Page loading... Please wait.
3|4|116 - लिङाशिषि
॥ तस्मै पाणिनये नमः ॥
3|4|116
SK 2215
लिङाशिषि   🔊
सूत्रच्छेदः
लिङ् (प्रथमैकवचनम्) , आशिषि (सप्तम्येकवचनम्)
अनुवृत्तिः
तिङ्  3|4|113 (प्रथमैकवचनम्) , आर्धधातुकम्  3|4|114 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
आशिषि लिङ् तिङ् आर्धधातुकम्
सूत्रार्थः
आशीर्लिङ्-लकारस्य प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति ।
तिङ्शित्सार्वधातुकम् 3|4|113 इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिङ्-लकारस्य "आशिषि" अर्थे विधीयमानाः तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति ।

एतत् स्मर्तव्यम् यत् लिङ्लकारस्य प्रयोगः बहुषु अर्थेषु भवति । परन्तु एतेषु सर्वेषु अर्थेषु लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः न सन्ति । केवलं आशिषि लिङ्लोटौ 3|3|173 इत्यनेन निर्दिष्टे अर्थे एव लिङ्लकारात् विहिताः आर्धधातुकसंज्ञकाः भवन्ति । उदाहरणे एते -

1. अस्तेर्भूः 2|4|52 इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुम् अर्हति । अयम् आदेशः आशीर्लिङ्लकारस्य
रूपेषु अपि दृश्यते । यथा, अस्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषस्य रूपाणि "भूयात्, भूयास्ताम्, भूयासुः" इति भवन्ति ।

2. कर्तरि शप् 3|1|68 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । आशीर्लिङ्-लकारस्य प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - "गम्" धातोः लिट्लकारस्य प्रथमपुरुषैकवचनम् "गम्यात्" इत्यत्र गम्-धातोः "गच्छ्" आदेशः न भवति, यतः अयम् आदेशः इषुगमियमां छः 7|3|77 इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति ।
One-line meaning in English
The प्रत्ययs of आशीर्लिङ्-लकार are termed आर्धधातुक.
काशिकावृत्तिः
आशिषि विषये यो लिङ् स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्च एवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषि इति किम्? लुनीयात्। पुनीयात्।
`{लविषीष्ठा` इति मु।पाठः} लविषीष्ट` इति। थास् , `सुट् तिथोः` 3|4|107 इति सुट्, षष्वम्, ष्टत्वञ्च॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
लिङाशिषि - आर्धधातुकसंज्ञ इति ।लङः शाकटायनस्यैवे॑त्येत एवकारोऽनुवर्तनीयः । अन्यथा एकसंज्ञाधिकारबहिर्भूत्तवेन सार्वधातुकसंज्ञापि स्यात्, ततश्च पक्षे शबादिः स्यात् ।
लघुसिद्धान्तकौमुदी
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.