Page loading... Please wait.
3|4|112 - द्विषश्च
॥ तस्मै पाणिनये नम: ॥
3|4|112
SK 2435
द्विषश्च  
सूत्रच्छेद:
द्विषः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
लङः शाकटायनस्य इत्येव। द्विषः परस्य लङादेशस्य झेर् जुसादेशो भवति, शाकटायनस्य आचार्यस्य मतेन। अद्विषुः। अन्येषां मते अद्विषन्।
`अद्विषु` इति। अदादित्वाच्छपो लुक्॥
द्विषिरदादिः ॥
सिद्धान्तकौमुदी
लङो झेर्जुस्वा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् । 1014 दुह प्रपूरणे । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । धुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । लुग्वा दुह (कौमुदी-2365) इति लुक्पक्षे तथास्ध्वंवहिषु लङ्वदपि । 1015 दिह उपचये । उपचयो वृद्धिः । प्रणिदेग्धि । 1016 लिह आस्वादने । लेढि । लीढः । लिहन्ति । लेक्षि-लीढे । लिक्षे । लीढ्वे । लेढु । लीढाम् । लेहानि । अलेट् । अलिक्षत । अलिक्षताम् । अलीढ । अलिक्षावहि । 1017 चक्षिङ् व्यक्तायां वाचि । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । विचक्षणः प्रथयन् । नुम्तु न । अन्तेदितः इति व्याख्यानात् । ङकारस्तु [(परिभाषा - ) अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्] इति ज्ञापनार्थः । तेन स्फायन्निर्मोकसन्धीत्यादि सिध्यति । चष्टे । चक्षाते । आर्धधातुके (कौमुदी-2377) इत्यधिकृत्य ॥
द्विषश्च - द्विषश्च ।झेर्जु॑सितिलङः शाकटायनस्ये॑ति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लङो झेरिति । अद्विषन्निति । अद्वेट् अद्विष्टम् अद्विष्ट । अद्वेषम् अद्विष्व अद्विष्म । विधिलिङि परस्मैपदे आह — - द्विष्यादिति । द्विष्याताम् द्विष्युः — इत्यादि । तङि आह — द्विषीतेति । द्विषीयाताम् द्विषीरन् इत्यादि । आशीर्लिङि द्विष्यास्ताम् — इत्यादि । तङ्याह — द्विक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । द्विक्षीयास्तामित्यादि । लुङि परस्मैपदे आह — अद्विक्षदिति । "शल इगुपधात्" इति क्सः । अद्विक्षताम् अद्विक्षन्नित्यादि । तङित्यादौ प्रकृष्टपूरणस्यार्थस्यानवगमादाह — प्रपूरणं पूरणाऽभाव इति । ऊधः पूरणप्रतिकूलीभाव इत्यर्थः । ऊधशः सकाशात्क्षारणे इति यावत् । ननु प्रपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह — धात्वर्थं बाधते कश्चिदिति । प्रसिद्धं धात्वर्तं कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्र्थः । दोग्धीति ।दादे॑रिति हस्य घः,झषस्तथो॑रिति तकारस्य धकारः, घस्य जश्त्वेन गः । एवं दुग्ध इत्यपि । दुहन्ति । धोक्षीति । हस्य घः, चर्त्वेन कः, षत्वमिति भावः । दुग्धः दुग्ध.दोहृ दुह्वः दुह्मः । लटि आत्मनेपदे आह — दुग्धे इति । घधगाः । दुहाते दुहते । धुक्षे इति । हस्य घः, दस्य भष् धकारः, घस्य कः, षत्वम् । दुहाथे । धुग्ध्वे इति । हस्य घः, भष्, घस्य गः । दुह्वहे दुहृहे । दुदोह, दुदुहतुः, दुदुहुः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट् । दुदोहिथ, दुदुहथुः दुदुह.