॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|76
SK 3087
3|4|76
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः   🔊
SK 3087
सूत्रच्छेद:
क्तः - प्रथमैकवचनम् , अधिकरणे - सप्तम्येकवचनम् , च - अव्ययम् , ध्रौव्य-गति-प्रत्यवसानार्थेभ्यः - पञ्चमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः इति स्वनिकायप्रसिद्धिः। ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सो ऽधिकरणे भवति। चकाराद् यथाप्राप्तं च। ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभावाधिकरनेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेसु। भ्रौव्यार्थेभ्यः तावत् आसितो देवदत्तः, आसितं तेन, इदम् एषाम् आसितम्। गत्यर्थेभ्यः यातो देवदत्तो ग्रामम्, यातो देवदत्तेन ग्रामः, यातं देवदत्तेन, इदम् एषां यातम्। प्रत्यवसानार्थेभ्यः भुक्तः ओदनो देवदत्तेन, देवदत्तेन भुक्तम्, इदम् एषां भुक्तम्। कथं भुक्ता ब्राह्मणाः, पीता गावः इति। अकारो मत्वर्थीयः, भुक्तम् एषाम् अस्ति, पीतम् एषाम् अस्ति इति।
ननु च नेयं लोके प्रसिद्धिः -- ध्रौव्यार्था अकर्मकाः, प्रत्यवसानार्था अब्यवहार्था इति, तत्कथमयमर्थो लभ्यते? इत्यत आह-- `स्वनिकायप्रसिद्धिः` इति। स्वनिकायः = वैयाकरणसङ्घः, तत्रेयं प्रसिद्धिः। `कर्त्तृभावाधिकरणेषु` इति। भावकर्मणोः `तयोरेव` 3|4|70 इत्यादिना। `इदमेषाम्` इति। `अधिकरणवाचिनाम्` 2|3|68 इति षष्ठी।`कथम्` इत्यादि। `भुक्ता ब्राआहृणाः, पीता गावः` इति। कत्र्तरि निष्ठा, अन्यथाऽनभिहितत्वात् कर्त्तुब्र्राआहृणशब्दाद्गोशब्दच्च कत्र्तरि तृतीया स्यात्। न प्रत्यवसानार्थेभ्यः केनचित् कत्र्तरि क्तो विहितः, तत्कथमेतौ सूत्रादनन्तरमिदं कस्मान्न पठते, एकः एवं सति गुणो भवति, द्विः क्तग्रहणं न कत्र्तव्यं भवति। तदेवं वक्तव्यम् --आदिर्मणि क्तः कत्र्तरि च, ततः श्लिषशीङस्थासवजनरुहजीर्यतिभ्यश्च, ततोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य इति, एवञ्च द्विः क्तग्रहणं गत्यर्थाकर्मकग्रहणञ्च न कत्र्तव्यं भवति? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने यथा ध्रौव्यार्थेभ्यः कत्र्तरि क्तो भवति, तथा प्रत्यवसानार्थेभ्योऽपि स्यात्, स च नेष्यते। तस्माद्यथान्यासमेवास्तु॥`अकार उच्चारणार्थः` इति। एतेनानुबन्धशङ्कां निराकरोति। अनुबन्धे ह्रस्मिन्नकारानुबन्धविशिष्टयोरेव लङलटोग्र्रहणं स्यात्, नान्येषां लिडादीनाम्। `अर्थविशेषे`इति। कर्त्तृकर्मादौ`। `कालविशेषे` इति। वत्र्तमानादौ। `अक्षरसमाम्नायवत्` इति। यथाऽक्षरसमाम्नाये प्रत्याहारेऽकारादयो वर्णा आनुपूव्र्या कथ्यन्ते, तद्वदित्यर्थः।`अथ लकारमात्रस्य ग्रहणं कस्मान्न भवति` इति। विशेषानुपादानामिति भावः। `चूडालः` इति। `प्राणिस्थादातो लजन्यतरस्याम्` 5|2|95 इति लच्। `धात्वधिकारः` इति। `धातोः` 3|1|91 इति पञ्चम्यन्तमनुवत्र्तते, तेन च लकारो विशिष्यते-- धातोर्विहितस् लस्येति। `लः कर्मणि च भावे चाकर्मकेभ्यः` 3|4|69 इत्यादौ प्रकारणे येऽर्थाः कर्त्तृकर्मभावा निर्दिष्टास्त इहानुवत्र्तन्ते, तैश्च लकारो विशिष्यते-- कत्र्रादिषु विहितस्य लस्येति। तेन विसिष्टस्यैव लकारस्य ग्रहणं भवति, न सर्वस्येति भावः॥
