Page loading... Please wait.
3|4|34 - निमूलसमूलयोः कषः
॥ तस्मै पाणिनये नमः ॥
3|4|34
SK 3355
निमूलसमूलयोः कषः   🔊
सूत्रच्छेदः
निमूल-समूलयोः (सप्तमीद्विवचनम्) , कषः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्मणि इत्येव। निमूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कषेः धातोः णमुल् प्रत्ययो भवति। निमूलकाषं कषति। समूलकाषं कषति। निमूलं समूलं कषति इत्यर्थः। इतः प्रभृति कषादीन् यान् वक्ष्यति तत्र कषादिषु यथाविध्यनुप्रयोगः 3|4|46 इति।
`कषः` इति। `कष शिष` (धातुपाठः-685,687) इति हिंसार्थधातुवर्गे पठते॥
अत्र प्रकरणे समानकर्तृकत्वमेव । निमूलकाषमिति । कषतिर्हिसार्थः । एकस्यैव धात्वर्थस्य सामान्यविशेषभावेन भेदे सति विशेषणविशेष्यभावः । निगतं मूलमस्य निमूलम् । सह मूलेन समूलं कषणं करोति, सह मूलेन कर्षतीत्यर्थः । एवं सर्वत्र प्रकरणे द्रष्टव्यम् ॥
सिद्धान्तकौमुदी
कर्मणीत्येव कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसम्बन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
निमूलसमूलयोः कषः - निमूलमिति । नियतं मूलमस्य निमूलम् । सह मूलेन समूलम् । निमूलसमूलकषणाऽभिन्नं कषणमिति शाब्दबोधः । तेनेति । अत्रेदं बोध्यं — सामान्यं विशेष्यं, विशेषस्तु विशेषणम् ।आम्रो वृक्ष॑ इत्यादौ आम्रो विशेषणं, वृक्षस्तु विशेष्यमिति सर्वजनानुभवात् । ततश्चात्र निमूलकषणादिकं विशेषणं, केवलषणं तु विशेष्यमिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.