॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|107
SK 2210
3|4|107
सुट् तिथोः   🔊
SK 2210
सूत्रच्छेद:
सुट् - प्रथमैकवचनम् , तिथोः - षष्ठीद्विवचनम्
अनुवृत्ति:
लिङ:  [3|4|102] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लिङ: तिथो: सुट्
सूत्रार्थ:
लिङ्लकारस्य प्रत्ययेषु उपस्थितस्य तकारस्य थकारस्य च सुट्-आगमः भवति ।
लिङ्लकारस्य परस्मैपदस्य आत्मनेपदस्य च प्रत्ययेषु यः तकारः / थकारः दृश्यते, तस्य अनेन सूत्रेण सुट्-आगमः भवति । अतः अस्य सूत्रस्य प्रसक्तिः - तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् एतेषां विषये अस्ति ।

परस्मैपदस्य प्रत्ययानां विषये यासुट् परस्मैपदेषूदात्तो ङिच्च 3|4|103 इत्यनेन यासुट्-आगमः अपि विधीयते । अतः परस्मैपदस्य तिप्/तस्/थस्/थ - एतेषां विषये द्वौ आगमौ दृश्येते - "यासुट्" तथा "सुट्" । एतयोः यासुट्-आगमः सुट्-आगमात् पूर्वम् आगच्छति ।

तथैव, आत्मनेपदस्य प्रत्ययानां विषये लिङस्सीयुट् 3|4|102 इत्यनेन सीयुट्-आगमः अपि विधीयते । अतः आत्मनेपदस्य त, आताम्, थास्, आथाम् एतेषां विषये अपि द्वौ आगमौ दृश्येते - "सीयुट्", तथा "सुट्" । एतयोः सीयुट्-आगमः सुट्-आगमात् पूर्वम् आगच्छति ।

एतत् स्मर्तव्यम् यत् अयम् आगमः "प्रत्ययस्य" आगमः नास्ति, केवलं प्रत्ययस्थतकारथकारयोः आगमः अस्ति । अतः टित्वात् आद्यन्तौ टकितौ 1|1|46 इत्यनेन अयम् तकारात् / थकारात् पूर्वम् आगच्छति, प्रत्ययात् पूर्वम् न ।

उदाहरणानि अधः दत्तानि सन्ति । प्रक्रियायाम् अत्र केवलं मुख्यानि सोपानानि दर्शितानि सन्ति, सम्पूर्णा प्रक्रिया न दर्श्यते इति ज्ञातव्यम् ।

(अ) विधिलिङ्लकारस्य परस्मैपदस्य उदाहरणानि -
1) पठ् + शप् + यासुट् + सुट् + तिप् [सुट् तिथोः 3|4|107 इति तकारस्य सुट्-आगमः]
→ पठ् + अ + यास् + स् + त् [इतश्च 3|4|100 इति इकारलोपः]
→ पठ् + अ + इय् + त् [लिङः सलोपोऽनन्त्यस्य 7|2|79 इति सकारलोपः । अतो येयः 7|2|80 इति या-इत्यस्य इय्-आदेशः]
→ पठेत् [लोपो व्योर्वलि 6|1|66 इति यकारलोपः, आद्गुणः 6|1|87 इति गुण-एकादेशः]
→ पठेत्

2) पठ् + शप् + यासुट् + सुट् + तस् / थस् / थ [सुट् तिथोः 3|4|107 इति तकारस्य सुट्-आगमः]
→ पठ् + अ + यास् + स् + ताम् / तम् / त [तस्थस्थमिपां तान्तन्तामः 3|4|101
→ पठ् + अ + इय् + ताम् / तम् / त [लिङः सलोपोऽनन्त्यस्य 7|2|79 इति सकारलोपः । अतो येयः 7|2|80 इति या-इत्यस्य इय्-आदेशः]
→ पठेताम् / पठेतम् / पठेत [लोपो व्योर्वलि 6|1|66 इति यकारलोपः, आद्गुणः 6|1|87 इति गुण-एकादेशः]

