॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|77
SK 3254
3|3|77
मूर्तौ घनः   🔊
SK 3254
सूत्रच्छेद:
मूर्तौ - सप्तम्येकवचनम् , घनः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
हनः इत्येव। मूर्तिः काठिन्यम्। मूर्तौ अभिधेयायां हन्तेः अप् प्रत्ययो भवति, घनश्चादेशः। अभ्रघनः। दधिघनः। कथं घनं दधि इति? धर्मशब्देन धर्मी भण्यते।
`अभ्रवनः` इति। षष्ठासमासोऽयम्। अभ्रस्य काठिन्यमित्यर्थः। यदि मूत्र्तावभिधेयायां घनशब्दो व्युत्पाद्यते-- घनं दधीति, मूर्तिमतो दघ्नो नाभिधानं प्राप्नोति, कथं हि नाम मूर्त्तौ व्युत्पादितस्ततोऽन्यत्र वत्र्ततते? इत्यत आह-- `धर्मशब्देन धर्मी भण्यते` इति। मतुबालोपादभेदोपचारः, यथा-- शुक्लः पटः। शुक्लशब्देन शुक्लगुणः पट इति भावः॥
अभ्रघन इति । अभ्रस्य काठिन्यमित्यर्थः । धर्मशब्देनेति । शुल्कादिवदिति भावः । यद्येवम्, गुणेनेति प्रतिषेधात्समासो न प्राप्नोति, तत्स्थैश्च गुणैरित्येतदपि नास्ति ? इदानीमेव ह्युक्तम्---ठ्धर्मशब्देन धर्मी भण्यतेऽ इति वक्तव्योऽत्र समासः ॥
सिद्धान्तकौमुदी
मूर्तिः काठिण्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवघनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!