Page loading... Please wait.
3|3|67 - मदोऽनुपसर्गे
॥ तस्मै पाणिनये नमः ॥
3|3|67
SK 3244
मदोऽनुपसर्गे   🔊
सूत्रच्छेदः
मदः (पञ्चम्येकवचनम्) , अनुपसर्गे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मदेः धातोः अनुपसर्गातप् प्रत्ययो भवति। घजो ऽपवादः। विद्यामदः। धनमदः। कुलमदः। अनुपसर्गे इति किम्? उन्मादः। प्रमादः।
`विद्यामदः`इति। विद्यया मदः। `कर्त्तुकरणे` 2|1|31 इत्यादिना समासः। `उन्मादः` इति। अत्रापि `कुगतिप्रादयः` 2|2|18 इति `व्यधजपोरनुपसर्गे` 3|3|61 इत्यत्रैव मदिग्रहणे कत्र्तव्ये `मदोऽनुपसर्गे` इति सूत्रप्रणयनमस्य विधेरनित्यत्वाज्ञापनार्थम्, तेन माद इति सिद्धं भवति॥
विद्यामद इत्यादि । ठ्कर्तृकरणेऽ इत्यादिना समासः । ठ्क्वणो वीणायां चऽ इत्यस्यानन्तरं ठ्नित्यं मदः प्रमदसंमदौ हर्षे पणः परिमाणेऽ इति यदि सूत्रन्यासः क्रियेत, अत्रानुपसर्गग्रहणं शक्यमकर्तुम्, अनुवृतेरेव सिद्धत्वात् ? सत्यम्; एवं विन्यासे हि क्रियमाणे ठ्पणः परिमाणेऽ इत्यत्राप्यनुपसर्ग इत्यस्यानुवृत्तिः शङ्क्येत । यथान्यासे तूतरत्राप्यनुपसर्ग इति वचनात् ठ्नित्यं पणः परिमाणेऽ इत्यत्रानुपसर्ग इति न संबद्ध्यत इति विज्ञायते । तेनोपसर्गेऽपि भवति यदि परिमाणाभिधानमस्ति । अपर आह---"मदोऽनुपसर्गेऽ इति सूत्रप्रणयनमस्य विधेरनित्यत्वज्ञापनार्थम्, तेन माद इति सिद्धं भवति" इति, नात्राप्तभाषितमस्ति ॥
सिद्धान्तकौमुदी
धनमदः । उपसर्गे तु । उन्मादः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
मदोऽनुपसर्गे - मदो । अनुपसर्गे सुप्युपपदे नित्यमप् स्याद्भावादौ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.