Page loading... Please wait.
3|4|29 - कर्मणि दृशिविदोः साकल्ये
॥ तस्मै पाणिनये नमः ॥
3|4|29
SK 3350
कर्मणि दृशिविदोः साकल्ये   🔊
सूत्रच्छेदः
कर्मणि (सप्तम्येकवचनम्) , दृशिविदोः (षष्ठीद्विवचनम्) , साकल्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्मण्युपपदे साकल्यविशिष्ते ऽर्थे दृशिविदोः धात्वोः णमुल् प्रत्ययो भवति। कन्यादर्शं वर्यति। याः याः कन्याः पश्यति तास्ताः वर्यति इत्यर्थः। ब्राह्मणवेदं भोजयति। यं यं ब्राह्मणं जानाति लभते विचारयति वा तान् सर्वान् भोजयति इत्यर्थः। साकल्ये इति किम्? ब्राह्मणं दृष्ट्वा भोजयति।
`कर्मण्युपपदे साकल्यविशिष्टे` इति। एतेन साकल्यग्रहणं कर्मविशेषणमिति दर्शयति। `{यं यं ब्राआहृणं जानाति-- काशिका`} यं यं जानाति लभते विचारयति वा` इति। एतेन ज्ञानलाभविचारणार्थानां विदीनां ग्रहणमिति दर्शयति। कुतः पुनः सत्तार्थस्य ग्रहणं न भवति? तस्याकर्मकत्वात्, कर्मणीति चोपादानात्॥
कर्मण्युपपदे साकल्यविशिष्ट इति । सकलस्य भावः साकल्यम्, तद्विशिष्टे कर्मण्युपपदे इत्यर्थः । कन्यादर्शं वरयतीति । अत्र दर्शनविषयभूतानां सर्वासामेव कन्यानां वाक्यार्थेनान्वयात्साकल्यम्, सर्वाः कन्या वरयतीत्यत्रापि दर्शनविषयभूता इत्यर्थः । अतिशयप्रतिपादनपरं चैतत्; यस्मात्कस्याश्चित्परित्यागेऽपि भवत्येव । जानाति लभते विचारयति वेति । सतार्थस्य तु विदेरकर्मकत्वादग्रहणमिति भावः ॥
सिद्धान्तकौमुदी
कर्मण्युपपदे णमुल् स्यात् । कन्यादर्शं वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
कर्मणि दृशिविदोः साकल्ये - कन्यादर्शमिति । अत्र दर्शनविषयीभूतानां सर्वासां कन्यानां वाक्यार्थऽन्वयात्साकल्यं बोध्यम् । सर्वा इति । दर्शनविषयीभूताः सर्वा इत्यर्थः । अतिशयप्रतिपादनपरमेतत् । ब्राआहृणवेदमिति । विद ज्ञाने, विद्लृ लाभे, विद विचारमे इति धात्वर्थान्पर्यालोच्य व्याचष्टे — जानातीत्यादि । सत्तार्थस्य विदेरनेकार्थत्वान्नेह ग्रहणमिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.