॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|25
SK 3346
3|4|25
कर्मण्याक्रोशे कृञः खमुञ्   🔊
SK 3346
सूत्रच्छेद:
कर्मणि - सप्तम्येकवचनम् , आक्रोशे - सप्तम्येकवचनम् , कृञः - पञ्चम्येकवचनम् , खमुञ् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मण्युपपदे कृजो धातोः खमुञ् प्रत्ययो भवति आक्रोशे गम्यमाने। चोरंकारम् आक्रोशति। चोरो ऽसि, दस्युरसि इत्याक्रोशति। चोरकरणम् आक्रोशसम् पादनार्थम् एव, न त्वसौ चोरः क्रियते।
`चौराङ्कारम्` इति। `अरुर्द्विषदजन्तस्य मुम्` 6|3|66 इति मुम्। `चौरकरणम्` इत्यादि। करोतिरत्रोच्चारणक्रियः। `चौरोऽसि`इत्याक्रोशवाक्ये चौरशब्दस्य यत् करणमुच्चारणं तदाक्रोशस्यैव सम्पादनार्थम्। न हि तेनविनाऽ‌ऽक्रोशः शक्यते प्रतिपादयितुम्। `न त्वसौ चौरः क्रियते` इति। अशक्यत्वात्। न च `चौरोऽसीति शतकृत्वोऽपि ब्राउवता पुरुषस्य शक्यते चौरत्वमुत्पादयितुम्॥
उदाहरणेषु करोतिरुच्चारणे वर्तते, तस्य शब्दात्मकमेव कर्म भवति । तत्र चोरादिशब्दाः शब्दप्रधानाः । चोरङ्कारम् । कोऽथेः ? चोरशब्दमुच्चार्येत्यर्थः, तदाह---चोरोऽसीत्यादि । चोरकरणमिति । चोरशब्दोच्चारणम् । आक्रोशसम्पादनार्थमिति । निन्दितशब्दोच्चारणमन्तरेण तस्य सम्पादयितुशक्यत्वात् । न त्वसाविति । न हि चोरोऽसीति वचनेन चोरः क्रियते ॥
सिद्धान्तकौमुदी
कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे । चोरशब्दमुच्चार्येत्यर्थः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!