॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|6
SK 3423
3|4|6
छन्दसि लुङ्लङ्लिटः   🔊
SK 3423
सूत्रच्छेद:
छन्दसि - सप्तम्येकवचनम् , लुङ्-लङ्-लिटः - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
धातुसम्बन्धे इत्येव। छन्दसि विषये धातुसम्बन्धे सर्वेषु लुङ्लङ्लिटः प्रत्यया भवन्ति। अन्यतरस्याम् इति वर्तते। तेन अन्ये ऽपि लकारा यथायथं भवन्ति। लुङ् शकलाङ्गुष्ठको ऽकरत्। अहं तेभ्यो ऽकरं नमः। लङ् अग्निम् अद्य होतारम् अवृणीतायं यजमानः। लिट् अद्या ममार। अद्य म्रियते।
`यथायथम्` इति। यथास्वम्। यो यस्यात्मीयो विषयः स तत्रेत्यर्थः। `अकरत्` इति।`कृमृदृरुहिभ्यश्छन्दसि` 3|1|59 इति च्लेरङ, `ऋदृशोऽङि गुणः` 7|4|16 । `अकरम्` इति। मिपोऽम्। `अवृणीत` इति। वृञो लङ्, क्र्यादित्वात् श्ना, पूर्ववदीत्वम्। `ममार` इति। लिट्, `म्रियतेर्लुङलिङोश्च` 1|3|61 इति नियमात् परस्मैपदम्, णल्, वृद्धिः, रपरत्वम्, `द्विर्वचनेऽचि` 1|1|58 इति स्थाननिवद्भावात् मृ इत्येतद्द्विरुच्यते, `उरत्` 7|4|66 इत्यत्वम्, रपरत्वम्, हलादिशेषः॥
उदाहरणेषु धातुसम्बन्धो मृग्यः । अकरदिति । ठ्कृमृदॄउहिभ्यश्च्छन्दसिऽ इति च्लेरङदेशः, ठृदृशोऽङ् गुणिःऽ ॥
सिद्धान्तकौमुदी
धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् (दे॒वो दे॒वेभि॒राग॑मत्) । लोडर्थे लुङ् । इदं तेभ्योकरं नमः (इ॒दं तेभ्यो॑करं॒ नमः॑) । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार (अ॒द्या म॒मार॑) । अद्य म्रियत इत्यर्थः ॥
इटोऽत् - इटोऽत् । इटः -अत् इति च्छेदः ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते ।तदाह — लिङादेशस्येति । "अच्च घे" रित्यत्रेव आदेशे तकार उच्चारणार्थ एव, नत्वित्संज्ञक इति शब्देन्दुशेखरे दिव औदित्यत्र प्रपञ्चितम् । इत्संज्ञक एवेत्यन्ये । न विभक्ताविति निषेधस्तु न, आदेशत्वात्प्राग्विभक्तित्वाऽभावात् ।झस्य र॑न्नित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारानतरप्रश्लेषादुपदेशेऽन्त्यत्वाऽभावान्नकारस्य नेत्संज्ञेत्यलम् । एधेयेति । इट् । तस्य अकारादेशः ।सीयुट् शप् । सलोपः । आद्गुणः । एधेवहि । एधेमहीति । वहिमह्योः सीयुट् । सलोपः । शप् । आद्गुणः । यलोपः । इति विधिलिङ्प्रक्रिया । आद्र्धधातुकत्वादिति ।लिङाशिषी॑त्यनेनेति भावः । सलोपो नति । सार्वधातुकग्रहणस्य "लिङः सलोप" इत्यत्रानुवृत्तेरिति भावः । सीयुट्सुटोरिति । लक्ष्यभेदात्पुनःप्रवृत्तिरिति भावः । युगपदेवोभयोः षत्वमित्यन्ये । एधिषीष्टेति । आशिषि लिङस्तादेशः । आद्र्धधातुकत्वान्न शप् । सीयुट् । तकारस्य सुट् । सीयुटः सकारात्प्रागिडागमः । यलोपः । सीयुट सुटश्च सकारस्य षत्वं । तकारस्य ष्टत्वेन टकारः । एधिषीयास्तामिति । आताम् सीयुट् । अकारादुपरि तकारात्प्राक्सुट् ।सीयुः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीरन्निति । झस्य रन् । सीयुट् । इजागमः । यकारलोपः । षत्वम् । एधिषीष्ठा इति । थास् सीयुट् । थकारस्य सुट् । सीयुटः प्रागिट् । सकारद्वयस्य षत्वम् । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । एधिषीयास्थामिति । आथाम् । सीयुट् । अकारादुपरि थकारात्प्राक्सुट् । सीयुटः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीध्वमिति । ध्वम् सीयुट् यलोपः । सीयुटः प्रागिट् । षत्वम् । इणः परत्वेऽपि इण्णन्तादङ्गात्परत्वं नास्ति, इटः प्रत्ययभक्तत्वात् । ततश्चइणः षीध्व॑मिति ढत्वं न भवति । एधिषीयेति । इटोऽत् । सीयुट् । इट् । षत्वम् । एधिषीवहि एधिषीमहीति । वहिमह्योः सीयुट् । इट् षत्वम् । इत्याशीर्लिङ्प्रक्रिया । ऐधिष्टेति । लुङस्तादेशः । च्लिः । सिच् । इट् । धातोराट् । वृद्धिः । षत्वं ष्टुत्वम् । ऐधिषातामिति । आताम् । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!