॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|114
SK 2187
3|4|114
आर्धधातुकं शेषः   🔊
SK 2187
सूत्रच्छेद:
आर्धधातुकम् - प्रथमैकवचनम् , शेषः - प्रथमैकवचनम्
अनुवृत्ति:
तिङ्-शित्  [3|4|113] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
तिङ्-शित्-शेष: धातो: पर: प्रत्यय: आर्धधातुक:
सूत्रार्थ:
तिङ्-प्रत्ययं विहाय शित्-प्रत्ययं विहाय च धातुभ्यः विहिताः अन्ये प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति ।
धातोः विहिताः प्रत्ययाः "सार्वधातुक" तथा "आर्धधातुक" एतादृशाः विभाजिताः सन्ति । एतेषु तिङ्शित्सार्वधातुकम् 3|4|113 इत्यनेन सार्वधातुकसंज्ञा विधीयते । येषाम् प्रत्ययानाम् इयम् संज्ञा न भवति, ते सर्वे अस्मिन् सूत्रे "शेषः" इत्यनेन गृह्यन्ते । एतेषाम् सर्वेषाम् "आर्धधातुक"संज्ञा भवति । यथा - क्त, क्तवतु, ल्युट् , उ, णिच् - आदयः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "शेष" इत्यनेन केवलम् धातोः विहिताः प्रत्ययाः एव गृह्यन्ते, यतः एतत् सूत्रम् धात्वधिकारे अस्ति ।
2. आशीर्लिङ्-लकारस्य विषये लिङाशिषि 3|4|116 इत्यनेन तथा लिट्-लकारस्य विषये लिट् च 3|4|115 इत्यनेन तिङ्-प्रत्ययाः अपि आर्धधातुकसंज्ञकाः भवन्ति ।


आर्धधातुकसंज्ञायाः प्रयोगः आर्धधातुके 2|4|35, आर्धधातुकस्येड् वलादेः 7|2|35 एतादृशेषु सूत्रेषु कृतः अस्ति ।
One-line meaning in English
Except for तिङ् and शित् प्रत्ययs, other प्रत्ययs that are attached to verbs are called "आर्धधातुक".
काशिकावृत्तिः
तिङः शितश्च वर्जयित्वा अन्यः प्रत्ययः शेषो धातुसंशब्दनेन विहितः आर्धधातुकसंज्ञो भवति। लविता। लवितुम्। लवितव्यम्। धातोः 3|1|91 इत्येव। वृक्षत्वम्। वृक्षता अस्ति। लूभ्याम्। लूभिः। जुगुप्सते।
`लविता` इति। तृच्, `आर्धधातुकस्येड्वलादेः` 7|2|35 इतीट्। `वृक्षत्वम्` इति। `तस्य भावस्त्वतलौ` 5|1|118 । `लूभ्याम्` इति। लुनातेः क्विबन्ताद्भ्याम्। `जुगुप्सते` इति। गुपादिसूत्रेण 3|1|5 सन्। त्वलादीनामार्धधातुकत्वाभावादिडभावः। यक्तं `वृक्षत्वम्` प्रत्युदाहरणम्, त्वप्रत्ययस्य धातोरविधानात्, `लूभ्याम्` इत्याद्ययुक्तम्, `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति न्यायात्, म्याम्प्रत्ययो धातोरेव विहितः, सन्प्रत्ययोऽपि धातोः, गुपादेर्धातुत्वात्? नैतदस्ति;अस्यैव हि दोषस्य परीहाराय धातुशब्देन यो विहित इत्युक्तम्। तस्य चायमर्थः-- धातोरित्येवं यो विहितः,धातुशब्दमुच्चार्य यो विहित इति यावत्। यस्य विधायकलक्षणे धातुग्रहणमस्ति,न चैवं भ्मांसनौ विहितौ; त्दविधौ धात्वधिकारस्य धातुग्रहणस्य चासम्भवात्। कथं पुनर्धातुसंशब्दनेन यो विहित इत्येषोऽर्थो लभ्यते, यावता धातोरित्येकमेव धातुग्रहणमनुवत्र्तते, तच्चाधातुप्रत्ययनिवृत्तौ चरितार्थत्वान्नापरं किञ्चिद्विशिष्टमभिधातुमुत्सहते? एवं मन्यते-- यङविधानसूत्रात् 3|1|22 `शमिधातो संज्ञायाम्` 3|2|14 इत्यतो वा द्वितीयदातुग्रहणमनुवत्र्तते, तत्रैकेन धातुना अधातुप्रत्ययो निवर्ततते, अपरेण धातुप्रत्ययो विशिष्यते-- धातोरित्येवं यो विहित इति। शेषग्रहणं किम्? तिङशितोर्मा भूत्, अन्यथा ह्रेकसंज्ञाधिकाराभावात् प्रत्ययादिसंज्ञानामिव समावेशः स्यात्॥
