॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|5
SK 2828
3|4|5
समुच्चये सामान्यवचनस्य   🔊
SK 2828
सूत्रच्छेद:
समुच्चये - सप्तम्येकवचनम् , सामान्यवचनस्य - षष्ठ्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्वितीये लोड्विधाने समुच्चये सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्यः। ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खाद इत्येव अयम् अभ्यवहरति। सर्वविशेषानुप्रयोगनिवृत्त्यर्थं वचनम्। लाघवं च लौकिके शब्दव्यवहारे न अद्रियते। भ्राष्ट्रम् अट, मठम् अट, खदूरम् अट, स्थाल्युपिधानम् अट इत्येव अयम् अटति इत्यत्र अपि कारकभेदात् क्रियाभेदे सति सामान्यवचनता सम्भवत्येव।
`सर्वविशेषानुप्रयोगानिवृत्त्यर्थम्` इति। यदीदं नारभ्यते तदा यावद्भ्यो धातुभ्यो लोड्विहितस्तावतामेवानुप्रयोगः प्रसज्येत; ततस्तन्निवृत्यर्थमेतत्। ननु चान्तरेणापीदं वचनं लाघवात् सामान्यवचनस्यैवानुप्रयोगो भविष्यति। सर्वविशेषानुप्रयोगे ह्रोदनं भुङ्क्ष्व सक्तून् पिब धानाः खाद इत्येवायं भुङ्क्ते पिबति खादतीति सर्वेषु तदा तरुशब्दस्यैव प्रयोगः स्यात्, वनस्पतिशब्दप्रभृतयस्तूच्छिद्येरन्, न चैवम्, तस्मान्नास्ति लौकिकशब्दप्रयोगे गुरुलाघवं प्रत्यादरः। ननु च भ्राष्ट्रमटेत्यादावुदाहरणे कारकस्यैव समुच्चयो भ्राष्ट्रादेः, न क्रियायाः, तस्या एकत्वात्; अनेकाधारत्वञ्च सामान्यम्, एकत्वे क्रियायास्तन्न सम्भवति, तत्कथं सामान्यवचनस्यानुप्रयोग उपपद्यते? इत्याह-- `भ्राष्टमट`इत्यादि। गतार्थम्॥
ननु च हिस्वान्तस्यानभिव्यक्तपदार्थकत्वाद्धातुसम्बन्धे प्रत्ययविधानाच्चानुप्रयोगः सिद्धः, नार्थ एतेन ? तत्राह---सर्वविशेषेति । असत्यस्मिन्यतो धातोर्लोड्विहितः स तस्यानुप्रयुज्येत । एवमपि हिस्वान्तार्थस्याभिव्यक्तिर्भवत्येव धातुसम्बन्धश्चोपपद्यते । ननु च सर्वेषु विशेषेषु यदनुगतं सामप्त्न्यं तद्वाचिनोऽनुप्रयोगेऽपि तस्य सामान्यस्य सन्निहितेषु विशेषेषु पर्यवसानादर्थाभिव्यक्तिश्च सर्वेषां भवति, धातुसम्बन्धश्च । तत्र सामान्यवचनस्यैकस्यानुप्रयोगोऽस्तु, बहूनां विशेषवाचिनां वेति सम्प्रधारणायामेकस्यैव भविष्यति, लघुत्वातत्राह---लाघवं चेति । अन्यथा तरुद्रुमादीनामेव प्रयोगः स्यात्, न वनस्पत्यादिशब्दानामिति भावः । ननु भ्राष्ट्रमटेत्यादौ तस्यैवानुप्रयोगात्कथं सामान्यवचनता ? तत्राह---भ्राष्ट्रमटेत्यादि । कारकभेदात् क्रियाभेदे सतीति । भेदनिबन्धनः समुच्चयोऽप्येवमेवात्रोपपाद्यः ॥
सिद्धान्तकौमुदी
समुच्चये लोड्विधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्याथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ॥ ।क्रियासमभिहारे द्वे वाच्ये (वार्तिकम्) ॥ याहियाहीति याति । पुनःपुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यातयातेति यूयं याथ । याहियाहीत्ययासीति । यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमितियूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ध्वमास्वादयध्वमित्यभ्यवहरध्वे । पक्षे हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकामास्वादयते । एतेन पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामहाङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिव इति व्याख्यातम् । अवस्कन्दन-वनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देस्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥ । इति लकारार्थप्रकरणम्‌ ।
