Page loading... Please wait.
3|3|75 - भावेऽनुपसर्गस्य
॥ तस्मै पाणिनये नमः ॥
3|3|75
SK 3252
भावेऽनुपसर्गस्य   🔊
सूत्रच्छेदः
भावे (सप्तम्येकवचनम्) , अनुपसर्गस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनुपर्गस्य ह्वयतेः सम्प्रसारणम् अप् प्रत्ययश्च भवति भावे अभिधेये। हवः। हवे हवे सुहवं शूरम् इन्द्रम्। अनुपसर्गस्य इति किम्? आह्वायः। भावग्रहणम् अकर्तरि च कारके संज्ञायाम् 3|3|19 इत्यस्य निरासार्थम्।
`भावग्रहणम्` इत्यादि। ननु च यथा `कर्मव्यतिहारे णच् स्त्रियाम्` 3|3|43 इत्यत्र द्वये प्रकृते च लक्ष्यदर्शनवशाद्भाव एव प्रत्ययो विज्ञास्यते, तथेहापि, तत्क भावग्रहणेन `अकत्र्तरि च कारके` 3|3|19 इत्येतन्निरासार्थेन? सत्यमेतत्; लक्ष्यदर्शनसामथ्र्यादेव प्राप्त एव एवार्थो भावग्रहणेनाख्यायते मन्दबुद्धीनामनुग्रहाय। अथ यथा `अभिविधौ भाव इनुण्` 3|3|44 इत्यत्र `भावे` इति वत्र्तमाने पुनर्भावगर्हणं वासरूपनिरासार्थं विज्ञायते, तथेहापि कस्मान्न विज्ञायते? लक्ष्यदर्शनवशात्। दृश्यते हि क्तादयः-- हूतम्, ह्वानम्, हूतिरिति। घञादौ वासरूपेण भावः॥
भावग्रहणमित्यादि । ननु च द्वयेऽप्यधिकृते लक्ष्यदर्शनवशाद्भाव एवार्थे विधिर्भविष्यति, यथा---ठ्कर्मव्यतिहारे णच् स्त्रियाम्ऽ इत्यत्र ? सत्यमेष एवार्थो भावग्रहणेनाक्यायते । अथ यथा---ठभिविधौ भाव हनुण्ऽ इत्यत्र वासरूपनिवृत्यर्थं भावग्रहणम्, तथेहापि कस्मान्न भवति ? असरूपस्य बाधनीयस्याभवात् । घञ् तावत्सरूपः, क्तल्युट्क्तिनस्तु नास्योत्सर्गाः, न हि तेषु नाप्राप्तेष्वस्यारम्भः, इष्यन्ते च ते---हूतः, ह्वानम्, हूतिरिति ॥
सिद्धान्तकौमुदी
अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.