रत्ययस्य तम्-आदेशः, थ-प्रत्ययस्य त-आदेशः तथा मिप्-प्रत्ययस्य अम्-आदेशः भवति । मिप्-प्रत्ययादेशं विहाय अत्र निर्दिष्टाः अन्ये आदेशाः लोट्-लकारस्य विषये अपि भवन्ति । यथा - पठ् धातोः लोट्लकारस्य मध्यमपुरुषद्विवचनस्य रूपम् "पठतम्" अत्र तम्-प्रत्ययः अनेनैव सूत्रेण लभ्यते ।

2. नित्यं ङितः 3|4|99 इत्यनेन लङ्-लकारस्य विषये वस्-मस्-प्रत्यययोः सकारस्य लोपः भवति । लोट्लकारस्य विषये अपि अनेन सूत्रेण अयं लोपः जायते । यथा - पठ् धातोः लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् "पठाव" अत्र व-प्रत्ययः अनेनैव सूत्रेण लभ्यते ।

ज्ञातव्यम् -
1. लुङ्लङ्लृक्ष्वडुदात्तः 6|4|71 इत्यनेन लङ्लकारस्य विषये अङ्गस्य अडागमः भवति । इदम् अपि लङ्-विशिष्टम् कार्यम्, परन्तु इदम् कार्यम् अङ्गकार्यम् अस्ति, प्रत्ययकार्यम् न । अतः वर्तमानसूत्रेण एतत् कार्यम् न गृह्यते । अस्मिन् विषये काशिकाकारः वदति - "विदः लटः वा 3|4|83 इत्यतः वाग्रहणम् अनुवर्तते" । इत्युक्ते, पूर्वसूत्रात् "वा" इत्यस्य अनुवृत्तिम् स्वीकृत्य अत्र तस्य अर्थः "व्यवस्थितविभाषा" इति स्वीकरणीयः । व्यवस्थितविभाषा इत्युक्ते "सूत्रेण उक्तं कार्यम् केषुचन प्रयोगेषु नित्यं भवति, केषुचन अन्येषु प्रयोगेषु नैव भवति" इत्यर्थः । अत्र लोट्-लकारस्य लङ्-लकारवत् कार्यम् अडागमादिषु विषयेषु न भवति इति निर्देष्टुम् एतत् आवश्यकम् ।