(आ) विधिलिङ्लकारस्य आत्मनेपदस्य उदाहरणानि -
1) लभ् + शप् + सीयुट् + सुट् + त [सुट् तिथोः 3|4|107 इति तकारस्य सुट्-आगमः]
→ लभ् + अ + ईय् + त [लिङः सलोपोऽनन्त्यस्य 7|2|79 इति सकारलोपः]
→ लभेत [लोपो व्योर्वलि 6|1|66 इति यकारलोपः, आद्गुणः 6|1|87 इति गुण-एकादेशः]
2) लभ् + शप् + सीयुट् + आताम् / आथाम्
→ लभ् + अ + सीय् + आ स् ताम् / आ स् थाम् [सुट् तिथोः 3|4|107 इति तकारथकारयोः सुट्-आगमः । अयम् आगमः प्रत्ययात् पूर्वम् न आगच्छति, अपितु तकारात् / थकारात् पूर्वम् आगच्छति ।]
→ लभ् + अ + ईय् + आताम् / आथाम् [लिङः सलोपोऽनन्त्यस्य 7|2|79 इति सकारलोपः]
→ लभेयाताम् / लभेयाथाम् [ आद्गुणः 6|1|87 इति गुण-एकादेशः]
3) लभ् + शप् + सीयुट् + सुट् + थास् [सुट् तिथोः 3|4|107 इति थकारस्य सुट्-आगमः]
→ लभ् + अ + ईय् + थास् [लिङः सलोपोऽनन्त्यस्य 7|2|79 इति सकारलोपः]
→ लभेथाः [लोपो व्योर्वलि 6|1|66 इति यकारलोपः, आद्गुणः 6|1|87 इति गुण-एकादेशः, विसर्गनिर्माणम्]

(इ) आशीर्लिङ्लकारस्य परस्मैपदस्य उदाहरणानि -
1) पठ् + यासुट् + सुट् + तिप् [सुट् तिथोः 3|4|107 इति तकारस्य सुट्-आगमः]
→ पठ् + यास् + स् + त् [इतश्च 3|4|100 इति इकारलोपः]
→ पठ्यात् [द्वयोः सकारयोः स्कोः संयोगाद्योरन्ते च 8|2|29 इति लोपः]
2) पठ् + यासुट् + सुट् + तस् / थस् / थ [सुट् तिथोः 3|4|107 इति तकारस्य सुट्-आगमः]
→ पठ् + यास् + स् + ताम् / तम् / त [तस्थस्थमिपां तान्तन्तामः 3|4|101
→ पठ्यास्ताम् / पठ्यास्तम् / पठ्यास्त [झलो झलि 8|2|26 इति सकारलोपः]