स्वनिकायप्रसिद्धिरिति । यथा यूपचषालादयो याज्ञिकानामेव प्रसिद्धास्तथा वैयाकरणानां निकाये एषां प्रसिद्धिः । निघण्टुअषु तु अभ्यवहारपर्यायतया प्रत्यवसानशब्दस्य पाठो वैयाकरणप्रसिद्धिमूलः । इदमेषामासितमिति । ठधिकरणवाचिनश्चऽ इति षष्ठी । कथमित्यादि । कर्तरि निष्ठां मन्यमानस्य प्रश्नः । अकारो मत्वर्थीय इति । अर्शाअदेराकृतिगणत्वादच् प्रत्यय इत्यर्थः । इह द्विर्गत्यर्थाकर्मकग्रहणं च क्तग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि---ठ्क्त्वोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः, ततो गत्यर्थाकर्मकेभ्यः कर्तरि च, चकारादधिकरणे च, अनुवृताच्चकाराद्यथाप्राप्तं च, ततः श्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च, कर्तरीत्येव, एतेभ्यश्च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, अधिग्रहणग्रहणं तु नात्रानुवर्तते, योगविभागकरणसामर्थ्यात्, तत आदिकर्मणि च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, ततो दाशगोघ्नावित्यादि ? तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
एभ्योऽधिकरणे क्तः स्यात् चाद्याथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितामिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमिति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः - क्तोऽधिकरणे च । ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः । ध्रौव्यार्थेभ्यो, गत्यर्थेभ्यः, प्रत्यवसानार्थेभ्यश्चेति यावत् । चाद्यथाप्राप्तमिति । कर्मकर्तृभावेष्वपि यथासंभवमित्यर्थ- । ध्रौव्यमित्यस्य विवरणं - स्थैर्यमिति । स्थिरीभवनम् । उपवेशनशयनादिक्रियेति यावत् । मुकुन्दस्यासितमिदमिति । श्लोकोऽयम् । आस्यते अस्मिन्नित्यासितम् । आसनमित्यर्थः । ध्रौव्यार्थस्योदाहरणमिदम् । इदं यातं रमापतेरिति । गत्यर्थस्योदाहरणम् । यायते गम्यते अस्मिन्निति यातं, मार्गं इत्यर्थः । भुक्तमेतदनन्तरस्येति । भुज्यते अस्मिन्निति भुक्तम् । भोजनस्थानमित्यर्थः ।अधिकरणवाचिनश्चे॑ति त्रिष्वपि कर्तरि षष्ठी । पक्षे इति । आधिकरणे प्रत्ययाऽभावपक्षे इत्यर्थः । आसेरकर्मकत्वादिति । ततश्च न कर्मणि क्त इत्यर्थः । आसितो मुकुन्द इति । आसितवानित्यर्थः । आसितं तेनेति । भावे उदाहरणम् । गत्यर्थेभ्य इति । तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः,लः कर्मणि चे॑त्यत्राऽदर्शनादिति भावः । भुजेः कर्मणीति । भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्यलः कर्मणी॑त्यत्राऽदर्शनात् । नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः । कथमिति । भुजेः कर्तरि क्ताऽभावस्योक्तत्वादिति भावः । समाधत्ते — भुक्तमस्त्येषामिति । अत् गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव , अविशेषात्,अजर्यं सङ्गत॑मिति सूत्रेअनेकमन्यपदार्थेट इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः । इत्यधिकृत्येति ।वर्तमाने ल॑डित्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः "भूते" इति सूत्र भाष्ये उक्तत्वादित्याहुः ।
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः - मुकुन्दस्येति । आस्यतेऽस्मिन्नित्यासितम् । आसनमित्यर्थः । यायतेऽस्मिन्निति यानं मार्गः । भुज्यतेऽस्मिन्निति भुक्तं । भोजनमित्यर्थः । त्रिष्वपिअधिकरणवाचिनश्चे॑ति कर्तरि षष्ठी ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!