Page loading... Please wait.
3|3|65 - क्वणो वीणायां च
॥ तस्मै पाणिनये नमः ॥
3|3|65
SK 3242
क्वणो वीणायां च   🔊
सूत्रच्छेदः
क्वणः (पञ्चम्येकवचनम्) , वीणायाम् (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नौ वा अनुपसर्गे इति वर्तते। क्वणतेः धातोः निपूर्वादनुपसर्गाच् च वीणायां वा अप् प्रत्ययो भवति। घञो ऽपवादः। सोपसर्गार्थं वीणाया ग्रहणम्। निक्वणः, निक्वाणः। अनुपसर्गात् क्वणः, क्वाणः। वीणायां खल्वपि कल्याणप्रक्वणा वीणा। एतेषु इति किम्? अतिक्वाणो वर्तते।
`सोपसर्गार्थं वीणाया ग्रहणम्` इति। यदि वीणाविषयेऽप्यनुसर्गादेव स्यात्, वीणाग्रहणमनर्थकं स्यात्। अनुपसर्गात् सामान्येन विधानाद्वीणायामपि प्रत्ययः सिद्धः॥
सोपसर्गार्थमिदं वीणाग्रहणमिति । निव्यतिरिक्तोपसर्गार्थमिदं द्रष्टव्यम्; निपूर्वादनुपसर्गाच्च सामान्येन विधानात् । कल्याणप्रक्वाणेति बहुव्रीहिः ॥
सिद्धान्तकौमुदी
नावनुपसर्गे च वीणाविषयाच्च क्वणतेरप् वा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निक्वणः । निक्वाणः । क्वणः । क्वाणः । वीणायां तु । प्रक्वणः । प्रक्वाणः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
क्वणो वीणायां च - क्वणो ।निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि । वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः॑ इत्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.