॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|73
SK 3172
3|4|73
दाशगोघ्नौ सम्प्रदाने   🔊
SK 3172
सूत्रच्छेद:
दाश-गोघ्नौ - प्रथमाद्विवचनम् , सम्प्रदाने - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
दाशगोघ्नौ शब्दौ संप्रदाने कारके निपात्येते। दाशृ दाने, ततः पचाद्यच्। स कृत्संज्ञकत्वात् कर्तरि प्राप्तः, सम्प्रदाने निपात्यते। दाशन्ति तस्मै इति दाशः। आगताय तस्मै दातुं गां हन्ति इति गोघ्नः, अर्घार्हो ऽतिथिः। टगत्र निपात्यते। निपातनसामर्थ्यादेव गोघ्नः ऋत्विगादिरुच्यते, न तु चण्डालादिः। असत्यपि च गोहनने तस्य योग्यतया गोघ्नः इत्यभिधीयते।
`गोघ्नः` इति। स एव हन्तेः पचाद्यच्। सम्प्रदानेऽच् निपात्यते, उपधालोपश्च। अथ वा-- टक्प्रत्ययो निपात्यते, उपधालोपश्च `गमहन` 6|4|98 इत्यादिनैव सिद्धः, `हो हन्तेः` 7|3|54 इत्यादिना कुत्वम्। यदि सम्प्रदाने `गोघ्नः` इति निपात्यते, ततश्चाण्डालादेरपि तेनाभिधानं प्राप्नोति; यस्मात् तस्मै अपि ये ह्रागताय दातुं घ्नन्ति तेऽपि सुकृत इत्यत आह-- `निपातनसामथ्र्यात्` इत्यादि। यथैव ह्रत्र निपातनसामथ्र्यात् किञ्चिदलाक्षणिकं कार्यं लभ्यते तथाऽर्थविशेषोऽपि। तस्माद्यद्यपि `गोघ्नः` इत्यविशेषेण निपात्यते, तथापि विशिष्टस्यैव। तेन ऋत्विगादेरभिधानम्, नान्यस्य चाण्डालादेः। यदा तर्हि दातुं हन्यते तदा तस्य गोघ्न इत्यभिधां न प्राप्नोतीत्यत आह-- `असत्यपि` इत्यादि। यथा ह्रपचन्नपि योग्यतया पाचक इत्युच्यते, तथाऽसत्यपि गोहनने गोघ्न इति॥
गोघ्न इति । अत्र दानपूर्वके हनेन हन्तिर्वर्तते । अर्घार्ह इति । अर्घःउमधुपर्कः, तदङ्गत्वेन गोहननं विहितम् । एतावद् गोरालम्भनस्थानम्---अतिथिः, पितरः, विवाहश्चेति । यदि सम्प्रदाने गोघ्न इति निपात्यते चाण्डालादेरपि तेनाभिधानं प्राप्नोति, अस्मै अपि ह्यागताय गां दातुमर्हन्ति सुहृदादयः ? अत आह---निपातनसामर्थ्यादिति । असत्यपि चेति । यथाऽपचन्नपि योग्यतया ठ्पाचकःऽ इत्युच्यते, तथेहापीत्यर्थः ॥
सिद्धान्तकौमुदी
एतौ सम्प्रदानकारके निपात्येते । दशन्ति तस्मै दाशः । गां हन्ति तस्मै गोघ्नोऽतिथिः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!