Page loading... Please wait.
3|3|96 - मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः
॥ तस्मै पाणिनये नमः ॥
3|3|96
SK 3420
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः   🔊
सूत्रच्छेदः
मन्त्रे (सप्तम्येकवचनम्) , वृष-इष-पच-मन-विद-भू-वी-राः (प्रथमाबहुवचनम्) , (पञ्चम्यर्थे प्रथमा) उदात्तः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19 स्त्रियाम्  3|3|94
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भावे स्त्रियाम् इति वर्तते। मन्त्रे विषये वृषादिभ्यः धातुभ्यः क्तिन् प्रत्ययो भवति उदात्तः। प्रकृतिप्रत्यययोः विभक्तिविपरिणामेन सम्बन्धः। कस्मादेवं कृतम्? वैचित्र्यार्थम्। वृष्टिः। इष्टिः। पक्तिः। मतिः। वित्तिः। भूतिः। वीतिः। रातिः। सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन्। उदात्तार्थं वचनम्। इषेस्तु इच्छा 3|3|101 इति निपातनं वक्ष्यति, ततः क्तिन्नपि विधीयते। मन्त्रादन्यत्र आदिरुदात्तः।
`वृषु मृषु सेचने` (धातुपाठः-706,707), `{इष--धातुपाठः-} इषु इच्छायाम्`} (धातुपाठः-1351), `डुपचष् पाके` (धातुपाठः-996), `मन ज्ञाने` (धातुपाठः-1176), `विद ज्ञाने` (धातुपाठः-1064),`भू सत्तायाम्` (धातुपाठः-1), `वी गतिव्याप्तिप्रजनादिषु` (धातुपाठः-1048), `रा {दाने -धातुपाठः-} आदाने` (धातुपाठः-1057)। `प्रकृतिप्रत्ययोः` इति। प्रकृतिसामान्यविवक्षायां द्विवचनम्, अन्यथा हि बहुत्वात् प्रकृतीनां बहुवचनं स्यात्। `विभक्तिविपरिणामेन सम्बन्धः` इति। वृषादिभ्यो या प्रथमा तस्या अर्थात् पञ्चमीपरिणामः। तेन प्रकृतिप्रत्ययोः सम्बन्धः; अन्यथा सम्बन्धानुपपत्तेः। `मतिः` इति। `अनुदात्तोपदेश` 6|4|37 इत्यादिनाऽनुनासिकलोपः।`सर्वत्र` इत्यादि। मन्त्रे च, अमन्त्रे च -- सर्वत्र वृषादिभ्यः किन्विहितः। पचेरपि स्थागादि 3|3|95 सूत्रेण। यद्येवम् किमर्थमिदमित्याह-- `उदात्तार्थम्` इति। `इषेस्तु` इत्यादि। इषेरिच्छेति निपातनं वक्ष्यति; तस्मात् क्तिन्विधीयते, अन्यथा निपातनेनैवास्य स्यात्। वृषादिभ्यः क्तिन्प्रत्यय एव विधातव्यः। उदात्तवचनमुत्तरार्थम्। `व्रजयजोर्भावे क्यप्` 3|3|98 इति क्यबुदात्तो यथा स्यात्॥
प्रकृतिप्रत्यययोरिति । प्रकृतिसामान्यविवक्षायां द्विवचनम्; अन्यथा बहुत्वात्प्रकृतीनां बहुवचनप्रसङ्गात् । विभक्तिविपरिणामेनेति । वृषादीनां द्वन्द्वे या प्रथमा तस्याः पञ्चमीभावेन यो विपरिणामस्तेन प्रकृतिप्रत्यययोः संबन्धः, अन्यथा संबन्धानुपपतिरित्यर्थः । ठ्वृषु सेचनेऽ, ठिषु इच्छायाम्ऽ वृषिसाहचर्यादुदितो ग्रहणम् । सूत्रे त्वकारो न विवक्षितः । ठ्मन ज्ञानेऽ, ठ्मनु अवबोधनेऽ द्वयोरपि ग्रहणम् । विदादीनामपि यथादर्शनम् । सर्वत्रेति । मन्त्रे चामन्त्रे चेत्यर्थः । वृषादिभ्यः क्तिप्रत्यये विधातव्ये उदातवचनमुतरार्थम्, व्रजयजोर्भावे क्यबुदातो यथा स्यात् । प्रमतिरित्यादौ च ठ्तादौ च निति कृत्यतौऽ इति पूर्वपदप्रकृतिस्वरार्थं च । पिबतेरपि मन्त्रे क्तिन्नुदातो दृश्यते---त्वं सुतस्य पीतये, मध्वः सोमस्य पीतये इति ॥
सिद्धान्तकौमुदी
वृषादिभ्यः क्तिन्स्यात्स चोदात्तः । वृष्टिं दिवः (वृ॒ष्टिं दि॒वः) । सुम्नमिष्टये (सु॒म्नमि॒ष्टये॑) । पचात्पक्तीरुत (पचा॑त्प॒क्तीरु॒त) । इयं ते नव्यसी मतिः (इ॒यं ते॒ नव्य॑सी म॒तिः) । वित्तिः । भूतिः (भू॒तिः) । अग्न आ याहि वीतये (अग्न॒ आ या॑हि वी॒तये॑) । रातौ स्यामो भयासः (रा॒तौ स्या॑मो॒ भया॑सः) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.