Page loading... Please wait.
3|4|62 - नाधाऽर्थप्रत्यये च्व्यर्थे
॥ तस्मै पाणिनये नमः ॥
3|4|62
SK 3384
नाधाऽर्थप्रत्यये च्व्यर्थे   🔊
सूत्रच्छेदः
ना-धा-अर्थप्रत्यये (सप्तम्येकवचनम्) , च्व्यर्थे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नाऽर्थो धाऽर्थश्च प्रत्ययो यस्मात् स एवम् उच्यते। नाधार्थप्रत्यये शब्दे च्व्यर्थे उपपदे कृभ्वोः धात्वोः क्त्वाणमुलौ प्रत्ययु भवतः। अनाना नाना कृत्वा गतः नानाकृत्य गतः, नाना कृत्वा गतः, नानाकारं गतः। विनाकृत्य गतः, विना कृत्वा गतः, विनाकारं गतः। नानाभूय गतः, नाना भूत्वा गतः, नानाभावं गतः। विनाभूय गतः, विना भूत्वा गतः, द्विनाभावं गतः। द्विधाकृत्य गतः, द्विधा कृत्वा गतः, द्विधाकारं गतः। द्विधाभूय गतः, द्विधा भूत्वा गतः, द्विधाभावं गतः। द्वैधंकृत्य गतः, द्वैधं कृत्वा गतः, द्वैधंकारं गतः। द्वैधंभूय गतः, द्वैधं भूत्वा गतः, द्वैधंभावं गतः। प्रत्ययग्रहणं किम्? हिरुक् कृत्वा। पृथक् कृत्वा। च्व्यर्थे इति किम्? नाना कृत्वा काष्ठानि गतः। धार्थम् अर्थग्रहणम्, ना पुनरेक एव, विनञ्भ्यां नानाञौ इति।
`नार्थो धार्थश्च` इति। नाप्रत्ययसहचरितोऽर्थो ना इत्युच्यते, धाप्रत्ययसहचरितश्च धा इति। नाऽर्थो यस्य प्रत्ययस्य स नार्थः धाऽर्थो यस्य प्रत्ययस्य स धार्थ इति। `द्विधाकृत्य` इति। `संख्याया विधार्थे धा` 5|3|42 । `द्वैधं कृत्वा` इति। `द्वित्र्योस्च धमुञ्` 5|3|45 इति धमुञ्। `द्वेधाकृत्य` इति। `एधाच्च` 5|3|46 इत्येधाच्।`हिरुक् कृत्वा, पृथक् कृत्वा` इति। असति प्रत्ययग्रहणे हिरुक्पृथक्शब्दयोरसहार्थत्वात् नार्थत्वनमस्तीति तयोरप्युपपदयोः क्त्वाणमुलौ स्याताम्। पूर्वसूत्रादेव प्रत्ययग्रहणानुवृत्त्या सिद्धे पुनरिह प्रत्ययग्रहणं सुखप्रतिपत्त्यर्थम्। पूर्वकं हि प्रत्ययग्रहणं समासैकदेशत्वाद्यत्नानुवृत्तं स्यात्। `नाना कृत्वा काष्ठानि गतः` इति। च्व्यर्थोऽत्र नास्ति; प्रकृत्यन्यावस्थाया अविवक्षितत्वात्। `धार्थमर्थग्रहणम्` इति। धाप्रत्ययोऽर्थः प्रयोजनं यस्य तत् तथोक्तः। धार्था हि प्रत्यया बहवः,तत्रसत्यर्थग्रहणे धाप्रत्ययस्यैव ग्रहणं स्यात्, नान्येषां तदर्थानाम्। अथग्रहणे तु सति तेषामपि ग्रहणं भवति। अथ नार्थमप्यर्थग्रहणं कस्मान्न भवति? इत्याह-- `ना पुनरेक एव` इति। अर्थग्रहणं हि तत्र क्रियते यत्र बहवो ग्राह्राः सम्भवन्ति, नाप्रत्ययस्त्वेक एव,तस्य चार्थग्रहणमन्तरेण सिध्यतीति न तदर्थमर्थग्रहणम्। ननु च घमुञादीनामपि स्थानिवद्भावादेव धाग्रहणेन ग्रहणं भविष्यति, अतोधार्थमप्यर्थग्रहणमयुक्तम्? नैष दोषः; अघादेशोऽपि धार्थप्रत्ययोऽस्ति, `घमुञन्तात् स्वार्थे डदर्शनम्` (व्या।प।610) इति वचनात्। तस्माद्धार्थमर्थग्रहणं कर्त्तव्यम्।वयं तु ब्राऊमः-- नार्थमप्यर्थग्रहणं कत्र्तव्यमेव। तथा हि-- द्वौ नाप्रत्ययौ; एको निरनुबन्धकः, द्वितीयः सानुबन्धकः। तत्रासत्यर्थग्रहणे `निरनुबन्धग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति नाप्रत्ययस्यैव ग्रहणं स्यात्, न सानुबन्धकस्य नाञः। अर्थग्रहणे तु सति तस्यापि ग्रहणं भवति॥
