Page loading... Please wait.
3|3|76 - हनश्च वधः
॥ तस्मै पाणिनये नमः ॥
3|3|76
SK 3253
हनश्च वधः   🔊
सूत्रच्छेदः
हनः (षष्ठ्येकवचनम्) , च (अव्ययम्) , वधः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भावे ऽनुपसर्गस्य इति वर्तते। हन्तेर् धातोः अनुपसर्गे भावे अप् प्रत्ययो भवति, तत्संनियोगेन च भधादेशः, स चान्तोदात्तः। तत्र उदात्तनिवृ̄त्तिस्वरेण अप उदात्तत्वं भवति। वधश्चोराणाम्। वधो दस्यूनाम्। भावे इत्येव, घातः। अनुपसर्गस्य इत्येव, प्रघातः, विघातः। चकारो भिन्नक्रमत्वान् नादेशेन सम्बध्यते। किं तर्थि? प्रकृतेन प्रत्ययेन। अप् च, यश्च अपरः प्राप्नोति। तेन घञपि भवति। घातो वर्तते।
`स चान्तोदात्तः` इति। सूत्रे वधशब्दस्यान्तोदात्तस्योच्चारणात्। `तत्र `इत्यादिनाऽन्तोदात्ते वधादेशे यदिष्टं सिध्यति तद्दर्शयति। अपि कृते `अतो लोपः` 6|4|48 इत्यकारलोपे च `अनुदात्तस्य च यत्रोदात्तलोपः` 6|1|155 इत्यप उदात्तत्वं भवति। `धातः` इति। कर्मादौ कारके घञ्,`हनस्तोऽटिण्णलोः` 7|3|32 इति तत्वम्; `हो हन्तेः` 7|3|54 इत्यादिना कुत्वम्। `चकारो भिन्नक्रमत्वात्` इत्यादि। चकारो नादेशेन सम्बध्यत इति सम्बन्धः।कस्मान्न सम्बध्यते? भिन्नक्रमत्वात्। यदि `हनो वधश्च` इत्येष चकारस्य क्रमः; आदेशानन्तरमनुच्चारणात्।तस्मात् भिन्नक्रमत्वात् क्रमभेदान्नादेशेन सम्बध्यते।अपि तु प्रकृतेन प्रत्ययेन। एवञ्च प्रकृतेन सम्बन्धं दर्शयितुमाह-- `अप् च` इत्यादि। अप् प्रत्ययो भवति, चकारावृत्तेर्यः प्राप्नोति स च। तेन घञपि भवति॥
स चान्तोदात इति । सूत्रे तथैवोच्चारणात् । किमर्थं पुनरकारान्तत्वम्, किमर्थं चान्तोदातत्वम्, यावता नायमकारः क्वचिच्छ्र यतोऽतो लोपोऽस्य भवति ? तत्राह---तत्रेति । अन्तोदातत्वे सतीत्यर्थः । उदातनिवृत्तिस्वरेणेति । ठनुदातस्य च यत्रोदातलोपःऽ इत्येव उदातनिवृत्तिनिमितत्वादुदातनिवृत्तिस्वरः । घात इति । अत्र कर्मादौ कारके घञ् । किं तर्हि प्रकृतेन प्रत्ययेनेति । अथ धातोरनन्तरं श्रुतः प्रकृतेन धातुना कस्मान्न सम्बद्धयते---हनश्च वधादेशो भवति, ह्वयतेश्चेति ? पूर्वसूत्रेऽ सम्प्रसारणविधानसामर्थ्यात् ॥
सिद्धान्तकौमुदी
अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः वधेन दस्युम् । चाद्घञ् । घातः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
हनश्च वधः - हनश्च वधः । अन्तोदात्त इति । सूत्रे वधशब्दोऽन्तोदात्ततयोच्चारित इति भावओः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.