Page loading... Please wait.
3|4|101 - तस्थस्थमिपां तांतंतामः
॥ तस्मै पाणिनये नमः ॥
3|4|101
SK 2199
तस्थस्थमिपां तांतंतामः   🔊
सूत्रच्छेदः
तस्-थस्-थ-मिपाम् (षष्ठीबहुवचनम्) , ताम्-तम्-त-अमः (प्रथमाबहुवचनम्)
अनुवृत्तिः
ङितः  3|4|99 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 लस्य  3|4|77
सम्पूर्णसूत्रम्
ङितः तस्-थस्-थ-मिपाम् ताम्-तम्-त-अमः
सूत्रार्थः
ङित्-लकाराणाम् विषये तस्, थस्, थ, मिप् - एतेषां चतुर्णाम् प्रत्ययानाम् क्रमेण ताम्, तम्, त, अमः - एते आदेशाः भवन्ति ।
तस्, थस्, थ, तथा मिप् एते चत्वारः परस्मैपदस्य प्रत्ययाः सन्ति । ङित्-लकाराणाम् विषये एतेषां क्रमेण ताम्, तम्, त, तथा अम् - एते आदेशाः भवन्ति । अनेकाल्शित्सर्वस्य 1|1|55 इत्यनेन एते सर्वे सर्वादेशरूपेण आगच्छन्ति । क्रमेण पश्यामः -

1. प्रथमपुरुष-द्विवचनस्य तस्-प्रत्ययस्य ताम्-आदेशः भवति ।
यथा, पठ् धातोः विधिलिङ्लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -
पठ् + लिङ् [विधिनिमन्त्रणा... 3|3|161 इति लिङ्]
→ पठ् + तस् [तिप्तस्.. 3|4|78 इति तस्]
→ पठ् + शप् + तस् [कर्तरि शप् 3|1|68 इति शप्]
→ पठ् + अ + ताम् [तस्थस्थमिपां तांतंतामः 3|4|101 इति तस्-प्रत्ययस्य ताम्-आदेशः]
→ पठ् + अ + यासुट् + ताम् [यासुट् परस्मैपदेषूदात्तो ङिच्च 3|4|103 इति यासुट्-आगमः]
→ पठ् + अ + यास् + सुट् + ताम् [सुट् तिथोः 3|4|107 इति सुट्-आगमः]
→ पठ् + अ + या + ताम् [लिङः सलोपोऽनन्त्यस्य 7|2|79 इति सकारयोः लोपः]
→ पठ् + अ + इय् + ताम् [अतो येयः 7|2|80 इति या-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इ + ताम् [लोपो व्योर्वलि 6|1|66 इति यकारलोपः]
→ पठेताम् [आद्गगुणः 6|1|87 इति गुण-एकादेशः]

2. मध्यमपुरुष-द्विवचनस्य थस्-प्रत्ययस्य तम्-आदेशः भवति ।
यथा, पठ्-धातोः लोट्लकारस्य मध्यमपुरुषद्विवचस्य प्रक्रिया इयम् -
पठ् + लोट् [लोट् च 3|3|162 इति लोट्]
→ पठ् + थस् [तिप्तस्... 3|4|78 इति थस्]
→ पठ् + शप् + तस् [कर्तरि शप् 3|1|68 इति शप्]
→ पठ् + अ + तम् [ लोटो लङ्वत् 3|4|85 इति लोट्लकारः लङ्वत् भवति । अतः ङित्-लकारविशिष्टं कार्यम् अपि अत्र भवितुम् अर्हति । अतएव तस्थस्थमिपां तांतंतामः 3|4|101 इति थस्-प्रत्ययस्य तम्-आदेशः भवति]
→ पठतम् ।

3. मध्यमपुरुष-बहुवचनस्य थ-प्रत्ययस्य त-आदेशः भवति ।
यथा, पठ्-धातोः लङ्-लकारस्य मध्यमपुरुष-बहुवचनस्य प्रक्रिया इयम् -
पठ् + लङ् [अनद्यतने लङ् 3|2|111 इति लङ्]
→ अट् + पठ् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अट् + पठ् + थ [तिप्तस्... 3|4|78 इति थ]
→ अट् + पठ् + शप् + थ [कर्तरि शप् 3|1|68 इति शप्]
→ अ + पठ् + अ + त [तस्थस्थमिपां तांतंतामः 3|4|101 इति थ-प्रत्ययस्य त-आदेशः]
→ अपठत

4. उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य अम्-आदेशः भवति ।
यथा, पठ्-धातोः लृङ्-लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रिया इयम् -
पठ् + लृङ् [लिङ्‌निमित्ते लृङ् क्रियातिपत्तौ 3|3|139 इति लृङ्]
→ पठ् + स्य + ल् [स्यतासी लृलुटोः 3|1|33 इति स्य-विकरणप्रत्ययः]
→ अट् + पठ् + स्य + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अट् + पठ् + इट् + स्य + ल् [आर्धधातुकस्य इड्वलादेः 7|2|35 इति इडागमः]
→ अट् + पठ् + इट् + स्य + मिप् [तिप्तस्... 3|4|78 इति मिप्]
→ अ + पठ् + इट् + स्य + अम् [तस्थस्थमिपां तांतंतामः 3|4|101 इति मिप्-प्रत्ययस्य अम्-आदेशः]
→ अपठिष्यम् [आदेशप्रत्यययोः 8|3|59 इति षत्वम्]

ज्ञातव्यम् - अस्मिन् सूत्रे चत्वारः स्थानिनः, चत्वारश्च आदेशाः दीयन्ते । अतः यथासंख्यमनुदेशः समानाम् 1|3|10 इत्यनेन एते आदेशाः यथासंख्यम् भवन्ति ।
One-line meaning in English
In case of ङित्-लकारs, तस्, थस्, थ and मिप् are converted respectively to ताम्, तम्, त and अम्.
काशिकावृत्तिः
ङितः इत्येव। ङिल्लकारसम्बन्धिनां चतुर्णाम् यथासङ्ख्यं तामादयः अदेशा भवन्ति। अपचताम्। अपचतम्। अपचत। अपचम्। अपाक्ताम्। अपाक्तम्। अपाक्त। अपाक्षम्।
`अपाक्ताम्` इति। पूर्ववद्वृद्धिः, `झलो झलि` 8|2|26 इति सिचो लोपः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥
तस्थस्थमिपां तांतंतामः - तस्थस्थमिपां । तस्,थस्, थ, मिप्, — एषां द्वन्द्वात्षष्ठीबहुवचनम् । ताम तम् त आम् एषां द्वन्द्वात्प्रथमाबहुवचनम् । "नित्यं ङित" इत्यस्मान्ङित इत्यनुव्रतते । तदाह — ङितश्चतुर्णामिति । ङितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति । यथासङ्ख्यसूत्रलभ्यमिदम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
ङितश्चतुर्णां तामादयः क्रमात्स्युः। भवताम्। भवन्तु॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.