नार्थो धार्थश्चेति । नाधासहचरितोऽर्थो नाधा शब्दाभ्यामुक्तः, नार्थो यस्य स नार्थः, नार्थार्थ इत्यर्थः । एतेन धार्थो व्याख्यातः । प्रत्ययो यस्मादिति । यदि पञ्चम्यां विग्रहः क्रियते, ततः प्रकृतेरुपलक्षणं नाधार्थग्रहणं स्यादिति सम्प्रत्यतदन्तत्वेऽपि प्रकृतिमात्रे प्रसङ्गः ? न प्रसङ्गः, एवं हि विनञ्सङ्ख्यास्विति वक्तव्यं स्यात्, षष्ठ।ल विग्रहः कर्तव्यः---नाधार्थः प्रत्ययो यस्य समुदायस्यावयव इति । ल्यब्लोपे वा पञ्चमी व्याख्येया यं समुदायामुद्दिश्य नाधार्थः प्रत्ययो विधीयत इति । विनाकृत्य नानाकृत्येति । ठ्विनञ्भ्यां नानाञौ नसहऽ इति नानाञौ । द्विधाकृत्येति । ठ्सङ्ख्याया विधार्थे धाऽ । द्वैधंकृत्येति । ठ्द्वित्र्योस्च धमुञ्ऽ । हिरक्पृथक्शब्दौ विनार्थे । नाना कृत्वा काष्ठानि गत इति । पूर्वमेव नाना सन्ति काष्ठान्यन्यत्र कृत्वा गत इत्यर्थः । धार्थमर्थग्रहणमिति । बहवो हि धार्थाः प्रत्ययाः, तत्रासत्यर्थग्रहणे प्रत्ययस्यैव ग्रहणं स्यात्, नान्येषाम्; तदर्थानामर्थग्रहणे तु तेषामपि भवति । यश्चाधादेशो धार्थः ठ्धमुञन्तात्स्वार्थे डदर्शनम्ऽ इति तदर्थमर्थग्रहणम्---द्वैधकृत्य द्वैधकारं द्वैधभूय द्वैधभावमिति । धमुञादीनां तु स्थानिवद्भावादेव सिद्धं तद्विधौ ध इत्यधिकारेणादेशपक्षस्याश्रयणात् । अथ नार्थमप्यर्थग्रहणं कस्मान्न भवतीत्यत आह---ना पुनरेक एवेति । ननु च नाप्रत्ययावपि द्वौ भवतः---निरनुबन्धकः, सानुबन्धकश्चेति, तत्रासत्यर्थग्रहणे निरनुबन्धकस्यैव ग्रहणं स्यात्, नेतरस्य ? एवं मन्यते---तन्त्रावृत्यैकशेषाणामन्यतमस्याश्रयणातस्यापि भविष्यति ॥
सिद्धान्तकौमुदी
नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः । अनाना नाना कृत्वा नानाकृत्य । नाना कृत्वा नानाकारम् । विनाकृत्य । विना कृत्वा । विनाकारम् । नानाभूय । नाना भूत्वा । नानाभावम् । अनेकं द्रव्यमेकं भूत्वा । एकधाभूय । एकधा भूत्वा । एकधाभावम् । एकधाकृत्य । एकधा कृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
नाधाऽर्थप्रत्यये च्व्यर्थे - नार्धार्थ । नार्थौविनञ्भ्या॑मिति विहितौ नानाञौ । धार्थाः — द्वित्र्योश्च धमुञादयः ।सङ्ख्याया विधार्थे धे॑ति धाप्रत्ययो धाऽर्थको भवतीत्याशयेनोदाहरति — एकधाभूयेत्यादि । एवं द्वैधङ्कृत्य द्वैधम्भूय द्वैधम्भावमित्याद्युदाहर्तव्यम् । ननु नानाञौ प्रत्ययौ, धा च प्रत्ययः, धमुञादिविधौ तुएकाद्धो ध्यमुञ्यन्यतरस्या॑मित्यतोध॑ इत्यनुवर्त्त्यतेषामादेशत्वाऽश्रयणेऽपि स्थानिवद्भावेन धमुञादिर्धाप्रत्ययो भवतीति किमर्थं प्रत्ययग्रहणमित्यक्षिपति — प्रत्ययग्रहणमिति । यद्यप्युक्तरीत्या धाग्रहणेन धमुञादेग्र्रहणं संभवतीत्यर्थग्रहणमिह व्यर्थं, तथापिधमुञन्तात्सवार्थे डदर्शन॑मिति डप्रत्ययान्तसङ्ग्रहार्थमर्थग्रहणं, तत्फलं । तु द्वैधीकृत्येत्यादिप्रयोगः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
नाधार्थप्रत्यये च्व्यर्थे (1223) (603 क्त्वाणमुल्प्रत्ययविधिसूत्रम्।। 3 । 4 । 1 आ.15) (आक्षेपभाष्यम्) अर्थग्रहणं किमर्थम्?। (समाधानभाष्यम्) नाघाप्रत्यय इतीयत्पुच्यमाने इहैव स्यात् ‐ ‐ द्विघाकृत्य। इह च न स्यात् ‐ ‐ द्वैधं कृत्य। अर्थग्रहणे पुनः क्रियमाणे न दोषो भवति। नाधाप्रत्यये च सिद्धं भवति। यश्चान्यस्तेन समानार्थः। (आक्षेपभाष्यम्) अथ प्रत्ययग्रहणं किमर्थम्?। (समाधानभाष्यम्) इह हि मा भूत् ‐ -हिरुक् कृत्वा पृथक् कृत्वा।। नाधार्थ।। 62 ।।