(ई) आशीर्लिङ्लकारस्य आत्मनेपदस्य उदाहरणानि -
1) लभ् + सीयुट् + सुट् + त [सुट् तिथोः 3|4|107 इति तकारस्य सुट्-आगमः]
→ लभ् + सी + स् + त [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ लप्सीष्ट [आदेशप्रत्यययोः 8|3|59 इति सकारस्य षकारः । ष्टुना ष्टुः 8|4|41 इति तकारस्य टकारः । खरि च 8|4|55 इति भकारस्य पकारः]
2) लभ् + सीयुट् + आताम् / आथाम्
→ लभ् + सीय् + आ स् ताम् / आ स् थाम् [सुट् तिथोः 3|4|107 इति तकारथकारयोः सुट्-आगमः । अयम् आगमः प्रत्ययात् पूर्वम् न आगच्छति, अपितु तकारात् / थकारात् पूर्वम् आगच्छति ।]
→ लप्सीयास्ताम् / लप्सीयास्थाम् खरि च 8|4|55 इति भकारस्य पकारः]
3) लभ् + सीयुट् + सुट् + थास् [सुट् तिथोः 3|4|107 इति तकारस्य सुट्-आगमः]
→ लभ् + सी + स् + थास् [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ लप्सीष्ठाः [आदेशप्रत्यययोः 8|3|59 इति सकारस्य षकारः । ष्टुना ष्टुः 8|4|41 इति थकारस्य ठकारः । खरि च 8|4|55 इति भकारस्य पकारः]
One-line meaning in English
In case of लिङ्लकार, the तकार and थकार present in the प्रत्यया: get the "सुट्" आगम.
काशिकावृत्तिः
लिङः इत्येव। लिङ्सम्भन्धिनोः तकारथकारयोः सुडागमो भवति। तकरथकारावागमिनौ, लिङ् तद्विशेषणम्। सीयुटस्तु लिङेवागमी। तेन भिन्नविषयत्वात् सुटा बाधनं न भवति। तकारे इकर उच्चारणार्थः। कृषीष्त। कृषीयास्ताम्। कृषीष्ठाः। कृषीयास्थाम्।
अथ तकारथकाराब्यां लिङ विशिष्यते-- तकारथकायोर्यो लिङ स्थानीति? तेन वा तौ लिङसम्बन्धिनोस्तकारथकारयोरिति? तत्र यद्याद्यः पक्ष आश्रीयेत, तदा विशेष्यत्वाल्लिङः प्राधान्यम्। ततश्च प्रधाने कार्यसम्प्रत्ययाल्लिङ एव सुडागमः स्यात्। एवञ्च परत्वाद्विशेषविहित्वाच्च सुटा सीयड् बाध्येत। तस्माद्दुष्टोऽयं पक्ष इति द्वितीयं पक्षमाश्रित्याह-- `लिङ्सम्बन्धिनोः` इति। यदुक्तम्-- तकारथकारयोः सुडागमो भवतीति, तस्यार्थ स्पष्टीकर्त्तुमाह-- `तकारथकारावागमिनौ` इति। विशेष्यत्वेन प्राधान्यादिति भावः। यदुक्तञ्च-- लिङसम्बन्धिनोरिति, तस्यार्थ स्पष्टीकर्त्तुमाह-- `लिङ् तद्विशेषणम्` इति। `सीयुटस्तु लिङेवागमी` इति। तकारथकारावेवकारेण व्यवच्छिद्येते। `तेन` इत्यादि। यत एवं तकारथकारावागमिनौ सुटः, सीयुटस्तु लिङेव, तेन भिन्नदेशत्वात् सुटा सीयुड् न बाध्यते। न च भिन्नदेशयोर्बाध्यबाधकभावो युक्तः; विरोधाभावात्। `कृषीष्ट, कृषीष्ठाः` इति। तथासोरेकवचनयो रूपे। `कृषीयास्ताम्, कृषीयास्थाम्` इति। आतामाथामोः। सर्वत्राशिषि लिङ, `उश्च` 1|2|32 इति कित्त्वाद्गुणाभावः॥
ठ्तिथोःऽ इति सप्तमी वा स्यात् ? षष्ठी वा ? आद्ये पक्षे ठ्यस्मिन्विधिस्तदादावल्ग्रहणेऽ इति तकारथकारोदेर्लिङदेशस्य सुटा भाव्यमिति कृषीष्ट कृषीष्ठा इत्यत्रैव स्यात्, कृषीयास्तां कृषीयास्थामित्यत्र न स्यात्; सुटा च सीयुटो बाधः स्यात्, उभयोरपि लिङादेशभक्तत्वादिति द्वितीयं पक्षमाश्रित्याह---लिङ्सम्बन्धिनोस्तकारथकारयोरिति । एतदेव स्पष्टयति---तकारथकाराविति । लिङ् तद्विशेषणमिति । लिङ्शब्देन तदादेशा उच्यन्ते । एवं लिङ्संबन्धिनोरित्यत्रापि कृषीष्टेति । विध्यादौ लिङ् सार्विधातुकत्वात् ठ्लिङ्ः सलोपःऽ इति लोपेन सुटः श्रवणाभावादाशिषु लिणेóवोदाहृतः ॥
सिद्धान्तकौमुदी
लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ॥
सुट् तिथोः - तथा च प्रकृते भव यास् त इति स्थिते — सुट्तिथोः । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तिश्च थ् चेति द्वन्द्वात्षष्ठीद्विवनचम् । इकार उच्चारणार्थः । तदाह — लिङस्तकारेति । सुटि टकार इत्, उकार उच्चारणार्थः । भव यास् स् त् इति स्थितम् । नन्विह परेण सुटा यासुटः कथं न बाधः । भवेयुरित्यादौ परस्मैपदेषु यासुड्विधेश्चरितार्थत्वादित्याशङ्क्य निराकरोति — सुटा यासुण्न बाध्यत इति । तत्कुतः इत्यत आह — लिङो यासुडिति । लिङः सीयुट् यासुडागमश्च, लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च यौगपद्याऽसम्भवाऽभावाद्विप्रतिषेधाऽभावान्न पेरणापि सुटा यासुटो बाध इति भावः ।
सुट् तिथोः - तकारादिकार उच्चारणार्थः ।
लघुसिद्धान्तकौमुदी
लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात्सलोपो न। एधिषीष्ट। एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्। एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!