धातुसंशब्दनेनेति । धातुशब्दमुच्चार्येत्यर्थः । अत्र हि यङ्विधौ यद्धातुग्रहणं शमिधातोरिति वा, यच्च धातोरिति, तदुभयमनुवर्तते; तत्रैकेनाधातुप्रत्ययो व्यावर्त्यते, अपरेण धातुप्रत्ययो विशिष्यते, धातोरित्येवं यो विहित इति, तेनायमर्थः । लूभ्याम्, लुभिः, जुगुप्सते इति । यद्यप्यत्र धातोरेव विहिस्तथापि धातुशब्दमुच्चार्य न विहित इति भवति प्रत्युदाहरणम् । शेषग्रहणम्---तिङ्शितोर्मा भूत; अन्यथैकसंज्ञाधिकाराभावात्प्रत्ययादिसंज्ञानामिव समावेशः स्यात् । सद्येवकारोऽनुवर्तते शक्यं शेषग्रहणमकर्तुम् ॥
सिद्धान्तकौमुदी
तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥
आर्धधातुकं शेषः - भू तास् ति इति स्थिते — आद्र्धधातुकं शेष- ।तिङ्शित्सार्वधातुक॑मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः । तदाह — तिङ्शिद्भ्योऽन्य इति । विहित इति ।धातो॑रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः । एवं च "जुगुप्सते" इत्यादौ "गुप्तिज्किद्भ्य" इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आद्र्धधातुकत्वाऽभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आद्र्धधातुकसंज्ञक इत्यर्थः । इडिति । तास्प्रत्ययस्योक्तसूत्रेणाद्र्धधातुकत्वात्स्वतो वलादित्वाच्चआद्र्धधातुकस्येड्वलादे॑रितीडागम इत्यर्थः ।
आर्धधातुकं शेषः - ॒धातोरेकाचः॑ इत्यत्र धातोरित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते । एतच्च तत्रैव मनोरमायां स्पष्टम् । दातोरितिविहित इति किम् । लूभ्यां । जुगुप्सते॥
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आर्धधातुकं शेषः (1271) (5092 आक्षेपवार्तिकम्) ।। आर्धधातुकसंज्ञायां धातुग्रहणम् ।। (भाष्यम् ) आर्धधातुकसंज्ञायां धातुग्रहणं कर्तव्यम् । धातोः परस्यार्धधातुकसंज्ञा यथा स्यात् इह मा भूत् ‐ ‐ वृक्षत्वं वृक्षतेति । (5093 आक्षेपवार्तिकम् ।। 2 ।।) ।। क्रियमाणे चापि धातुग्रहणे, स्वादिप्रतिषेधः ।। (भाष्यम्) स्वादीनां प्रतिषेधो वक्तव्यः । इह मा भूत् लूभ्यां लूभिः इति । (आक्षेपपरिहारभाष्यम्) अनुक्रान्तापेक्षं शेषग्रहणम् । (परिहारानुपपत्तिभाष्यम् ) एवमपि अग्निकाम्यति वायुकाम्यतीति प्राप्नोति । तस्माद्धातुग्रहणं कर्तव्यम् । (आक्षेपभाष्यम् ) तत्तर्हि धातुग्रहणं कर्तव्यम् ?। (समाधानभाष्यम् ) न कर्तव्यम् । आतृतीयपरिसमाप्तेर्धात्वधिकारः प्रकृतोऽनुवर्तते । क्व प्रकृतः ?।धातोरेकाचो हलादेः इति । (समाधानासंगतिभाष्यम्) एवमपि श्रीकाम्यति भूकाम्यतीति प्राप्नोति । (समाधानसंगतिभाष्यम् ) तद्विधानात् सिद्धम् । विहितविशेषणं धातुग्रहणं ठधातोर्यो विहितः इति । ठधातोरेष विहितः संकीर्त्य धातोरित्येवं यो विहित इति । आर्धधातुकम् ।। 114 ।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायश्च चतुर्थे पादे प्रथममाह्निकम् ।। पादश्चाध्यायश्च समाप्तस्तृतीयः ।।
4-1