Page loading... Please wait.
3|4|54 - स्वाङ्गेऽध्रुवे
॥ तस्मै पाणिनये नमः ॥
3|4|54
SK 3376
स्वाङ्गेऽध्रुवे   🔊
सूत्रच्छेदः
स्वाङ्गे (सप्तम्येकवचनम्) , अध्रुवे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्वितीयायाम् इत्येव। अग्रुवे स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोः णमुल् प्रत्ययो भवति। अक्षिनिकाणं जल्पति। भ्रूविक्षेपं कथयति। अघ्रुवे इति किम्? उत्क्षिप्य शिरः कथयति। यस्मिनङ्गे छिन्ने ऽपि प्राणी न म्रियते तदघ्रुवम्। अद्रवम् मूर्तिमत् स्वाङ्गम्।
स्वाङ्गलक्षणमद्रवादि चतुर्थे वक्ष्यति। `अक्षिनिकाणम्` इति। `कण निमीलने` (धातुपाठः-1715), चुरादिर्निपूर्वः। `यस्मिन्नङ्गेच्छिन्ने प्राणी न म्रियते तद्ध्रतम्` इति। पाणिपादादिकम्। अध्रुवत्वं पुनस्तस्य जीवत्यपि प्राणिनि कदाचिदभावात्। यस्मिस्त्वङ्गे च्छिन्ने प्राणी म्रियते तद्ध्रुवम्, शिरःप्रभृति। ध्रुवत्वं पुनस्तस्य सदा प्राणिनि सन्निवेशात्॥
स्वाङ्गलक्षणं चतुर्थे वक्ष्यते---अद्रवं मूर्तिमदित्यादि । अक्षिनिकाणमिति । ठ्कण निमीलनेऽ चुरादिनिपूर्वः । उत्रिप्य शिरः कथयतीति । ननु च ध्रुवमिति नित्यमुच्यते---ध्रुवा द्यौर्ध्रुवा पृथिवीति यथा; अध्रुवमनित्यम्, शिरश्चाप्यनित्यमेव, प्राणिनामेवानित्यत्वादत आह---यस्मिन्नङ्ग इति । अयं भावः---विशेषणसामर्थ्यात्प्रकर्ष आश्रीयते, प्रकर्षेण यदध्रुवमिति । प्रकर्षश्च जीवत्यपि प्राणिनि कदाचिदभाव इति ॥
सिद्धान्तकौमुदी
द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । भ्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्ध्रुवम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.