॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|103
SK 2209
3|4|103
यासुट् परस्मैपदेषूदात्तो ङिच्च   🔊
SK 2209
सूत्रच्छेद:
यासुट् - प्रथमैकवचनम् , परस्मैपदेषु - सप्तमीबहुवचनम् , उदात्तः - प्रथमैकवचनम् , ङित् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
लिङः  [3|4|102] - षष्ठ्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
लिङ: परस्मैपदेषु यासुट् उदात्त: ङित् च
सूत्रार्थ:
लिङ्लकारस्य परस्मैपदस्य प्रत्ययानाम् उदात्तः ङित् यासुट् आगमः भवति ।
लिङ्लकारस्य विषये परस्मैपदस्य सर्वेषाम् नव-प्रत्ययानाम् लिङस्सीयुट् 3|4|102 इत्यनेन सीयुट्-आगमे प्राप्ते अपवादत्वेन अनेन सूत्रेण "यासुट्" इति आगमः विधीयते । टित्-त्वात् अयम् आगमः आद्यन्तौ टकितौ 1|1|46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । "यासुट्" इत्यत्र टकारस्य इत्संज्ञा लोपश्च भवति, उकारः उच्चारणार्थः अस्ति । अतः "यास्" इत्येव अवशिष्यते ।

अयम् यासुट्-आगमः वर्तमानसूत्रेण उदात्तः तथा ङित् इति विधीयते । किम् प्रयोजनम् अस्य ङित्वस्य ? अस्मिन् आगमे परे क्ङिति च 1|1|5 इत्यनेन अङ्गस्य गुणवृद्ध्योः निषेधः भवेत् इति स्पष्टीकर्तुम् अयम् आगमः "ङित्" अस्ति इति निर्दिष्टम् अस्ति । (परन्तु आशीर्लिङ्लकारस्य विषये किदाशिषि 3|4|104 इत्यनेन एतत् ङित्वं बाधित्वा अयम् आगमः कित्-भवति - इति अपि स्मर्तव्यम्) ।

1. भू-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनम् -
भू + लिङ् [आशिषि लिङ्लोटौ 3|3|173 इति लिङ्लकारः]
→ भू + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः । लिङ्गाशिषि 3|4|116 इत्यनेन अयम् आर्धधातुकसंज्ञकः भवति]
→ भू + यासुट् + ति [किदाशिषि 3|4|104 इत्यनेन उदात्तः कित् यासुट् आगमः । अतः सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन उकारस्य गुणे प्राप्ते आगमस्य कित्त्वात् क्ङिति च 1|1|5 इति गुणनिषेधः]
→ भू + यास् + सुट् + ति [सुट् तिथोः 3|4|107 इति सुट्-आगमः]
→ भूयास्स्त् [इतश्च 3|4|100 इति इकारलोपः]
भूयास्त् [स्कोः संयोगाद्योरन्ते च 8|2|29 इत्यनेन "स्स्" इत्यस्य प्रथमसकारस्य तकारे परे (झलि परे) लोपः]
→ भूयात् [स्कोः संयोगाद्योरन्ते च 8|2|29 इत्यनेन स्त्" इत्यस्य सकारस्य पदान्ते लोपः]

2. भू-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् -
भू + लिङ् [विधिनिमन्त्रणा.. 3|3|161 इति लिङ्लकारः]
→ भू + तिप् [तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः । तिङ्शित् सार्वधातुकम् 3|4|113 इत्यनेन अयम् सार्वधातुकसंज्ञः भवति]
→ भू + शप् + ति [कर्तरि शप् 3|1|68 इति सार्वधातुकप्रत्यये परे औत्सर्गिकं गणविकरणम् शप्]
→ भो + अ + ति [सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]
→ भो + अ + यासुट् + ति [यासुट् परस्मैपदेषूदात्तो ङिच्च 3|4|103 इति यासुट्-आगमः ]
→ भो + अ + यास् + सुट् + ति [सुट् तिथोः 3|4|107 इति सुट्-आगमः]
