`कृत्यानामर्थो भावकर्मणी` इति। `तयोरेव कृत्यक्तखलर्थाः`
3|4|70 इतिभावकर्मणोः कृत्यानां विधानात्। `अन्तेतवै` इति। अनुपूर्वादिणस्तवै। `परिधातवै` इति। परिपूर्वाद्दधातेः। `परिस्तरितवै` इति। परिपूर्वादेव `स्तृञ् आच्छादने` (धातुपाठः-1252) इत्यस्मात्। `अवगाहे` इति। `गाहु विलोडने` (धातुपाठः-649) अक्पूर्वः। `दिदृक्षेण्यः` इति। `दृशः सन्, द्विर्वचनम्, उरत्त्वम्, रपरत्वम्, `सन्यतः`
7|4|79 इतीत्त्वम्, `हलन्ताच्च`
1|2|10 इति गुणाभावः, व्रश्चादिसूत्रेण
8|2|36 षत्वम्,`षढोः कः सि`
8|2|41 इति कत्वम्, दिदृक्ष इति स्थिते केन्यप्रत्ययः, `अतो लोपः`
6|4|48 । `शुश्रूषेण्यः` इति। शृणोतेः सन्, `अज्झनगमां सनि`
6|4|16 इति दीर्घः, द्विर्वचनमभ्यासकार्यम्, शुश्रूष इति स्थिते केन्यप्रत्ययः। `कत्त्र्वम्` इति। करोतेस्त्वम्। `सयादिसूत्रेऽपि तवै विहितः` इति। सयादीनां सूत्रं सयादिसूत्रम्, येन सयादयो विहितास्ततत्रापि तवैप्रत्ययो विहितः। `तस्य तुमर्थात्` इत्यादि। यदि तु तस्य तुमर्थ एव भावे विधिः स्यात् तस्यानर्थक्यं स्यात्; अनेनैव सिद्धत्वात्। तस्माद्यद्यपि तत्र तुमर्थ इत्युच्यते, तथापि ततोऽन्यत्र कर्मकारके कर्त्रादौ तवैप्रत्ययविधानं वेदितव्यम्॥