दुदोह दुदुहिव दुदुहिम । दुदुहे दुदुहाते दुदुहिरे दुदुहिषे दुदुहाथे दुदुहिढ्वे — दुदुहिध्वे । दुदुहे दुदुहे दुदुहिवहे दुदुहिमहे । दोग्धा । धोक्ष्यति । धोक्ष्यते । दोग्ध्विति.दुग्धात् दुग्दाम् दुहन्तु । दुग्धीति । हेर्धिः ।घत्वजश्त्वे । दुग्धात् । दुग्धम् । दुग्ध । जश्त्वचर्त्वे । षत्वम् । दुहाथाम् । धुग्ध्वमिति । हस्य घः, भष्, घस्य जश्त्वम् । दोहै इति । आटः पित्त्वादङित्त्वाद्गुण इति भावः । दोहावहै दोहामहै । लङि परस्मैपदे आह — अधोगिति । तिप इकारलोपः, हल्ङ्यादिलोपः, हस्य घः, दस्य भष्, घस्य चत्र्वविकल्पः । अदुग्धाम् अदुहन् । अधोक् अदुग्धम् अदुग्ध । अदोहमिति । अदुह्व अदुहृ । लङस्तङ्याह — अदुग्धेति । हस्य घः, तकारस्य धः, घस्य गः । अदुहाताम् अदुहत । अदुग्धाः, अदुहाथाम् । अधुग्ध्वमिति ।क्सस्याऽचि॑ । अधुक्षाताम् अधुक्षन्त । अधुक्षथाः, अधुक्षाथाम्, अधुक्षध्वम् । अधुक्षि, अधुक्षावहि, अध#उक्षामहि । लुग्वेति । त थास् ध्म् वहि — एषु चतुर्षु दन्त्यादिषु परेषुलुग्वा दुहे॑ति क्सस्य लुक्पक्षे लङीव रूपाणीत्यर्थः । तथा च अदुग्ध, अदुग्धाः, अधुग्ध्वम्, तदुह्वहि — इत्यपि रूपाणीति फलितम् । अधोक्ष्यत् । अधोक्ष्यत । दिह उपचये इति । #उपचयो वृद्धिःओओ । अनिट् । प्रणिदेग्धीति ।नेर्गदे॑ति णत्वम् । दुहधातुवद्रूपाणि । लिह आस्वादने इति । अनिट् । लेढीति । शपो लुकि ढत्वधत्वष्टुत्वढलोपाः । लेक्षीति । सिपि हस्य ढः ।षढो॑रिति ढस्य क इति भावः । लीढः लीढ । लेहमि लिह्वः लिह्मः । लटि तङ्याह — लीढे इति.लिहाते लिहते । लिक्षे इति । ढकषाः । लिहाते इति सुगमम् । लीढ्वे इति । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लिहे लिह्वहे लिहृहे । लेढा । लेक्ष्यति । लेक्ष्यते । लेढ्विति । लीढात् लीढाम् लिहन्तु । लीढीति । हेर्धिः । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लीढात् लीढम् लीढ । लेहानीति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः । लेहाव लेहाम । लीढाम् लिहाताम् लिहताम् । लिक्ष्व लिहाथाम् लीढ्वम् । लेहै लेहावहै लेहामहै । अलेडिति । लङि तिपि शपो लुकि इकारलोपे हल्ङ्यादिलोपे हस्य ढः । चत्र्वविकल्प इति भावः । अलीढाम् अलिहन् । अलेट् अलीढम् अलीढ । अलेहम् अलिह्व अलिहृ । अलीढ अल#इहाताम् अलिहत । अलीढाः । अलिहाथाम् अलीढ्वम् । अलिहि अलिह्वहि अलिहृहि । अलिक्षिदिति । लुङि क्सः । अलिक्षताम् अलिक्षन्त । अलिक्षथाः — अलीढाः, अलिक्षाथाम् अलिक्षध्वम् — अलीढ्वम् । अलिक्षि ।