→ भो + अ + या + ति [लिङः सलोपोऽनन्त्यस्य 7|2|79 इति द्वयोः सकारयोः लोपः]
→ भो + अ + इय् + ति [अतो येयः 7|2|80 इति "या" इत्यस्य इय्-आदेशः]
→ भो + अ + इय् + त् [इतश्च 3|4|100 इति इकारलोपः]
→ भो + अ + इत् [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ भव + इत् [एचोऽयवायावः 6|1|78 इति अवादेशः]
→ भवेत् [आद्गुणः 6|1|87 इति गुण-एकादेशः]

विशेषः - अस्मिन् सूत्रे यासुट्-आगमः "उदात्तः" पाठितः अस्ति । अस्मिन् आगमे "आ" इति एकः एव स्वरः विद्यते, अतः अस्य स्वरस्य उदात्तत्वम् अनेन विधीयते । परन्तु; वस्तुतः सर्वे प्रत्ययाः आद्युदात्तश्च 3|1|3 इत्यनेन मूलरूपेणैव आद्युदात्ताः सन्ति । तर्हि "यासुट्" इत्यस्य पुनः उदात्तविधानस्य किम् प्रयोजनम् - इति प्रश्नः उपतिष्ठति । अस्मिन् विषये भाष्यकारः वदति - "एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति - इति" । इत्युक्ते, अत्र "उदात्त"ग्रहणम् अस्य ज्ञापकम् अस्ति यत् आगमाः औत्सर्गिकरूपेण अनुदात्ताः भवन्ति ।
One-line meaning in English
The परस्मैपदस्य प्रत्यया: of लिङ्लकार get a "यासुट्" आगम which is both - उदात्त and ङित्.
काशिकावृत्तिः
लिङः इत्येव। परसमैपदविषयसय् लिङो यासुडागमो भवति, स च उदात्तो भवति ङिच् च। सीयुटो ऽपवादः। आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां सम्भवाद्, न आगमस्य। कुर्यात्, कुर्याताम्, कुर्युः। स्थनिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापनार्थम्, लकाराश्रयङित्त्वम् आदेशानां न भवति इति। अचिनवम्। अकरवम्।
`परस्मैपदविषयस्य` इति। एतेन `परस्मैपदेषु` इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयति, न परसप्तमीत्वम्। परसप्तमीत्वं तु न सम्भवति; लिङः परस्मैपदानामसम्भवात्। `आगमानुदात्तत्वे प्राप्ते` इति। कुतः पुनरागमानुदात्तत्वं भवतीति निश्चितम्? अत एव यासुट उदात्तवचनात्। यदि ह्रागमा अनुदात्ता न स्युस्तदोदात्तवचनमनर्थकं स्यात्; प्रत्ययभक्तत्वेनैव यासुटः प्रत्ययस्वरेणैवाद्युदात्तस्य सिद्धत्वात्। ननु यानि पिद्वचनानि तदर्थमुदात्तवचनं स्यात्, तेषां ह्रनुदात्तत्वात् तद्भक्तो यासुडनुदात्त एव स्यात्, यद्युदात्त इति नोच्येत? नैतदस्ति;यद्येतत् प्योजनमभिमतं स्यात्, अपिदित्येवं ब्राऊयात्। तदैतदुदात्तवचनमागमानुदात्तस्य ज्ञापकमेव। `तत्र ङित्कार्याणामसम्भवात्` इति। न सर्वेषामित्यभिप्रायः। कुत एतत्? यावता `उष्यात्` इत्यत्र ग्रहिज्यादिसूत्रेण 6|1|16 यत्सम्प्रसारणं तत् यासुटयि ङिति सम्भवति। ङिन्मात्निबन्धनं हि सम्प्रसारणम्; विशेषानुपादानात्। तत्र यदि यासुटो ङित्त्वं विधीयेत तदा ग्रहेः सम्प्रसारणस्यैवेकस्यानुग्रहः स्यात्। लिङस्तु ङित्वे विधाने सर्वस्य ङित्कार्यस्य गुणवृद्धिप्रतिषेधादेवानुग्रहो भवतीति लिङ एव ङित्त्वं विधीयते। `ङित्कार्याणाम्` इति। ङिति कार्याणामित्यर्थः। `कुर्यात्` इति। विकरणाश्रयो धातोर्गुणः, `अत उत् सार्वधातुके` 6|4|110 इत्युत्वम्, `ये च` 6|4|109 इत्युकारलोपः। `कुर्युः` इति। `उस्यपदान्तात्` 6|1|93 इति पररूपत्वम्। `अचिनवम्` इति। मिपोऽम्। अत्र ङित्त्वाभावाद्गुणः। एतच्च ज्ञापकस्य प्रयोजनम्॥
