Page loading... Please wait.
3|3|71 - प्रजने सर्तेः
॥ तस्मै पाणिनये नमः ॥
3|3|71
SK 3248
प्रजने सर्तेः   🔊
सूत्रच्छेदः
प्रजने (सप्तम्येकवचनम्) , सर्तेः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सर्तेः धातोः प्रजने विषये अप् प्रत्ययो भवति। घञो ऽपवादः। प्रजनं प्रथमं गर्भग्रहणम्। गवाम् उपसरः। पशूनाम् उपसरः। स्त्रीगवीषु पुंगवानाम् गर्भाधानाय प्रथमम् उपसरणम् उच्यते।
Text Unavailable. Please use feedback link below to provide the text if you have.
प्रजननं प्रजनः, भावे घञ्, ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधः, ण्यन्ताद्वैरच् । प्रशब्दो धात्वर्थं विपरीतयति, यथा---प्रतिष्ठते इत्यत्र प्रादुर्भावस्य च वैपरीत्यं गर्भग्रहणम्, तदाह---प्रजनः प्रथमं गर्भग्रहणमिति । कथमवसरः, प्रसर इति ? अधिकरणे ठ्पुंसि संज्ञायां घः प्रायेणऽ ॥
सिद्धान्तकौमुदी
प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि सञ्ज्ञायां-(कौमुदी-3296) इति घः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
प्रजने सर्तेः - प्रजने सर्तेः । प्रजननं प्रजनः । भावे घञ् ।जनिवध्यो॑रिति वृद्धिनिषेधः । प्रशब्दबलादत्र जनेरर्थान्तरत्वम् । प्रतिष्ठते इत्यत्र प्रादुर्भावो यथा । तदेतदाह — पर्थमगर्भग्रहणमिति । काशिकानुरोधेनेदमुक्तम् । प्रथमं द्वितीयं वेत्यनाग्रहः, किन्तु गर्भग्रहणमित्यन्ये ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.