Page loading... Please wait.
3|4|50 - समासत्तौ
॥ तस्मै पाणिनये नमः ॥
3|4|50
SK 3371
समासत्तौ   🔊
सूत्रच्छेदः
समासत्तौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सप्तम्याम् तृतीयायाम् इति वर्तते। समासत्तिः सन्निकर्षः। समासत्तौ गम्यमानायां तृतीयासप्तम्योः उपपदयोः धातोः णमुल् प्रत्ययो भवति। केशग्राहं युध्यन्ते, केशेषु ग्राहम्, केशैर् ग्राहम्। हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैर् ग्राहम्। युद्धसंरम्भादत्यन्तं सन्निकृष्यन्ते इत्यर्थः।
`युद्धसंरभात्` इति। संरम्भः = मनः संक्षोभपूर्वको वाक्कायविकारविशेषः,युद्धाय संरम्भो युद्धसंरम्भः, तस्मादत्यन्तं सन्निकृष्यन्ते, प्तत्यासीदन्तीति यावत्॥
सप्तम्यां तृतीयायामित्यनुवर्तते इति । पूर्वसूत्रेऽपि स्वरितत्वादेव तृतीयाऽनुवर्तते, सप्तम्यां तु तस्या निवृत्तिर्मा विज्ञायीति चकारः क्रियते । तेन चानुकृष्टमुतरत्र नानुवर्तते इति न चोदनीयम् । युद्धसंरम्भादिति । कोपादिना मनः क्षोभपूर्वको वाक्कायविकारःउसंरम्भः, युद्धार्थः संरम्भो युद्धसंरम्भः, अश्वघासादिवत्षष्ठीसमासः । अत्यन्तं सन्निकृष्य युद्ध्यन्ते इत्यर्थ इति । सन्निकर्षप्रतिपादनपरमेतत्केशग्रहणं भवतु, मा वा भूदिति ॥
सिद्धान्तकौमुदी
तृतीयासप्तम्योर्धातोर्णमुल् स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
समासत्तौ - समासत्तौ । केशग्राहमिति । केशेषु ग्रहणं भवतु वा, मा भूत्, सन्निकर्षप्रतिपादनपरमेतत् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.