`वेत्तेश्च` इति निर्देशेन लुग्विकरणस्यैवेह ग्रहणमिति दर्शयति। तस्यैव हि झिरनन्तरः सम्भवति,नान्येषां विदीनाम्। विकरणैव्र्यवधानात्। सत्ताविचारणार्थयोरात्मनेपदित्वात् झेरसम्भव एव, तस्माल्लुग्विकरणस्यैव ग्रहणं युक्तम्। `अभ्यस्तविदिग्रहणमसिजर्थम्` इति। यद्यभ्यस्तविदिग्रहणमसिजर्थम्, एवं सति लडादिसम्बन्धिनोऽपि झेः प्राप्नोतीत्यत आह--- `ङित इति चानुवत्र्तते` इति। तेन ङिल्लकारसम्बन्धिन एव झेर्जुस् भविष्यति, नान्येषामित्यभिप्राय-। `अबिभयुः, अजिह्ययुः` इति। `ञि भीभये` (धातुपाठः-1084), `ह्यी लज्जायाम्` (धातुपाठः-1085), `जुजि च`
7|3|83 इति गुणः, जुहोत्यादिभ्यः शपः श्लुः, `श्लौ`
6|1|10 इति द्विर्वचनम्। `अजागरुः` इति। अदादित्वाच्छपो लुक्; जागर्तेः `जक्षित्यादय षट्`
6|1|6 इत्यभ्यस्तसंज्ञा॥