॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|79
SK 2233
3|4|79
टित आत्मनेपदानां टेरे
SK 2233
सूत्रच्छेद:
टितः - षष्ठ्येकवचनम् , आत्मनेपदानाम् - षष्ठीबहुवचनम् , टेः - षष्ठ्येकवचनम् , ए (लुप्तप्रथमान्तनिर्देश:)
अनुवृत्ति:
=
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
टित: लस्य आत्मनेपदानाम् टे: ए
सूत्रार्थ:
टित्-लकाराणाम् विषये आत्मनेपदस्य प्रत्ययस्य टि-संज्ञकस्य ए-आदेशः भवति ।
येषाम् लकाराणाम् नाम्नि इत्संज्ञकः टकारः आगच्छति, ते टित्-लकाराः । एते षट् सन्ति - लट्, लिट्, लुट्, लृट्, लेट्, लोट् । एतेषाम् लकाराणाम् ये आत्मनेपदस्य प्रत्ययाः सन्ति, तेषां टि-संज्ञकस्य वर्तमानसूत्रेण एकारादेशः भवति । यथा -

1. वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् -
वन्द् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ वन्द् + त [तिप्तस्झि.. 3|4|78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् "त" प्रत्ययः]
→ वन्द् + शप् + त [कर्तरि शप् 3|1|68 इत्यनेन औत्सर्गिकम् गणविकरणम् "शप्" ]
→ वन्द् + अ + ते [टित आत्मनेपदानां टेरे 3|4|79 इत्यनेन त-प्रत्ययस्य यः टिसंज्ञकः अकारः तस्य एकारादेशः]
→ वन्दते ।

2. लभ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः इयम् -
लभ् + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ लभ् + इट् [तिप्तस्झि.. 3|4|78 इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् "इट्" प्रत्ययः]
→ लभ् + शप् + इ [कर्तरि शप् 3|1|68 इत्यनेन औत्सर्गिकम् गणविकरणम् "शप्" ]
→ लभ् + अ + ए [टित आत्मनेपदानां टेरे 3|4|79 इत्यनेन इ-प्रत्ययस्य यः टिसंज्ञकः इकारः तस्य एकारादेशः]
→ लभे [अतो गुणे 6|1|97 इति पररूप-एकादेशः]

