Page loading... Please wait.
3|3|85 - उपघ्न आश्रये
॥ तस्मै पाणिनये नमः ॥
3|3|85
SK 3263
उपघ्न आश्रये   🔊
सूत्रच्छेदः
उपघ्नः (प्रथमैकवचनम्) , आश्रये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपपूर्वात् हन्तेः अप् प्रत्ययः उपधालोपश्च निपात्यते आश्रये ऽभिधेये। आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति। पर्वतोपघ्नः। ग्रामोपघ्नः। आश्रये इति किम्? पर्वतोपघात एव अन्यः।
`आश्रयशब्दः` इत्यादि। आश्रयणमाश्रयः = सेवा। सा च यत्र प्रत्यासत्तिस्तत्र भवतीत्याश्रयः प्रत्यासत्तिसहचरः।तस्मादाश्रयशब्दः सामीप्यं प्रत्यासत्तिमुपलक्षयति; तदर्थस्य प्रत्यासत्तिसाहचर्यात्। `पर्वतोपघ्नः` इति। पर्वतसमीपभूतोऽर्थ उच्यते॥
आश्रयशब्द इत्यादि । आश्रयणमाश्रयः, स प्रत्यासत्याऽविनाभावीत्येतल्लक्षणहेतुः । पर्वतोपघ्न इति । पर्वतेनोपहन्यतेउसामीप्येन गम्यत इति कर्मण्यम् ॥
सिद्धान्तकौमुदी
उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपघ्नः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.