॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|4|100
SK 2207
3|4|100
इतश्च   🔊
SK 2207
सूत्रच्छेद:
इतः - षष्ठ्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
ङित:  [3|4|99] - षष्ठ्येकवचनम् , लोप:  [3|4|97] - प्रथमैकवचनम् , परस्मैपदेषु  [3|4|97] - सप्तम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , लस्य  [3|4|77]
सम्पूर्णसूत्रम्
ङित: परस्मैपदेषु इत: लोप:
सूत्रार्थ:
ङित्-लकाराणाम् विषये परस्मैपदस्य प्रत्यये विद्यमानस्य इकारस्य लोपः भवति ।
ङित्-लकारस्य परस्मैपदस्य प्रत्ययेषु विद्यमानस्य इकारस्य अनेन सूत्रेण लोपः भवति । परस्मैपदस्य तिप्, झि तथा सिप् - एतेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । मिप्-प्रत्ययस्य ङित्-लकारेषु तस्थस्थमिपां तांतंतामः 3|4|101 इत्यनेन अम्-आदेशः भवति, अतः मिप्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -

1. पठ्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -
पठ् + लुङ् [लुङ् 3|2|110 इति लुङ्]
→ पठ् + च्लि + ल् [च्लि लुङि 3|1|43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् "च्लि"]
→ पठ् + सिच् + ल् [च्लेः सिच् 3|1|44 इति च्ले-इत्यस्य सिच्-आदेशः ।]
→ अट् पठ् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अट्-आगमः]
→ अ पठ् + स् + तिप् [तिप्तस्.. 3|4|78 इति तिप्]
→ अ पठ् + स् + त् [इतश्च 3|4|100 इति "ति" इत्यस्य इकारस्य लोपः]
→ अ पठ् + इट् स् + त् [आर्द्धधातकस्य इड्वलादेः 7|2|35 इति इडागमः]
→ अ पठ् + इ स् + ईट् त् [अस्तिसिचोऽपृक्ते 7|3|96 इति ईट्-आगमः]
→ अ पठ् / पाठ् + इ स् + ई त् [अतो हलादेर्लघोः 7|2|7 इति वैकल्पिकवृद्धिः]
→ अ पठ्/पाठ् + इ + ई + त् [इट ईटि 8|2|28 इति सकारलोपः]
→ अपठीत् / अपाठीत् [ सिज्लोप एकादेशे सिद्धो वाच्यः अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]

2. पठ्-धातोः लङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् एतादृशं सिद्ध्यति -
पठ् + लङ् [अनद्यतने लङ् 3|2|111 इति लङ्]
→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अट्-आगमः]
→ अ + पठ् + झि [तिप्तस्.. 3|4|78 इति तिप्]
→ अ + पठ् + शप् + झि [कर्तरि शप् 3|1|68 इति शप्]
→ अ + पठ् + शप् + अन्ति [झोऽन्तः 7|1|3 इति झकारस्य अन्त्-आदेशः]
→ अ + पठ् + अ + अन्त् [इतश्च 3|4|100 इति "अन्ति" प्रत्ययस्य इकारस्य लोपः]
→ अपठन्त् [अतो गुणे 6|1|97 इति गुण-एकादेशः]
→ अपठन् [संयोगान्तस्य लोपः 8|2|23 इति तकारलोपः]

3. पठ्-धातोः लृङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति -
पठ् + लृङ् [लिङ्‌निमित्ते लृङ् क्रियातिपत्तौ 3|3|139 इति लृङ्]
→ पठ् + स्य + लृङ् [स्यतासी लृलुटोः 3|1|33 इति स्य-विकरणप्रत्ययः]
→ अट् + पठ् + स्य + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अट्-आगमः]
→ अ + पठ् + इट् + स्य + लङ् [आर्धधातुकस्य इड्वलादेः 7|2|35 इति इडागमः]
→ अ + पठ् + इट् + स्य + सिप् [तिप्तस्.. 3|4|78 इति सिप्]
→ अ + पठ् + इट् + स्य + स् [इतश्च 3|4|100 इति "सि" प्रत्ययस्य इकारस्य लोपः]
→ अपठिस्यरुँ [ससजुषोः रुँः 8|2|66 इति सकारस्य रुँत्वम्]
→ अपठिस्यः [खरवसानयोर्विसर्जनीयः 8|3|15 इति रेफस्य विसर्गः]
→ अपठिष्यः [आदेशप्रत्यययोः 8|3|59 इति षत्वम्]

ज्ञातव्यम् - यद्यपि लोटो लङ्वत् 3|4|85 इत्यनेन लोट्-लकारस्य प्रक्रिया लङ्लकारवत् भवति, तथापि लोट्-लकारस्य विषये एरुः 3|4|86 इत्यनेन इकारस्य उकारादेशः भवति । अतः लोट्लकारस्य विषये इतश्च 3|4|100 इत्यस्य प्रसक्तिः नास्ति ।
One-line meaning in English
In case of ङित् लकारs, The इकार present in the परस्मैपद-प्रत्ययs is removed.
काशिकावृत्तिः
ङितः इत्येव। ङिल्लकारसम्बन्धिन इकारस्य नित्यं लोपो भवति। अपचत्। अपाक्षीत्। परस्मैपदेषु इत्येव, अपचावहि, अपचामहि।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
`इतश्च लोपः` इति सूत्रात्परस्मैपदेष्वित्यनुवृत्तं षष्ठ�एकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेष्येते। तदाह-- परस्मैपदमिकारान्तं यत्तस्येति। प्राचा तु `परस्मैपदेष्विकारस्य लोपर` इत्युक्तम्, तदयुक्तम्, भवेदित्यादावतिव्याप्तेः। ननु `अतो येयः` इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्तातिव्याप्तिः `इतश्चे`ति तपरकरणात्। अत एव अबोभवीदित्यादावपि न दोष इति चेत्। मैवम्। करुदेर्लङि अरुदितामित्यादौ दोषध्रौव्यादिति मनोरमायां स्थितम्॥
लघुसिद्धान्तकौमुदी
ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!