॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|108
SK 2213
3|4|108
झेर्जुस्   🔊
SK 2213
सूत्रच्छेद:
झेः - षष्ठ्येकवचनम् , जुस् - प्रथमैकवचनम्
अनुवृत्ति:
लिङ:  [3|4|102] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लिङ: झे: जुस्
सूत्रार्थ:
लिङ्लकारस्य "झि" प्रत्ययस्य जुस्-आदेशः भवति ।
लिङ्-लकारस्य विषये परस्मैपदस्य प्रथमपुरुषबहुवचनस्य "झि" प्रत्ययस्य जुस्-आदेशः भवति । अनेकाल्शित्सर्वस्य 1|1|55 इत्यनेन अयम् सर्वादेशरूपेण आगच्छति । यथा -

1) पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् -
पठ् + लिङ् [विधिनिमन्त्रणा.. 3|3|161 इति लिङ्]
→ पठ् + शप् + लिङ् [कर्तरि शप् 3|1|68 इति शप्]
→ पठ् + शप् + झि [तिप्तस्.. 3|4|78 इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् "झि" प्रत्ययः ]
→ पठ् + अ + यासुट् + झि [यासुट्परस्मैपदेषूदात्तो ङिच्च 3|4|103 इति यासुट्-आगमः]
→ पठ् + अ + या + झ [लिङःसलोपोऽनन्त्यस्य 7|2|79 इति सकारलोपः]
→ पठ् + अ + इय् + झ [अतो येयः 3|4|105 इति या-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इय् + जुस् [झेर्जुस् 3|4|108 इति झि-प्रत्ययस्य जुस्-आदेशः]
→ पठ् + अ + इय् + उस् [चुटु 1|3|7 इति जकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ पठेयुः [विसर्गनिर्माणम्]

2) पठ् -धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
पठ् + लिङ् [आशिषि लिङ्लोटौ 3|3|173 इति लिङ्लकारः]
→ पठ् + झि [तिप्तस्.. 3|4|78 इत्यनेन परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः।]
→ पठ् + यासुट् + झि [किदाशिषि 3|4|104 इति यासुट्-आगमः]
→ पठ् + यास् + जुस् [झेर्जुस् 3|4|108 इति झि-प्रत्ययस्य जुस्-आदेशः]
→ पठ् + यास् + उस् [चुटु 1|3|7 इति जकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ पठ्यासुः [विसर्गनिर्माणम्]
One-line meaning in English
The "झि" प्रत्यय of लिङ्लकार is converted to "जुस्".
काशिकावृत्तिः
लिङः इत्येव। लिङादेशस्य झेर् जुसादेशो भवति। झो ऽन्तापवादः। पचेयुः। यजेयुः।
`पचेयुः` इति। `अतो येयः` 7|2|80 इतीयादेशः, `आद्गुणः` 6|1|84 , पररूपत्वम्॥
झोऽन्तापवाद इति । पूर्ववद् व्याख्येयम् । जागृयुरित्यादौ च पूर्ववदेव ठदभ्यस्तात्ऽ इत्यस्यापि बाधः । पचेयुरिति । ठतो येयःऽ इतीयादेशः, शपा सह ठाद्गुणःऽ ॥
सिद्धान्तकौमुदी
लिङो झेर्जुस् स्यात् ॥ ज इत् ॥
झेर्जुस् - अथ लिङो झेर्झोऽन्त इति प्राप्ते — झेर्जुस् । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झेरिति । अनेकाल्त्वात्सर्वादेशः । ज इदिति । जुसः स्थानिवत्त्वेन प्रत्ययत्वाच्चुटू इति जकार इत्संज्ञक इत्यर्थः । उसि शपिगुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेशं बाधित्वा पररूपप्रवृतिंत शङ्कितुमाह — उस्यप । एकः पूर्व्परयोरित्यधिकृतम् । आद्गुण इत्यस्मादादित्यनुवर्तते ।एङि पररूप॑मित्यस्मात्पररूपमिति । तदाह — अपदान्तादिति । उसीति । उसि योऽच् उकारस्तस्मिन् परत इत्यर्थः,इको यणची॑त्यतोऽचीत्यनुवृत्तेः । यद्यपि उसः कृत्स्नस्याऽ‌ऽकारस्य च उसित्येकादेशेऽपि रूपं तुल्यं, तथापि अकः सवर्णे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमत्राप्यनुवर्तत इति बोध्यम् । भिन्द्युरित्याद्युदाहरणम् । इति प्राप्त इति । भव या उसित्यत्राकारस्योकारस्य चाद्गुणं बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः । सति च पररूपे या इत्यस्याऽभावादिञ् न स्यादिति मन्यते — परत्वादिति । पररूपापेक्षया इयादेशः परो नित्यश्च, अकृते कृते च प्रवृत्तेः । कृते पररूपे य् इत्यस्यैकदेशविकृतन्यायेन , एकादेशस्य पूर्वान्तवत्त्वेन वा इयादेशस्य निर्बाधत्वात् । ततश्च पररूपं बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीना मन्यन्त इत्यर्थः । ननु पररूपमङ्गाधिकारस्थत्वाऽभावादङ्गानपेक्षत्वादन्तरङ्गम्, इयादेशस्तु आङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वाद्बहिरङ्गः । ततश्च परान्नित्यादपीयादेशात्पररूपस्यान्तरङ्गतया बलवत्त्वात्पररूपमेव इह स्यादिति शङ्कते — यद्यपीति । परिहरति — तथापिति । अतः -यास्-इयः-इति पदच्छेदः । यासिति लुप्तषष्ठीकं पदम् । ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः । ननुलिङः स लोपोऽनन्तयस्ये॑ति सकारस्य लोप इयादेशं बाधित्वा नित्यत्वात्प्राप्नोतीति, ततश्च यास् इत्यस्य इय् इति कथमित्यत आह — एवं चेति । यासिति सकारान्तस्य इयादेशविधिसामथ्र्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः । तथा च सकारावस्थायामवर्णात्परत्वाऽभावेन पररूपस्याऽप्रवृत्तिरिति भावः । ननु यदि "यास्-इयः" इति च्छेदस्तदा सकारस्य रुत्वे, भोभगो इति यत्वे,लोपः शाकल्यस्ये॑ति तस्य लोपे अतो — या इय इति स्यात् । आद्गुणे कर्तव्ये यलोपस्याऽसिद्धत्वादित्यत आह — सन्धिरार्ष इति ।आने मु॑गिति सूत्रे भाष्ये तुअतो या — इय इत्येव सूत्रपाठो लक्ष्यते । भवेरिति । सिपि, शपि गुणः । अवादेशः । इतश्चेति इकारलोपः । यासुडागमः । सकारस्य लोपः । इयादेशः । आद्गुणः यलोपः । रुत्वविसर्गौ । एवं थसस्तमादेशे थस्य तादेशे च , भवेतं भवेतेति च रूपम् । भवेयमिति । मिपि अमादेशः । शप् । गुणः । अवादेशः । यासुट् । सलोपः । इयादेशः । आद्गुणः । भवेवेति । वस् । शप् । गुणावादैशौ । "नित्यं ङित" इति सकारलोपः । यासुट् । सलोपः । इयादेशः । आद्गुणः । यलोपः । एवं मसि भवेमेति रूपम् । इति विधिलिङ्प्रक्रिया ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
लिङो झेर्जुस् स्यात्। भवेयुः। भवेः। भवेतम्। भवेत। भवेयम्। भवेव। भवेम॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!