समुच्चये सामान्यवचनस्य - समुच्चये सामान्यवचनस्य । उच्यतेऽनेनेति वचनः । सामान्यवाचिन इत्यर्थः । फलितमाह — सामान्यार्थकस्येति । समुच्चीयमानक्रियासामन्यवाचिन इत्यर्थः । अनुप्रयोगादिति । अनुप्रयोगादिति । अनुप्रयुज्यमानादित्यर्थः । तत इति । अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः । हिस्वाभ्यां तु न सङ्ख्याकारकाद्यभिव्यक्तिः । तथा च भाष्यं — हिस्वान्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थः॑ इत्यादि ।क्रियासमभिहारे द्वे वाच्ये॑ इति वार्तिकं द्विरुक्तप्रक्रियायां व्याख्यातम् । इदमाद्यसूत्रविहितलोडन्तविषयमिति भाष्ये स्पष्टम् । क्रियासमभिहारे लोटमुदाहरति — याहियाहीति यातीति । भाष्ये "इति" शब्दस्य दर्सनादिति भावः । ह्रन्तस्येति । याहि याहीत्यस्येत्यर्थः । एककर्तृकतकमिति । यातीति यानिकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः । अभेदान्वये इति । तथा च पुनः पुनरतिशयेन वा यद्यानं तदात्मकमेककर्तृकं वर्तमानं यानमिति बोधः । तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः । एवमिति । याहि याहीति यातः । याहि याहीति यान्तीतित्यादिसकलपुरुषवचनेषूदाहार्यमित्यर्थः । याहि याहीति ययौ । याहि याहीति याता । याहि याहीति यास्यति । याहि याहीति यातु । लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः — वा च तध्वमोरिति । तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्धवत्कृत्य अभावपक्षे आह — यात यातेति यूयं यातेति । याहि याहीत्ययात् । याहि याहीति यायात् । लुङ्याह — याहि याहीत्ययासीदिति । लृङि उदाहरति — अयास्यद्वेति । याहि याहीत्ययास्यदिति लृङि रूपम् । यास्यति वेति पाठे लृटि उदाहरणम् । क्रमस्तु न विवक्षितः । पक्षे इति । ध्वंविषये स्वादेशाऽभावपक्षे इत्यर्थः । यूयमधीध्वमिति — लोण्मध्यमपुरुषबहुवचनम् । भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते । पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम् । अथसमुच्चये सामान्यवचनस्ये॑ त्यस्योदाहरति — समुच्चये त्विति । अभ्यवहरतीति । पानं द्रवद्रव्यस्य । दन्तसंमर्दनं विना भक्षणम् । खादनं तु — कठिनद्रव्यस्य चर्वणम् । तयोः सामान्यरूपमभ्यवहरणम्, यथाकथंचिद्भक्षणात्मकत्वात् । पक्षे हिस्वाविति । तध्वमोर्विषये कदाचिद्धिस्वादेशौ पक्षे इत्यर्थः ।पिब खादेत्यभ्यवहरते॑ त्युदाहार्यम् । अत्रेति ।पिब खादेत्यभ्यवहरती॑त्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषाणामनुप्रयुज्यमानधातुवाच्याभ्यवहरणातमकक्रियासामान्येनाऽभेदान्वय इत्यर्थः । पक्षे सक्तूनिति । समुच्चये लोडभावपक्षे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः । एतेनेति ।