Page loading... Please wait.
3|4|22 - आभीक्ष्ण्ये णमुल् च
॥ तस्मै पाणिनये नमः ॥
3|4|22
SK 3343
आभीक्ष्ण्ये णमुल् च   🔊
सूत्रच्छेदः
आभीक्ष्ण्ये (सप्तम्येकवचनम्) , णमुल् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
समानकर्तृकयोः पूर्वकाले इत्येव। आभीक्ष्णयम् पौनःपुन्यम्। प्रकृत्यर्थविशेषणं च एतत्। आभीक्ष्ण्यविशिष्टे ऽर्थे वर्तमानाद् धातोः णमुल् प्रत्ययो भवति, चकारात् क्त्व च। द्विर्वचनसहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः, न केवलौ। आभीक्ष्ण्ये द्वे भवतः इत्युपसङ्ख्यानाद् द्विर्वचनम्। भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति। पायं पायं व्रजति, पीत्वा पीत्वा व्रजति।
`द्विर्वचनसहितौ` इत्यादि। आभीक्ष्ण्यं हि द्योतयितुं द्विर्वचनसहितयोरेव क्त्वाणमुलोः सामथ्र्यम्, न केवलयोः; शब्दशक्तिस्वाभाव्यात्। तस्माद्द्विर्वचनं विधेयमिति भावः। केन पुनरत्र द्विर्वचनमित्याह-- `आभीक्ष्ण्ये` इत्यादि। `पायम्पायम्` इति। `आतो युक्` 7|3|33
द्विर्वचनसहिताविति । केन पुनरत्र द्विर्वचनमित्याह---आभीक्ष्णये द्वे भवत इत्युपसङ्ख्यानाद् द्विर्वचनमिति । ठ्नित्यवीप्सयोःऽ इत्यत्र तु वामनो वक्ष्यति---ठ्तिङ्क्षु नित्यता अव्ययकृत्सु चऽ इति । तन्मते नित्यग्रहणादेवात्र द्विर्वचनम् । पायंपायमिति । ठातो युक्ऽ ॥
सिद्धान्तकौमुदी
पौनः पुन्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । द्वित्वम् । स्मारं स्मारं नमति शिवम् । स्मृत्वा स्मृत्वा । पायं पायम् । भोजं भोजम् । श्रावं श्रावम् । चिण्णमुलोः (कौमुदी-2762) इति णमुल्परे णौ वा दीर्घः । गमं गमम् । गामं गामम् । विभाषा चिण्णमुलोः (कौमुदी-2765) इति नुम् वा । लम्भं लम्भम् । लाभं लाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भं प्रलम्भम् । जाग्रोऽविचिण्ण-(कौमुदी-2480) इति गुणः । जागरं जागरम् । ण्यन्तस्याप्येवम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
आभीक्ष्ण्ये णमुल् च - आभीक्ष्ण्ये णमुल् च । ननु वाऽसरूपन्यायेन क्तवाप्रत्ययो भविष्यतीतिच॑ ग्रहणमिह व्यर्थमिति चेन्मैवम् । उक्तन्यायस्वीकारे तु लडादिरपीह प्रवर्तेत । न चेष्टापत्तिः,विभाषाऽग्रे॑ इति वक्ष्यमाणसूत्रस्थविभाषाग्रहणस्य वैयथ्र्यप्रसङ्गात् । तत्र हि क्त्वाणमुलौ विभाषाग्रहणेन लडादिसमावेशार्थं विकल्प्येते । यद्यपि वाऽसरूपन्यायेनैव लडादिः सिध्यति तथापि णमुला सहैव क्त्वाप्रत्ययो यत्र विधीयते तत्रवाऽसरूपविधिर्न प्रवर्तत इति ज्ञापनार्थं विभाषाग्रहणम् । तत्फलं तुआभीक्ष्णे णमुल् चे॑त्यत्र लडाद्यप्रवृत्तिः । ततश्च चकारेणैव क्त्वाप्रत्ययो लभ्यत इति नास्त्येव तस्य वैयथ्र्यम् । किं च वाऽसरूपं विनैव क्त्वालडाद्योः स्वीकारे तुन यद्यनाकाङ्क्षे॑ इत्यत्र क्त्वाप्रत्ययवल्लडादिरपि न सिद्ध्येत् । तथा चयदयं भुङ्क्ते ततः पठती॑त्युदाहरणं न स्यात् । सिद्धान्ते तुआभीक्ष्ण्ये णमुल्चे॑ति विशेषविहितयोः क्त्वाणमुलोरेव निषेधात्सामान्यविहितलडादिर्भवत्येवेति नास्त्येवाऽनुपपत्तिरिति दिक् ।पूर्वविषय इति ।समानकर्तृकयोः पूर्वकाले॑ इत्यर्थः । पायंपायमिति ।आतो युक् । वा दीर्घ इति । गमेण्र्यन्ताण्णमुलि मितां ह्यस्वे च कृते वा दीर्घ इत्यर्थः । ण्यन्तस्यापीति । यत्तु प्राचा ण्नय्तजागर्तेश्चिण्णमुलोर्वा वृद्धिरिति मतमुपन्यस्तं,तदपाणिनीयमिति भावः ।
लघुसिद्धान्तकौमुदी
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.