परस्मैपदविषयस्येति । लिङ्ः परेषा परस्मैपदानामसम्भवात् । सीयुटोऽपवाद इति । नाप्राप्ते तस्मिन्नारम्भात्, तेन यासुटि कृते तस्य तिङ्भक्तत्वातदादेः सीयुट्प्रसङ्ग इति न चोदनीयम् । सत्यपि हि सम्भवे सामान्यविधेर्वशेषविधिर्बाधकः । कथं तर्हि कृषीष्ट इत्यादिषु सुटि कृते सीयुड् भवति, ननु तत्रापि सुटा सींयुड् बाधनीयः ? अत्र परिहारं सुड्विधौ वृत्तिकारः स्वयमेव वक्ष्यति । आगमत्वादनुदातत्वै प्राप्त इति । अत एव यासुडुदातवचनाद्विज्ञायते---आगमा अनुदाता भवन्तीति, अन्यथा यासुटः प्रत्ययभक्तत्वात्प्रत्ययस्वरेणैव सिद्धमुदातत्वम् । नैतदस्ति ज्ञापकम्, यानि पिद्वचनानि तदर्थमेतत्स्यात् । यद्येतावत्प्रयोजनम्, अपिदित्येव ब्रूयात् ! तदेतदुदातवचनं ज्ञापकमेव---आगमा अनुदाता भवन्तीति । तत्र तत्कार्याणां सम्भवादिति । ग्रहिज्यादिसूत्रेऽपि धातोः स्वरूपग्रहणे तत्प्रत्ययो कार्यविज्ञानात्प्रत्ययस्यैव ग्रहणम् । कुर्यादिति । विकरणाश्रयो धातोर्गुणः, ठत उत्सार्वधातुकेऽ इत्युत्वम्, ठ्ये चऽ इत्युकारलोपः । कुर्युरिति । झेर्जुस्, ठ्लिङ्ः सलोपोऽनन्त्यस्यऽ ठुस्यपदान्तात्ऽ । स्थानिविद्भावादेवेति । ठ्सार्वधातुकमपित्ऽ इत्यतिदेशादिति नोक्तम् ; पिदर्थत्वान् चनम्य । यासुटो चनमिति । यासुडादेर्लिङे चनमित्यर्थः । इदानीमेव ह्युक्तम्--ङ्त्विं तु लिङ् एव विधीयते इति ? एतच्च ज्ञापनम्---ठ्पिच्च ङ्न्नि भवतिऽ इत्येतदनाश्रित्योच्यते । तदाक्षयणे तु स्थानिवद्भावेन प्राप्तं ङ्त्विमौपदेशिकेन पित्वेन बाध्यते इति प्राप्त्यर्थमेव चनं स्यात् ॥
सिद्धान्तकौमुदी
लिङः परस्मैपदानां यासुडागमः स्यात्स योदात्तो ङिच् । ङित्त्वोक्तेर्ज्ञायते क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादेशस्य शानचः शित्त्वमपीह लिङ्गम् ॥
यासुट् परस्मैपदेषूदात्तो ङिच्च - अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणेऽवादेशे भव त् इति स्थिते — यासुट् पर ।लिङ सीयु॑डित्यतो लिङ इत्यनुवर्तते । षष्ठर्थे सप्तमी । तदाह — लिङः परस्मैपदानामिति । सीयुटोऽपवादः । यासुटि टकार इत्, उकार उच्चारणार्थः । टित्त्वात्तिबादीनामाद्यवयवः । अवयवे ङित्त्वं चआनर्थक्यात्तदङ्गेषु॑ इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति । "आगमा अनुदात्ता" इति यासुटोऽनुदात्तत्वे प्राप्ते उदात्तवचनम् । इदमेव वचनम् "आगमा अनुदात्ता" इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम् । ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः, ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटो ङित्तवविधिर्व्यर्थः । न च स्थानिभूतलिङो ङकारस्याऽल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्वस्यन ल्यपी॑ति निषेधेन लिङ्गेनाऽनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनादित्यत आह — ङित्त्वोक्तेरिति । क्वचदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति । यासुटो ङित्त्वेन ज्ञायत इत्यन्वयः । तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्त्वमिति भावः । ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङीबभावः । अन्यथा लृडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान्ङीप् स्यात् । ननुक्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध॑ इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाऽभावे सत्यपि यासुटो ङित्त्वस्य तिप्सिप्मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्, नह लिङादेशत्वेऽपि तिपसिप्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् ।हलश्श्नश्शानज्झा॑विति सूत्रभाष्येङिच्च पिन्न पिच्च ङिन्ने॑ति प्रपञ्चितत्वादित्यस्वरसादाह — श्नः शानचः शित्तवमपीह लिङ्गमिति । इह — अनुबन्धकार्येऽपि क्वचदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे, श्नः — श्नाप्रत्ययस्य, यः शानजादेशो हलः श्नश्शानज्झाविति विहितः, तस्य शित्त्वमपि लिङ्गं — ज्ञापकमित्यर्थः । अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थं स्यादिति भावः । अत्र च यद्वक्तव्यं तत्स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् ।
यासुट् परस्मैपदेषूदात्तो ङिच्च - क्वचिदिति । ज्ञापनफलं तु वक्ष्यमाणेत्यादौ टिदुगिल्लक्षणङीबभाव इतिटिड्ढे॑ति सूत्र एवोक्तम् ।रुया॑दित्यादौउतो वृद्धिर्लुकि हली॑ति न प्रवर्तते, भाष्येपिच्च ङिन्न, ङिच्च पिन्ने॑ति व्याख्यानाद्विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधादित्यदादौ वक्ष्यमाणतया यासुतटो ङित्त्वं न ज्ञापकमित्यपरितोषादाह — श्नः शानचः शित्त्वमिति॥
लघुसिद्धान्तकौमुदी
लिङः परस्मैपदानां यासुडागमो ङिच्च॥
महाभाष्यम्
यासुट् परस्मैपदेषूदात्तो ङिच्च (1264) (615 आगमविधिसूत्रम्।। 3 । 4 । 1 । आदृ 27) (आक्षेपभाष्यम्) किमर्थं यासुटो ङित्त्वमुच्यते। (5085 आक्षेपपरिहारवार्तिकम्।। 1 ।।) - यासुटो ङिद्वचनं पिदर्थम्- (भाष्यम्) (यासुटो ङित्त्वं क्रियते। किं प्रयोजनम्?। पिदर्थम्) पिति वचनानि प्रयोजयन्ति।। (आक्षेपभाष्यम्) अथ किमर्थमुदात्तवचनं क्रियते। (5086 परिहारवार्तिकम्।। 2 ।।) - उदात्तवचनं च - (भाष्यम्) (उदात्त इति उच्यते। किं प्रयोजनम्।) किम्। पिदर्थमेव। (5087 परिहारान्तरवार्तिकम्।। 3 ।।) - आगमानुदात्तार्थे वा- (भाष्यम्) अथ वा एतज्ज्ञापयत्याचार्यः ‐ ‐ आगमा अनुदात्ता भवन्तीति।। (ज्ञापकत्वानुपपत्तिभाष्यम्) असत्यन्यस्मिन्प्रयोजने ज्ञापकं भवति। उक्तं चैतद् ‐ -यासुटो ङिद्वचनं पिदर्थमुदात्तवचनं चेति।। (ज्ञापकत्वानुपपत्तिभाष्यम्) शक्यमनेन वक्तुम्। यासुट् परस्मैपदेषु भवति, अपिच्च लिङ् भवतीति। सोयऽमेवं लघीयसा न्यासेन सिद्धे सति यद्गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्यः आगमा अनुदात्ता भवन्ति इति।। यासुट् परस्मैपदेषूदात्तो ङिच्च।। 103 ।।