समुच्चयेऽन्यतरस्या॑मितिसमुच्चये समान्यवचनस्ये॑ति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन चपुरीमवस्कन्दे॑त्यादि माघकाव्यस्थं श्लोकवाक्यं व्याख्यातमित्यर्थः । बली — रावणो, नमुचिद्विषा = इन्द्रेण सह, विगृह्र - विरोधं प्राप्य, पुर्याः = अमरावत्याः, अवस्कन्दनं = पीडनं, नन्दनवनस्य लवनं, रत्नानां मोषणम्, अमराङ्गनानां हरणमित्येवंप्रकारेण अहर्दिवम् = अहन्यहनि, अस्वास्त्यं चक्रे = कृतवानित्यन्वयः । इत्थंशब्द इतिपर्यायोऽवस्कन्दनादिक्रियाविशेषणामस्वस्थ्यक्रियासामान्येऽभेदं ग्राहयति । फलितमाह — अवस्कन्दलवनादिति । आदिना मोषणं हरणं च गृह्रते । भ्रममूलकत्वमुपपादयति — द्वितयीसूत्रे इति । अननुवृत्तेरिति । भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः । तदनुवृत्त्यभ्युपगमे बाधकमाह — - लोडन्तस्येति ।समुच्चयेऽन्यतरस्या॑मिति सूत्रे "क्रियासमभिहारे" इत्नुवृत्तौ "अवस्कन्दे" त्यादिलोडन्तानांक्रियासमभिहारे द्वे वाच्ये॑ इति द्वित्वापत्तेरित्यथः । भ्रम एवेति । मध्यमपुरुषांऽशे, एकवचनांशे च भ्र एवेत्यर्थः । कुत इत्यत आह — पुरुषवचनसंज्ञे इह नेत्युक्तत्वादिति । अत्र भाष्ये हिस्वान्तयोरनभिव्यक्तसङ्ख्याकालकत्वात्तदभिव्यक्तयेऽनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्माऽस्तु इत्युक्तम् । एवं चतानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थान॑मिति श्रुतौसमुच्चयेऽन्यतरस्या॑मिति लोटो हिस्वावेव भवतो,न त्वनुप्रयोगः । तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्ख्याकालभिव्यक्तेरविवक्षितत्वेन तत्राऽनुप्रयोगस्य प्रयोजनाऽभावात् । एतेनआ च सत्यलोकादाचाऽवीचेर्जायस्वम्रियस्वेति विपरिवर्तमानमात्मानं जीवलोकं चालोक्याऽस्मिन् संसारे नित्याऽशुचिदुःखात्मकं प्रसङ्ख्यानमुपवर्तते॑ इति वाचस्पत्यग्रन्थेऽपि जायस्व म्रियस्वेति व्याख्यातम् । नचात्रसमुच्चयेऽन्यतरस्या॑मित्यत्र "क्रियासमभिहारे" इत्यस्याननुवृत्तेरुक्तत्वात्कथमिह पौनःपुन्यमसकृत्पदगम्यमित्यदोषः । कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र "क्रियासमभिहारे" इति सूत्रेण लो॑डित्युक्तम्, तत्तु द्वित्वापत्तेरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपञ्चितम् । इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां लकारार्थप्रक्रियानिरूपणम् । अथ मत्वर्थीयप्रकरणम् । — — — — — — — —
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
समुच्चये सामान्यवचनस्य (1166) (593 अनुप्रयोगविधिसूत्रम्।। 3 । 4 । 1 । आ.4) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। (प्रयोजनभाष्यम्) अनुप्रयोगो यथा स्यात्। (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। हिस्वान्तमनभिव्यक्तपदार्थकं तेनापरिसमाप्तोर्थ इति कृत्वानुप्रयोगो भविष्यति। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनं सामान्यवचनस्येति वक्ष्यामीति।। (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। सामान्यवचनस्यानुप्रयोगोस्तु विशेषवचनस्येति। सामान्यवचनस्यैवानुप्रयोगो भविष्यति। लघुत्वात्।। समुच्चये सा।। 5 ।।