Page loading... Please wait.
3|4|28 - यथातथयोरसूयाप्रतिवचने
॥ तस्मै पाणिनये नमः ॥
3|4|28
SK 3349
यथातथयोरसूयाप्रतिवचने   🔊
सूत्रच्छेदः
यथा-तथयोः (सप्तमीद्विवचनम्) , असूयाप्रतिवचने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कृञः सिद्धाप्रयोगे इति वर्तते। यथातथशब्दयोरुपपदयोः कृञो णमुल् प्रत्ययो भवति असूयाप्रतिवचने गम्यमाने। यद्यसूयन् पृच्छति प्रतिवक्ति तत्र प्रतिवचनम् , यथाकारम् अहं भोक्ष्ये, तथाकारम् अहं, किं तवानेन? असूयाप्रतिवचने इति किम्? यथा कृत्वा ऽहं भोक्ष्ये, तथा त्वं द्रक्ष्यसि। सिद्धाप्रयोगे इत्येव, यथा कृत्वा ऽहं शिरो भोक्ष्ये, किं तवानेन।
`असूयाप्रतिवचने` इति। असूयाप्रभवं प्रतिवचनमसूयाप्रतिवचनम्। `यद्यसूयन्` इत्यादि। असूयन्निति शत्रन्तमेतत्। कण्ड्वादियगन्तः। अस्य प्रतिवक्तीत्यनेन सम्बन्धः। प्रतिवक्ति = प्रतिभणति, प्रतिवचनं वदातीत्यर्थः। `पृच्छति` इति। सप्तम्यन्तमेतत्। पृच्छति सति यद्यसूयन् = असूयां कुर्वन् प्रतिवक्ति तदा तत्र पृच्छति यत् प्रतिवचनं तदसूयाप्रतिवचनम्। `यथाकारम्` इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनम्। `यथाकारम्` इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनमेतत्। `यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि` इति। नैतदसूयाप्रतिवचनम्। किं तर्हि? तद्व्याख्यानम्॥
यद्यसूयन् पृच्छति प्रतिवक्तीति । पृच्छति सति यद्यसूयन्प्रतिवक्तीत्यर्थः । ठसु मानसोपतापेऽ कण्ड्वादिः । तत्रेति । एवम्भूते विषये यत्प्रतिवचनं तदसूयाप्रतिवचनमित्यर्थः । यथाकारमिति । प्रष्टुअमनर्हः सन्यदि पृच्छति तदेदमुतरम् । यथा कृत्वाहं भोक्ष्य इति । तत्वकथनमेतत् । कथं पुनरत्र क्त्वाप्रत्ययः, यावता ठ्सिद्धाप्रयोगेऽ इति वचनादनर्थकोऽत्र करोतिः, ततश्च भेदनिबन्धनस्य पौर्वकाल्यस्य समानकर्तृकत्वस्य चाभावान्नात्र प्राप्नोति, णमुल् पुनरुभयाभावेऽपि वचनसामर्थ्याद्भवति ? उच्यते; क्रियासामान्यवचनः करोतिस्तद्विषयप्रकारो यथातथाशब्दाभ्यामुच्यते, तत्र सामान्यस्य सन्निहिते विशेषे पर्यवसानातद्विषय एव प्रकार उक्तो भवदि, ततश्च यथा भोक्ष्यते इति यावानर्थस्तावानेन सत्यपि करोतावित्येतावता सिद्धाप्रयोगत्वमुच्यते, न पुनरत्यन्तमबिदेयाभावात्, ततश्च क्रियाभेदनिबन्धन उपपन्न एव क्त्वाप्रत्ययः । एवं च कृत्वा पूर्वसूत्रेऽपि वासरूपेण क्त्वा भवति । भाष्येऽपि तत्र तत्र प्रयुज्यते--ठन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार उक्तःऽ, ठ्कथं कृत्वा बाधकम्ऽ इत्यादि ॥
सिद्धान्तकौमुदी
कृञः सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकामहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
यथातथयोरसूयाप्रतिवचने - यथाकारमिति । प्रष्टुमनर्हः सन्यदि पृच्छति तदेदमुत्तरम् । अत्रापि वाऽसरूपन्यायेन पक्षे क्त्वाप्रत्ययो बोध्यः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.