3. पच्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धिः इयम् -
पच् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः 7|4|60 इति चकारस्य लोपः]
→ प पच् + आताम् [तिप्तस्झि.. 3|4|78 इत्यनेन आत्मनेपदस्य प्रथमपुरुष-द्विवचनस्य विवक्षायाम् "आताम्" प्रत्ययः]
→ पेच् + आताम् [अत एकहल्मध्येऽनादेशादेर्लिटि 6|4|120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]
→ पेच् + आते [टित आत्मनेपदानां टेरे 3|4|79 इत्यनेन आताम्-प्रत्ययस्य यः टिसंज्ञकः "आम्", तस्य एकारादेशः]
→ पेचाते
One-line meaning in English
In case of टित्-लकारs, the "टि" of the आत्मनेपद प्रत्ययs is converted to "ए".
काशिकावृत्तिः
टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषाम् टेः एकाराऽदेशो भवति। तथा च एव उदाहृतम्। इह कस्मान् न भवति पचमानः, यजमानः? प्रकृतैस् तिबादिभिः आत्मनेपदानि विशेष्यन्ते।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
टितो लकारस्य स्थाअने इति । एतेन टितः, आत्मनेपदानामिति व्यधिकरणे षष्ठ।लविति दर्शयति । यदि तु प्रत्येकसंबन्धादेकवचनमित्याश्रित्य टितामात्मनेपदानामित्याश्रीयते, अकुर्वीत्यत्रापि प्रसज्येतेति भावः । प्रकृतैरित्यादि । य एते तिबादयः प्रकृतास्तेषाअं मध्ये यान्यात्मनेपदानि विहितानीत्येवमात्मनेपदानि विशिष्यन्ते । न च तिबादीनां मध्ये शानच् सन्निविशिष्टस्ततो न तस्य प्रसङ्ग इत्यर्थः । एवं च तङमित्येव वक्तव्यम् । केचितु ठाने मुक्ऽ इति निर्देशं ज्ञापकं वर्णयन्ति---तिङमेवैत्वं नान्येषामिति; इतरथा ह्यानयीति वक्तव्यं स्यात् । नेति वयम्, योऽलादेश आनः ठ्पूङ्यजोः शानन्ऽ तस्यायं निर्देशः स्याद्---वयमानः, यजमान इति ॥
सिद्धान्तकौमुदी
टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥
टित आत्म। टेः--- ए इति च्छेदः। लस्येत्यधिकृतं। तदाह-- टितो लस्येति। `आदेशाना`मिति शेषः। अत्रात्मनेपदशब्देन तङेव गृह्यते नत्वानोऽपि। तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम्। एधत इति। अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्त्वादेत्वम्। अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशे `टित आत्मनेपदाना`मिति आम एत्वे, शपि एध--आते इति स्थिते ङित्कार्यं वक्ष्यन्ङित्त्वमाह-- सार्वधातुकमपित्। `गाङ्कुटादिभ्य` इत्यतो ङिदित्यनुवर्तते। अङितो ङित्त्वं वास्तवं न संभवतीति ङिद्वदिति लभ्यते। तदाह--ङिद्वदिति।
ननु शानचोऽपि लस्थानिकात्मनेपदत्वात्पचमानो यजमान इतय्त्र टेरेत्वेन भवितव्यमिति चेत्। अत्राहुः-- प्रकृतैस्तिबादिभिरात्मनेपदानां विशेषणान्न दोषः। एवं तु `टितस्तङां टेरे` इत्येव वक्तुमुचितमिति।
लघुसिद्धान्तकौमुदी
टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥
महाभाष्यम्
टित आत्मनेपदानां टेरे (1240) (608 टेरेत्वादेशविधिसूत्रम्।। 3 । 4 । 1 आ.20 ।।) (5067 आक्षेपवार्तिकम्।। 1 ।।) - टित एत्वे आत्मनेपदेष्वान प्रतिषेधः- (भाष्यम्) टित एत्वे आत्मनेपदेष्वानस्य प्रतिषेधो वक्तव्यः। पचमानः। यजमानः। टित इत्येत्वं प्राप्नोति।। (4068 वार्तिकम्।। 2 ।।) - उक्तं वा - (भाष्यम्) किमुक्तम्?। ज्ञापकं वा सानुबन्धकस्यादेशवचनमित्कार्याभावस्य इति।। (समाधानबाधकभाष्यम्) नैतदस्त्युक्तम्। एवं किल तदुक्तं स्यात्। (उक्तसमाधानसञ्ञ्जनार्थं सामानाधिकरण्यान्वयप्रदर्शकभाष्यम्) यद्येवं विज्ञायते ‐ -टित् आत्मनेपदं टिदात्मनपदं टिदात्मनेपदानामिति। तच्च न। (वैयधिकरण्यान्वयाङ्गीकारभाष्यम्) टितो लकारस्य यान्यात्मनेपदानीत्येवमेतद्विज्ञायते।। (सामानाधिकरण्यान्वये दूषणभाष्यम्) अवश्यं चैतदेवं विज्ञेयम्। टित् आत्मनेपदं टिदात्मनेपदं टिदात्नेपादानामिति हि विज्ञायमाने अकुर्वि इत्यत्रापि प्रसज्येत।। (प्रसक्त्यनुपपत्तिभाष्यम्) नैष टित्। कस्तर्हि?। ठित्। स चावश्यं ठित् कर्तव्यः। आदिर्मा भूदिति। (आक्षेपभाष्यम्) कथम् इटोत्इति।। (उत्तरभाष्यम्) इठोत् इति वक्ष्यामीति।। (ठित्करणावश्यकत्वभाष्यम्) तच्चावश्यं वक्तव्यम्। पर्यवापाद्यस्य मा भूत् ‐ -लविषीष्ट। (ठित्करणदूषणभाष्यम्) इह तर्हि इषमूर्जमहमित आदीति आऽतो लोप इटि च इत्याकारलोपो न प्राप्नोति। तस्माटि्टदेषः।। (आक्षेपभाष्यम्) आदिस्तर्हि कस्मान्न भवति। (समाधानभाष्यम्) सप्तदशादेशाः स्थानेयोगत्वं प्रयोजयन्ति तानेको नोत्सहते विहन्तुमिति कृत्वा आदिर्न भविष्यति।। (प्रश्नभाष्यम्) पर्यवपाद्यस्य तर्हि कस्मान्न भवति ‐ लविषीष्टेति?। (समाधानभाष्यम्) असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षण इति। (समाधानभाष्यम्) इदं तर्ह्युक्तम् ‐ -प्रकृतानामात्मनेपदानामेत्वं भवतीति। के च प्रकृताः?। तादयः।। (भाष्यम्) आने मुग्ज्ञापकं त्वेत्वे, टित्तङामिशिसीरिचः। डारौरः सु, टिदटितः, प्रकृते तद्, गुणे कथम्।। टित आत्मने।। 79 ।।