लुग्वा दुहे॑ति लुग्विकल्पं मत्वा आह — अलिक्षावहि अलिह्वहीति । अलेक्ष्यत् अलेक्ष्यतेति । लृङि रूपे । द्विषादयश्चत्वारः स्वरितेतो गताः । चक्षिङ् व्यक्तायां वाचीति । गूढार्थस्य स्पष्टप्रतिपत्त्यर्थे विवरणे इत्यर्थः । अयं दर्शनेऽपीति । श्रुतौपूर्वाऽपरं चरतो माययैतो । शिशू क्रीजन्तौ परियातो अध्वरम् । विआआन्यन्यो भुवनानि चक्षे । ऋतूनन्यो विदधज्जायते पुनः इत्यादौ तथा दर्शनादिति नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुं,ङित्त्वादेव तत्सिद्धेरित्यत आह — इकारोऽनुदात्तो युजर्थ इति । नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुं, ङित्त्वादेव तत्सिद्धेरित्यत आह — इकारोऽनुदात्तो युजर्थ इति ।अनुदात्तेतश्च हलादे॑रिति ल्युडपवादयुच्प्रत्ययार्थ इत्यर्थः । अकारमुल्लङ्घ्य इकारोच्चारणं तु उच्चारणार्थत्वाऽभावप्रतिपत्त्यर्थमिकारस्य इत्संज्ञावश्यकत्वे नुमागमः स्यादित्यत आह — नुम् तु नेति । कुत इत्यत आह — अन्ते इदित इति ।इदितो नुम् धातो॑रित्यत्र "गोः पादान्ते" इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः । नन्विकारे युजर्थमनुदात्तत्वस्य इत्संज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसंभवान्ङकारोच्चारणं व्यर्थमित्याशङ्क्य आह — ङकारस्त्विति । ङकारो नित्यात्मनेपदार्थः । अनुदात्तेतत्वप्रयुक्तं त्वात्मनेपदं कदाचिन्न स्यात्, अतो ङकारोच्चारणम् । अत एवअनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्य॑मिति विज्ञायत इत्यर्थः । स्फायन्निति ।स्फायी वृद्धा॑वित्यनुदात्तेतोऽपि लटः शत्रादेश न त्वात्मनेपदं शानजिति बावः । वस्तुतस्तु अन्त्येकत्ववयाघातेन चरितार्थत्वान्ङकारोच्चारणमुक्तार्थे कथं ज्ञापकम् , भाष्ये तथाऽनुक्तत्वाच्च । अतःपृषोदरादित्वकल्पनया स्फायन्निति कथंचित्साध्यमित्याहुः । चष्टे इति ।स्को॑रिति कलोपः, ष्टुत्वं चेति भाव- । चक्षाते इति । चक्षते । थासः सेभावेस्को॑रिति कलोपेषढोरिति षस्य कत्वे षत्वे च कृते चक्षे चक्षाथे । ध्वमिस्को॑रिति कलोपे षस्य जश्त्वेन ङकारे चड्ढ्वे । चक्षे चक्ष्वहे चक्ष्महे । आद्र्धधातुके इत्यनन्तरम् "इत्यनुवर्तमाने" इति शेषः ।
द्विषश्च - दुह प्रपूरणे । प्रपूरणं — त्याजनम् । लङ्वदपीति । अदुग्ध । अदुग्धाः । अधुग्ध्वम् । अदुह्वाहि । दिह । उपचयो वृद्धिः । प्रणिदेग्धीति ।नेर्गदे॑ति णत्वम् । अलिक्षतेति ।शल इगुपधे॑ति क्सः । अलिक्षाताम् । अलिक्षन्त । अलीढेति ।लुग्वा दुहे॑ति वा लुक् । अलीढाः । अलीढ्वम् । चक्षिङ् । दर्शनेऽपीति ।विआआ रूपा अभिचष्टे शचीभि॑रित्यत्र दर्सनार्थत्वेन व्याख्यातत्वादिति भावः । युजर्थ इति ।अनुदात्तेतश्च हलादे॑रिति युच् । अन्तेदित इति ।इदितः॑ इति नुम्विधौगोः पादान्ते॑ इत्यस्मादन्त इत्यस् मादन्त इत्यनुवर्तत इति भावः । एवं च नुमागमशङ्काऽनुत्थानाय चक्षिङ इकारस्थानेऽकार एवासक्तुमुचितः । अनुदात्तेत्त्वेनैव तङि सिद्धे ङकारो व्यर्थ इत्याशङ्क्याह — ङकारस्त्विति । स्फायन्निति ।स्फायी वृद्धा॑वित्यनुदात्तेतो लटः शत्रादेशः । चष्टे इति ।स्को॑रिति कलोपः । ष्टुत्वम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!