Page loading... Please wait.
3|4|56 - विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः
॥ तस्मै पाणिनये नमः ॥
3|4|56
SK 3378
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः   🔊
सूत्रच्छेदः
विशि-पति-पदि-स्कन्दाम् (षष्ठीबहुवचनम्) , व्याप्यमान-आसेव्यमानयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्वितीयायाम् इत्येव। द्वितीयान्ते उपपदे विश्यादिभ्यो धातुभ्यो णमुल् प्रत्ययो भवति, व्याप्यमाने आसेव्यमाने च अर्थे गम्यमाने। विश्यादिभिः क्रियाभिरनवयवेन पदार्थानां सम्बन्धो व्याप्तिः। तात्पर्यम् आसेवा। द्रव्ये व्याप्तिः, क्रियायामासेवा। गेहानुप्रविशम् आस्ते। समासेन व्याप्त्यासेवयोरुक्तत्वात् नित्यवीप्सयोः 8|1|4 इति द्विर्वचनं न भवति। असमासपक्षे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्, आसेव्यमानतायां तु क्रियावचनस्य। तथा च वक्ष्यति सुप्सु वीप्स, तिङ्क्षु नित्यता इति। गेहं गेहम् अनुप्रवेशम् आस्ते। आसेवायाम् गेहम् अनुप्रवेशम् अनुप्रवेशम् आस्ते। पति गेहानुप्रपातम् आस्ते गेहं गेहम् अनुप्रपातम् आस्ते, गेहम् अनुप्रपातम् अनुप्रपातम् आस्ते। पदि गेहानुप्रपादम् आस्ते, गेहं गेहम् अनुप्रपादम्, गेहम् अनुप्रपादम् अनुप्रपादम्। स्कन्दि गेहावस्कन्दम् आस्ते, गेहं गेहम् अवस्कन्दम्, गेहम् अवस्कन्दम् अवस्कन्दम्। व्याप्यम् आनासेव्यमानयोः इति किम्? गेहम् अनुप्रविश्य भुङ्क्ते। ननु आभीक्ष्ण्ये णमुल् विहित एव, आसेवा आभीक्ष्ण्यम् एव, किम् अर्थं पुनरासेवायां णमुलुच्यते? क्त्वानिवृत्त्यर्थम् इति चेत्, न, इष्टत्वात् तस्य। द्वितीयोपपदार्थं तर्हि वचनम्, उपपदसमासः पक्षे यथा स्यात्। तेन हि सति उपपदाभावः।
`विश्यादिभिः क्रियादिभिः` इति। आदिशब्देन पत्यादित्रयाणां ग्रहणम्। `अनवयवेन` इति। साकल्येन। `पदार्थानाम्` इति। गेहादीनाम्।`तात्पर्यम्` इति। क्रियाणां पौनःपुन्यमाभीक्ष्ण्यमित्यर्थः। `द्रव्ये व्याप्तिः` इत्यादिना व्याप्यमानासेव्यमानयोर्विषयविभागं दर्शयति। यदि व्याप्यमान आसेव्यमाने चार्थे प्रत्ययो भवति, एवञ्च सति तयोरर्थयोर्नित्यता वीप्सा च विद्यत इति `नित्यवीप्सयोः` 8|1|4 इति द्विवचनेन भवितव्यम्, तत् कस्मान्न भवति? इत्याह-- `समानेन`इत्यादि। यद्यपि समासस्तयोरर्थयोर्न विधीयते, पुरस्तादेव प्रतिपादितम्। `तथा च वक्ष्यति`इति।भाष्यकारः। `सुप्सु वीप्सा `इति वचनात् `व्याप्तमानतायां द्रव्यवचनस्य द्विर्वचनं भवति`इत्युक्तं भवति। `तिङ्क्षु नित्यता`इति वचनात् `आसेध्यमानतायां क्रियावचनस्य द्विर्वचनं भवति` इत्युक्तं भवति। `गेहंगेहम्िति। द्रव्यमवचनस्य द्विर्वचमनम्। `गेहमनुप्रवेशमनुप्रवेशम्िति। क्रियावचनस्य।`ननु च`इत्यादि देश्यं `क्त्वानिवृत्त्यर्थम्ित्यादिना परमतमाशङ्क्य निराकरोति। स्यादेतत्, `आभीक्ष्ण्ये णमुल् च` 3|4|22 इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र यदि विश्यादिभ्यः पुनरासेवायां णमुल् विधीयेत तदा क्त्वाप्रत्ययोऽपि स्यात्। अतस्तन्निवृत्त्यर्थं पुनर्णमुलुच्यत इति? एतच्च नास्ति; इष्टत्वात्। इष्यते ह्रासेवायां विशिप्रभृतिभ्यः क्त्वा-- गेहमनुप्रविश्यानुप्रविश्यास्त इति। तस्मादयुक्तं तन्निवृत्त्यर्थं पुनर्णमुल्ग्रहणम्।