Page loading... Please wait.
3|4|20 - परावरयोगे च
॥ तस्मै पाणिनये नमः ॥
3|4|20
SK 3319
परावरयोगे च   🔊
सूत्रच्छेदः
पर-अवर-योगे (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परावराभ्यां योगः प्रावरयोगः। परेण पूर्वस्य योगे गम्यमाने अवरेण च परस्य धातोः क्त्वा प्रत्ययो भवति। परेण तावत् अप्राप्य नदीं पर्वतः स्थितः। परनदीयोगेन पर्वतो विशिष्यते। अवरयोगे अतिक्रम्य तु पर्वतं नदी स्थिता। अवरपर्वतयोगेन नदी विशिस्यते।
इहेमौ परावरशब्दौ सम्बन्धिशब्दौ। पूर्वञ्चापेक्ष्य परो भवति, परञ्चापेक्ष्।यावरः,सम्बन्धिशब्दाश्च नियतमेव प्रतियोगिनमुपस्थापयन्ति, तस्मात् सूत्रे यद्यपि विशिष्टप्रयोगो न मिर्दिश्यते, तथापि पूर्वपरयोरेव परावराभ्यां योगो गम्यत इत्याह-- `परेण पूर्वस्य` इत्यादि। `परनदीयोगेन पर्वतो विशिष्यते` इति। तथा ह्रप्राप्य नदीं पर्वत इत्युक्ते परया नद्या पर्वतस्य यो योगस्तद्विशिष्टः पर्वतः प्रतीयते। `अवरपर्वतयोगेन नदी विशिष्यते` इवि। यस्मादतिक्रम्य पर्वतं नदीत्युक्तेऽवरेण पर्वतेन नद्या च यो योगस्तद्विशिष्ट नदी विज्ञायते॥
परावरशब्दयोः सम्बन्धिशब्दत्वाद्यपदेक्षं परावरत्वम्, तयोः पूर्वपरयोरेव परावराभ्यां योगो गम्यते, इत्याह---परेण पूर्वस्येति । पूर्वशब्देनात्रावरो विवक्षितः । अप्राप्य नदीमिति । नद्याः पूर्वदेश इत्यर्थः । ततश्च नदी परा भवतीति । परनदीयोगेन पर्वतो विशेष्यति । अतिक्रम्य पर्वतमिति । पर्वतस्य परस्तादित्यर्थः । ततश्चावरः पर्वतो भवति तेनावरपर्वतयोगेन नदी विशेष्यते । अयमप्यपूर्वकालार्थ आरम्भः, अतिक्रमोऽत्र कीदृश इति चिन्त्यम् ॥
सिद्धान्तकौमुदी
परेण पूर्वस्यावरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
परावरयोगे च - परावर । अप्राप्येति । दक्षिणदेशस्थानां गङ्गामप्राप्य विन्ध्यः । गङ्गाप्राप्तविरहविशिष्टदेशस्थो विन्ध्य इत्यर्थः । अत्र विन्ध्यात्परा गङ्गेति गम्यते । अतिक्रम्येति । दक्षिणदेशस्थानामेवायमपि प्रयोगः । अत्र हि गङ्गायाः पूर्वो विन्ध्य इति गम्यते । इह त्रिसूत्र्यां क्त्वाप्रत्ययस्य भावमात्रार्थत्वेऽपि विशेषणविशेष्यसंसर्गा भिद्यन्त इति नास्ति वैयथ्र्यमिति दिक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.