`आदिकर्मणि` इति। आदिश्चासौ कर्म चेति विशेषणसमासः। `क्रियाक्षणः` इति। एतेन कर्मशब्दोक्रियां कर्माचष्टे, न साधनं कर्मेति दर्शयति। कुतः पुनरेतदवसितम्-- `क्रियां कर्माचष्ट इति? आदिशब्देन विशेषणात्। बहुनां क्रियाक्षणनामादिमध्यान्तभावे सत्यनादिभूतक्रियाक्षमव्यवच्छेदादादिभूतो यः क्रियाक्षणस्तदादिकर्मेति युक्तं प्रतिपादयितुम्। आदिग्रहणेन साधनं कर्म त्वेकमेवेत्यादिशब्देन विशेषयितुं न शक्यते; आदेरनादिभूतत्वापेक्षत्वादादिशब्दस्य तत्राप्रवृत्तिः, व्यवच्छेद्याभावात्। आदिकर्मणि च `भूते`
3|2|84 इत्यनुवत्र्तमाने `निष्ठा`
3|2|102 इत्यनेनैव विहित इति दर्शयतिन्नाह--`तस्मिन्` इत्यादि। आद्यो यः क्रियाक्षणः स परिनिष्पन्नत्वाद्भूतो भवतीति युक्ता तस्य भूतत्वेन विवक्षितता। `प्रकृतः कटं देवदत्तः` इति। कत्र्तरि क्तः। तेनैव कत्र्ताऽभिहित इति देवदत्तशब्दात् तृतीया न भवति। कर्मणस्त्वनभिहितत्वात् कटशब्दाद्द्वितीया भवत्येव। `प्रकृतः कटो देवदत्तेन` इति। अत्र कर्मणि क्तः। तेनैव कर्णणोऽभिहितत्वाद्द्वितीया न भवति। कत्र्तरनभिहितत्वाद्देवदत्तशब्दात् तृतीया भवत्येव। `प्रकृतं देवदत्तेन` इति। भावे क्तप्रत्ययः। सर्वत्र प्रशब्द आदिकर्म द्योतयति। ननु चादिभूतक्रियाक्षमकाले कटोऽनभिनिर्वृत्त एव भवति, कटकारणभूता एव पीरणादयस्तदानीं सन्ति, न च तदवस्थः कटः तदवस्थः कटः, तत्कथं प्रकृतः कट इति भूतकालेन प्रकृतशब्देन कटस्य सामानाधिकरण्यम्? आद्येन क्रियाक्षणेन यो वीरणादीनां विशेष आहितस्तत्र तादथ्र्यात् कटशब्दो वत्र्तते, स च भूत एवेत्यदोषः॥