॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|97
SK 3274
3|3|97
ऊतियूतिजूतिसातिहेतिकीर्तयश्च   🔊
SK 3274
सूत्रच्छेद:
ऊतियूतिजूतिसातिहेतिकीर्त्तयः - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19] , स्त्रियाम्  [3|3|94]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
मन्त्रे इति न अनुवर्तते। ऊत्यादयः शब्दा निपात्यन्ते। उदात्तः इति वर्तते। अवतेः ज्वरत्वरस्रिव्यविमवाम् उपधायाश्च 6|4|20 इति ऊट्ः। ऊतिः। स्वरार्थं वचनम्। यौतेर् जवतेश्च यूतिः, जूतिः। दीर्धात्वम् च निपात्यते। सातिः। स्यतेः इत्वाभावो निपात्यते, सनोतेर् वा जनसनखनां संज्ञालोः 6|4|42 इत्यात्वे कृते स्वरार्थं निपातनम्। हन्तेर् हिनोतेर् वा हेतिः। कीर्तयतेः कीर्तिः।
`स्वरार्थं वचनम्` इति। न तु प्रत्ययार्थम्। `स्त्रियां क्तिन्` 3|3|94 इत्येव सिद्धत्वात्। नाप्यूडर्थम्; `ज्वरत्वर` 6|4|20 इत्यादिनैव सिद्धत्वात्। `यौतेः`इति। `यु {मिश्रणेऽमिश्रणे च-धा।पा} मिश्रणे (धातुपाठः-1033) इत्यस्य। `जवतेश्च` इति। `जु` इत्यस्य सौत्रस्य 3|2|150 धातोः। `दीर्घत्वञ्च` इति। चकारादुदात्तत्वञ्च। क्तिन् सामान्यलक्षणेनैव सिद्धः। `ल्यतेः` इति। `षोऽन्तकर्मणि` (धातुपाठः-1147) इत्यस्य। `इत्त्वाभावोऽपि निपात्यते` इति। `द्यतिस्यति` 7|4|40 इत्यादिनेत्त्वं प्राप्नोति, ततस्तस्याभावो निपात्यते। `सनोतेर्वा` इति। `षणु दाने` (धातुपाठः-1464) इत्यस्य। `जनसनखनाम्` 6|4|42 इत्यात्त्वे कृते सातिरिति सिध्यतीति शेष-। यद्येवम्, किमर्थं निपातनमित्याह-- `स्वरार्थम` इत्यादि। असति हि निपातने सातिश्शब्द आद्युदात्तः स्यात्। अन्तोदात्तो यथा स्यादित्येवमर्थ निपातनम्। `हन्तेर्हितनोतेर्वा` इति। हेतिरिति यदा हन्तेः, तदा हकारस्यैत्त्वं निपात्यते, अनुनासिकलोपस्तु `अनुदात्तोपदेश` 6|4|37 इत्यादिनैव सिद्धः। यदा तु `हि {गतौ बुद्धौ च-धा।पा} (धातुपाठः-157) इत्स्य, तदा गुणो निपात्यते। `कीर्त्तिः`इति। `कृतं संशब्दने` (धातुपाठः-1653) इत्यस्माच्चुरादिणिजन्तात् `ण्यासश्रन्थो युच्` 3|3|107 इति युचि प्राप्ते क्तिन्निपात्यते। `उपधायाश्च` 7|1|101 इतीत्त्वम् भवति, `हलि च` 8|2|77 इति दीर्घत्वम्॥
मन्त्रे इति नानुवर्तत इति । तेन ब्राह्मणे भाषायां चाथं विधिर्भवति । स्यतेरिति । ठ्षोऽन्तकर्मणिऽ इत्यस्य । हत्वाभाव इति । ठ्द्यतिस्यतिऽ इत्यादिना प्राप्तस्येत्वस्याभावः । सनोतेर्वेति । ठ्षणुदानेऽ इत्यस्य । हन्तेर्हिनोतेर्वोत । यदा हन्तेस्तदा नकारस्येत्वं निपात्यते, यदा हिनोतेस्तदा तु गुणः । कीर्तयतेरिति । ठ्कृत संशब्दनेऽ इत्यस्य चुरादिणिजन्तस्य ठ्ण्यासश्रन्यो युच्ऽ, इति युचोऽपवादः क्तिन्निपात्यते, उदांतत्वं च । इडभावस्तु ठ्तितुत्रऽ इत्यादिना सिद्धः, ठुपधायाश्चऽ ठ्हलि चऽ ठुपधायां चऽ इति दीर्घत्वम् । कालापास्तु युचमपीच्छन्ति---कीर्तनेति ॥
सिद्धान्तकौमुदी
अवतेः ज्वरत्वर (कौमुदी-2654) इत्यूठ । ऊतिः । स्वरार्थं वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यति (कौमुदी-3074) इतीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसन (कौमुदी-2504) इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तिः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
ऊतियूतिजूतिसातिहेतिकीर्तयश्च - उदात्त इतीति ।मन्त्रे वृषेषे॑ति सूत्रादनुवर्तत इत्यर्थः । एवं च क्तिन्नन्तस्याद्युदात्तत्वे प्राप्तेऊतियूती॑त्यादयोऽन्तोदात्ता इति पर्यवसन्नोऽर्थः । इत्त्वाऽभाव इति ।द्यतिस्यती॑ति प्राप्तस्याऽभाव इत्यर्थः । हन्तेरिति । नकारस्येत्वं, हिनोतेस्तु गुण इति बोध्यम् । कीर्तिरिति । कीर्तयतेःण्यासश्रन्थे॑ — ति युचि प्राप्ते क्तिननिपात्यते, उदातत्वं च ।तां सुते कीर्तिम् ।
लघुसिद्धान्तकौमुदी
एते निपात्यन्ते॥।
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!