`द्वितीयान्तोपपदार्थम्` इत्यादि। यदि क्त्वानिवृत्त्यर्थं न प्रयुज्यते तदा द्वितीयान्तस्योपपदसंज्ञार्थं पुनर्वचनम्। अनेन `द्वितीयायाञ्च` 3|4|53 इत्यधिकाराद्द्वितीयान्त उपपदे प्रत्ययविधानम्। अतो द्वितीयान्तस्योपपदसंज्ञा लभ्यते। किमर्थं पुनर्द्वितीयान्तस्योपपदत्वमिष्यते? इत्याह-- `उपपदसमासः` इत्यादि। पक्षग्रहणं `तृतीयाप्रभृतीन्यन्यतरस्याम्` 2|2|21 इति विकल्पेन समासविधानात्। स्यादेतत्--तेनापि णमुल्विधान उपपदसंज्ञा भविष्यतीत्यत आह--`तेन हि`इत्यादि। न हि तेनोपपदसम्बन्धे णमुल् विधीयते; सप्तमीस्थस्य कस्यचिच्छब्दस्याभावात्। तस्मात् तेन णमुल्विधाने सत्युपपदत्वाभाव एव स्यात्॥
अनवयवेनेति । साकल्येन । पदार्थानामिति । गेहादीनाम् । तात्पर्यमिति । पौनः पुन्यमाभीक्ष्ण्यमित्यर्थः । द्रव्ये व्याप्तिरित्यादिना व्याप्त्यसेवयोर्विषयविभागं दर्शयति । गेहानुप्रवेशमिति । ननु व्याप्तौ वीप्सा गम्यते, आसेवायां च नित्यत्वमिति ठ्नित्यवीप्सयोःऽ इति द्विर्वचनं प्राप्नोति, तत्कस्मान्न भवतीत्याह---समासेनेति । यद्यपि समास एतयोरर्थयोर्न विधीयते, तथापि स्वभावत एतयोस्तेनाभिदानम्, यथा---सप्तपर्वा इति, पर्वगताया वीप्सायाः---पर्वणिपर्वणि सप्त पर्णान्यस्येति । तथा च वक्ष्यतीति । ठ्नीत्यवीप्सयोःऽ इत्यत्र वक्ष्यति । भाष्यकारः । तिङ्क्षु नित्यतेति । उपलक्षणम्, ठव्ययकृत्सु चऽ इत्यपि द्रष्टव्यम् । क्त्वानिवृत्यर्थमिति चेदिति । ठाभीक्ष्ण्ये णमुल् चऽ इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र विश्यादिभ्यो णमुलेव यथा स्यात्, क्त्वाप्रत्ययो मा भूदित्येवमर्थं पुनर्ममुलुच्यत इति चेदित्यर्थः । दूषयति---नेष्टत्वादिति । इष्यते ह्यासेवायां विशिप्रभृतिभ्यः क्त्वा---गेहमनुप्रविश्यानुप्रविश्यास्त इति । द्वितीयोपपदार्थं तर्हीति । अत्र हि ठ्द्वितीयायां चऽ इत्यधिकारद् द्वितीयान्तस्योपपदसंज्ञा लभ्यते, किमर्थं पुनरुपपदत्वमिष्यते ? इत्याह---उपपदसमास इति । ठ्तृतीयाप्रभृतीन्यन्यतरस्याम्ऽ इति वचनात्पक्ष इत्युक्तम् । तेन हि सत्युपपदाभाव इति । सप्तमीस्थस्य कस्यचिदभावात् ॥
सिद्धान्तकौमुदी
द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो णमुल् स्याद्व्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन सम्बन्धो व्याप्तिः । क्रियायाः पौनः पुन्यमासेवा । नित्यविप्सयोः-(कौमुदी-2140) इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसञ्ज्ञार्थमासेवायामिहपुनर्विधिः । गेहानुप्रवेशमास्ते । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः - उपपदसंज्ञार्थमिति ।विशिपती॑ति सूत्रे द्वितीयायामित्यनुवर्तनात्तदन्तस्योपपदसंज्ञार्थमित्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.