2. यद्यपि अनेन सूत्रेण लोट्लकारः लङ्वत् कार्यं करोति इत्युच्यते, तथापि लोट्-लकारविशिष्टाः प्रत्ययादेशाः पाठिताः सन्ति चेत् ते एव भवन्ति । यथा -
अ) मिप्-प्रत्ययस्य लोट्-लकारस्य विषये मेर्नि 3|4|89 इत्यनेन नि-आदेशः विधीयते, अतः मिप्-प्रत्ययार्थम् तस्थस्थमिपाम् तान्तन्तामः 3|4|101 इत्यस्य प्रयोगः न भवति ।
आ) इतश्च 3|4|100 इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । तस्य अपवादरूपेण लोट्लकारस्य विषये एरुः 3|4|86 इति इकारस्य उकारादेशः भवति ।
One-line meaning in English
The प्रत्यया: of the लोट्-लकार are derived in the same way as that of the लङ्लकार.
काशिकावृत्तिः
अतिदेशो ऽयम्। लोटो लङ्वत् कार्यं भवति। तामादयः, सलोपश्च। पचताम्। पचतम्। पचत। पचाव। पचाम। अडाटौ कस्मान् न भवतः, तथा झेर् जुसादेशः लङः शाकटायनस्य एव 3|4|111 इति वान्तु, यान्तु? विदो लटो वा 3|4|83 इत्यतो वाग्रहणम् अनुवर्तते, सा च व्यवस्थितविभाषा भविष्यति।
`तामादयः` इति। येषां `तस्थस्थ` 3|4|101 इत्यादिना विधाननम्। `सलोपश्च` इति। यस्य नित्यं ङितः` ( 3.4.99) इति विधानम्।`अडाटौ इत्यादि। `लुङ्लङ्लृङक्षु` 6|4|71 इत्यादिनाट्, `आडजादीनाम्` 6|4|72 इत्याट् लङः कार्य विधास्यते। `लङ शाकटायनस्यैव` 3|4|111 इति झेर्जुसादेशश्च। न चेह कश्चिद्विशेष उपादीयते, ततश्च यस्मादतिदेशात् तामादिकार्यं भवति तथा `आडजादीनाम्` 6|4|72 लङकार्येणापि भवितव्यमित्यभिप्रायः। `इतश्च` 3|4|100 इति लोपः, मिपोऽम्भावश्च। देश्यमेतत्। तयोः `एरुः` 3|4|86 इत्युत्त्वस्य `मेर्निः` इति निरादेशस्य चापवादस्य विधास्यमानत्वात्। `सा च व्यवस्थितविभाषा` इति। तेन तामादिरेवादेशो भवति, न त्वडादिरिति मन्यते॥
लोटो लङ्वत्कार्यं भवतीति । अत्र लोडादेशेषु लोट्शब्दो वर्तते, लङदेशेषु च लङ्शब्दः, लोडादेशानां लङदेशवत्कार्यं भवतीत्यर्थः, तदाह---तामादयः सलोपश्चेति । यद्यप्येते लङ्याहत्य न विहितास्तथापि लङ्दृष्टित्वादतिदिश्यन्ते । अडाटौ कस्मान्न भवति इति । लङ्येवाहत्य विहितत्वात्, प्रत्युत तचोरेवातिदेशो युक्त इति प्रश्नः । तथा झेर्जुसादेश इति । कस्मान्न भवतीति विभक्तिविपरिणामेनानुषङ्गः । ठ्लङ्ः शाकटायनस्यऽ इति जुस्भावोऽपि लङ् एवाहत्य विहितः । इह तु जाग्रतु, विदन्तु ठ्सिजभ्यस्तविदिभ्यश्चऽ इति लङ् दृष्टो जुस्भाविः प्राप्नोति । वाग्रहणमनुवर्तत इति । लोट इत्युपमेये षष्ठीनिर्देशादुपमानं पष्ठ।ल्न्तं विज्ञायते---लङे यत्कार्यं तल्लोटो भवतीति, न तु लङ् यित्कार्यं तल्लोटीत्यडाटोः परिहारान्तरम् । झेर्जुस्भावस्य तु परिहारान्तरम् ठ्लङ्ः शाकटायनस्यऽ इत्यत्र स्वयमेव वक्ष्यति ॥
सिद्धान्तकौमुदी
लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥
लोटो लङ्वत् - लोटो लङ्वत् । लङ इव लङ्वत् ।तत्र तस्येवे॑ति षष्ठन्ताद्वतिः । तदाहलोटो लङ इवेति । ननु तर्हिलुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यडागमोऽपि स्यादित्यत आह — तेनेति । लङ इति स्थानषष्ठन्ताद्वतिप्रत्ययाश्रयणेनेत्यर्थः । अडागमस्तु न लङो विधीयते, किन्तु लङि अङ्गस्येति भावः । केन तामादयः, केन वा सलोप इत्यत आह — तथा हीति । तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः ।
लोटो लङ्वत् - ॒लोट॑ इत्युपमेये षष्ठीदर्शनात् [उपमानादपि] षष्ठन्तादेव वतिः, तदाह — तेनेति । अडादौ तु नातिदिश्येते, न हि तौ लङः क्रियेते, किं तु लङि अङ्गस्येति भावः॥ नन्वेमपि यान्तु वान्तु इत्यत्रलङः वाग्रहणमिहानुवत्र्य व्यवस्थितविभाषाश्रयणान्न जुस् । यद्वालङः शाकटायनस्ये॑ति सूत्रेनित्यं ङितःर॑ इत्यतोङित॑ इत्यनुवृत्त्यैवेष्टसिद्धेर्लचङ्ग्रहणमतिरित्यते, लुङि सिचा, लृङि स्यप्रत्ययेन च व्यवधानात्, लिङि तुझेर्जु॑सिति जुसो विहितत्वाच्च,ङित॑ इत्यस्य लडएव पर्यवसानात् । ततो लड्ग्रहणं विभज्यते । नियमश्चायंलडेव यो लङ् तस्यैव झेर्जुस् न तु लङ्वद्भावेन यो लङ् तस्ये॑त्यतो नोक्तदोष॑ इति । तञ्चिन्त्यम् । अदुरित्यत्रसिजभ्यस्ते॑ति नित्यजुसं बाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात् । तस्माल्लड्ग्रहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते । न चआतः॑ इति सूत्रेणाऽदुरित्यत्र नित्यं रजुस्स्यादिति वाच्यं, तस्य नियमार्थत्वेन विद्यर्थत्वा.योगात्, अन्यथा अभूवन्नित्यत्रसिजभ्यस्ते॑ति जुस् दुर्वार एव स्यादिति नव्याः॥ यदि त्विहआतः॑ इति सूत्रमावर्त्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूक्तद#ओषाऽभावाद्यद्वेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात् । तदभावपक्षे पुनःप्रसङ्गविज्ञानात्सिजभ्यस्ते॑ति जुसि स्वीकृते तु सुतरां सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवैति दिक् ।
लघुसिद्धान्तकौमुदी
लोटस्तामादयस्सलोपश्च॥
महाभाष्यम्
लोटो लङ्वत् (1246) (610 अतिदेशसूत्रम्।। 3 । 4 । 1 आ.22) (5074 समाधानवार्तिकम्।। 1 ।।) - लङ्वदतिदेशे जुस्भावप्रतिषेधः- (भाष्यम्) लङ्वदतिदेशे जुस्भावस्य प्रतिषेधो वक्तव्यः। यान्तु वान्तु। लङः शाकटायनस्येति जुस्भावः प्राप्नोति।। (5075 समाधानवार्तिकम्।। 1 ।।) - उत्ववचनात्सिद्धम्- (भाष्यम्) उत्वमत्र बाधकं भविष्यति।। (समाधानबाधकभाष्यम्) अनवकाशा हि विधयो बाधका भवन्ति। सावकाशं चोत्वम्। कोऽवकाशः पचतु ‐ -पठतु।। (समाधानसाधकभाष्यम्) अत्रापीकारलोपः प्राप्नोति। तद्यथैवोत्वमीकारलोपं बाधते। एवं जुस्भावमपि बाधेत। (समाधानबाधकभाष्यम्) न बाधते। किं कारणम्?। येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते इकारलोपे उत्वमारभ्यते। जुस्भावे पुनः प्राप्ते चाप्राप्ते च ।। अथ वा पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते इत्येवमिदमुत्वमिकारलोपं बाधते जुस्भावं न बाधते।। (समाधानान्तरभाष्यम्) एवं तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम्। लङेव यो लङ् तत्र यथा स्यात्। लङ्वद्भावेन यो लङ् तत्र मा भूदिति।। लोटो लङ्वत्।। 85 ।।