Page loading... Please wait.
3|4|51 - प्रमाणे च
॥ तस्मै पाणिनये नमः ॥
3|4|51
SK 3372
प्रमाणे च   🔊
सूत्रच्छेदः
प्रमाणे (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तृतीयासप्तम्योः इत्येव। प्रमाणम् आयामः, दैर्घ्यम्। प्रमाणे गम्यमने तृतीयासप्तम्योः उपपदयोः धातोर् णमुल् प्रत्ययो भवति। द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति, द्व्यङ्गुले उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षम्। त्र्यङ्गुलोत्कर्षम्।
`प्रमाणमायामः` इति। `आयामस्तु प्रमाणं स्यात्` इति वचनात्। दैघ्र्यमिति प्रसिद्धतरार्थेन शब्दान्तरेण प्रमाणशब्दस्यैवार्थं स्पष्टीकरोति। `द्व्यङ्गुलोत्कर्षम्` इति। द्व्योरङ्गुल्योः समाहारो द्व्यङ्गुलम्, `तत्पुरुषस्याङ्गुलेः` 5|4|86 इत्यादिनाऽच्। तेन द्व्यङ्गुलेन खण्डिकाया देघ्र्यं परिच्छिद्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
तृतीयासप्तम्योरित्येव । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति । द्व्यङ्गुलेन द्व्यङ्गुले वोत्कर्षम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
प्रमाणे च - द्व्यङ्गुलोत्कर्षमिति । द्वयोरङ्गुल्योः समाहारो द्व्यङ्गुलम् ।तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॑ इत्च् समासान्तः । द्व्यङ्गुलेनोत्कृष्य । परिच्छित्येत्यर्थः । स्वल्पः खण्डः खण्डिका । ह्यस्वः खण्डः खण्डिकेति मनोरमायामुक्तम् । यद्यपि ह्यस्वशब्दो वामनपर्यायतया चेतनेष्वेव प्रायेण प्रयुज्यते, अल्पे ह्यस्वे इति पृथक्सूत्रस्वारस्यात्, तथापि ह्यस्वदीर्घत्यादिनिर्देशादचेतनेष्वपि क्वचिद्भवतीत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.