Page loading... Please wait.
3|3|7 - लिप्स्यमानसिद्धौ च
॥ तस्मै पाणिनये नमः ॥
3|3|7
SK 2786
लिप्स्यमानसिद्धौ च   🔊
सूत्रच्छेदः
लिप्स्यमान-सिद्धौ (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भविष्यति  3|3|3
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विभाषा इत्येव। लिप्स्यमानात् सिद्धिः लिप्स्यमानसिद्धिः। लिप्स्यमानसिद्धौ गम्यमानायां भविष्यति काले धातोः विभाषा लट् प्रत्ययो भवति। अकिंवृत्तार्थो ऽयम् आरम्भः। यो भक्तं ददाति स स्वर्गं गच्छति, यो भक्तं दास्यति स स्वर्गं गमिष्यति, यो भक्तं दात स स्वर्गं गन्ता। लिप्स्यमानाद् भक्तात् स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति।
लिप्सायामेव सत्यां सम्भवति, नासत्याम्। अतो यत्र लिप्स्यमानसिद्धिर्गम्यते तत्रावश्यं लिप्सया भवितव्यम्, तथा च पूर्वेणैव सिद्धम्, तत्किमर्थोऽयमारम्भ इत्यत आह-- `अकिंवृत्तार्थोऽयमारम्भः`इति। यद्येवम्, पूर्वसूत्र एव किंवृत्तग्रहणमकृत्वा प्रत्ययो विदेयः, एवं हीदं नारब्धव्यं भवति? नैतदस्ति; एं हि यथा लिप्स्यमानसिद्धौ गम्यमानायां किंदृत्तं चाकिंवृत्तं च भवति तथा यत्रापि लिप्स्यमानसिद्धिरहितं लिप्स्यमानं गम्यं तत्रापि स्यात्। किंवृत्त एव तत् तत्रेष्यते, तस्मात् पूर्वयोगे किंवृत्तग्रहणं कत्र्तव्यम्। तस्मश्च सतीदमप्यकिंवृत्तारोथमारब्धव्यम्। `दातारं प्रोत्साहयति` इति। भक्तदानविषयेऽस्य प्रोत्साहं जनयतीत्यर्थः॥
ठ्लिप्स्यमानसिद्धौऽ इति षष्ठीसमासः । वृतौ तु वस्तुमात्रमदर्शि । लिप्स्यमानात्सिद्धिरिति । अस्मादेव निपातनाद्वा पञ्चमीसमासः । लिप्स्यमानं भक्तादि तन्निमिता या स्वर्गादेः सिद्धिस्तस्यामित्यर्थः । ननु च यत्र लिप्स्यमानस्य सिद्धिर्गम्यते, लिप्सापि तत्र भवति, ततश्च पूर्वेणैव सिद्धं नार्थ एतेन ? तत्राह---अकिंवृतार्थोऽयमारम्भ इति । पूर्वसूत्रे किवृतग्रहणं लिप्स्यमानसिद्धिरहिते लिप्सामात्रे किंवृत एव यथा स्याद्, अकिंवृते मा भूदित्येवमर्थम् ॥
सिद्धान्तकौमुदी
लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्वा स्यात् । योऽन्नं ददाति दास्यति दाता वा स स्वर्गं याति यास्यति याता वा ॥
लिप्स्यमानसिद्धौ च - लिप्स्यमानसिद्धौ च । लड्वेति । पक्षे यथाप्राप्तम् । लिप्स्यमानसिद्धौ लिप्सायायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति — योऽन्नमिति । योऽन्नं ददाति स स्वर्गं याति, योऽन्नं दास्यति स स्वर्गं यास्यति, योऽन्नं दाता स स्वर्गं यातेत्यन्वयः ।
लिप्स्यमानसिद्धौ च - लिप्स्यमान । लिप्स्यमानसिद्धौ लिप्सायाः सत्त्वात्पूर्वेण सिद्धेऽप्यकिंवृत्तार्थमिदमिति ध्वनयन्नुदाहरति — योऽन्नमिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लिप्स्यमानसिद्धौ च।। (972) (536 लट्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आदृ 4) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते । न निप्स्यमानसिद्धिरपि लिप्सैव। तत्र किंवृत्ते लिप्सायामित्येव सिद्धम्।। (समाधानभाष्यम्) अकिंवृत्तार्थायमारम्भः। यो भवतामोदनं ददाति स स्वर्गे लोकं गच्छति। यो भवतामोदनं दास्यति स स्वर्गे लोकं गमिष्यति।। लिप्स्यमादृ।। 7 ।।