॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|57
SK 3232
3|3|57
ऋदोरप्‌   🔊
SK 3232
सूत्रच्छेद:
ऋदोः - पञ्चम्येकवचनम् , अप् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ऋ̄कारान्तेभ्यः उवर्णान्तेभ्यः च अप् प्रत्ययो भवति। घञो ऽपवादः। पित्करणं स्वरार्थम्। करः गरः। शरः। उवर्णान्तेभ्यः यवः। लवः। पवः। दकारो मुखसुखार्थः। मा भूत्तादपि परः तपरः।
`पित्करणं स्वरार्थम्` इति। `अनुदात्तौ सुप्पितौ` 3|1|4 इत्यनुदात्तत्वं यथा स्यात्। `ऋदोरप्` इत्यत्र ऋकारस्तपरः स्यात्। एवं सति तादपि परस्तपरः इत्युकारोऽपि तस्य परः स्यात्। ततश्च `तपरस्तत्कालस्य` 1|1|69 इति परिभाषोपस्थानादिहैव स्यात्-- यवः,स्तव इति; लवः,पव इत्यत्र तु न स्यात्। दकारे तु `अण् सवर्णान् गृह्णाति-- `भुवः गृह्णाति` (व्या।पा।66?) इति दीर्घादपि भवति। तस्मादुकारोऽयं सवर्णं गृह्णाति। अत्र च लिङ्गम्-- `भुवः प्रभवः` 1|4|31 इति निर्देशः।तपरे तु भवतेरप् न स्यात्, ततश्च `प्रभवः`इति निर्देशो नोपपद्यते। तस्य तु दकारस्य मुखसुखार्थत्वादन्यत् प्रयोजनं न सम्भवतीत्येतत्सर्वमालोच्याह-- `दकारो मुखसुखार्थः` इति॥
लव इति । न च तादपि परस्तपर इति उकारस्य तपरत्वान्नात्रापा भवितव्यम् ? तत्राह---दकारो मुखसुखार्थ इति । नायं तकारः, किं तर्हि ? दकारः । एतच्च ठ्निरभ्योः पूल्वोःऽ इत्याद्यारम्भाद्विज्ञायते । मुखशब्देन ताल्वादिश्थानमुच्यते, तस्य सुखमनायासः । अचोर्हि हल्व्यवहितयोरुच्चारणे मुखस्य लाघवं भवति । असन्देहः, यस्यानुषङ्गिकं प्रयोजनम् ॥
सिद्धान्तकौमुदी
ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
ऋदोरप् - ऋदोरप् । ॠच्च उच्च तयोः समाहारे सौत्रं पुंस्त्वम् ।ॠदो॑रित्ययं न तकारः, किं तर्हि । दकारः ।निरभ्योः पूल्वः॑ इत्यपवादतया घञ्विधानाज्ज्ञापकाद्दीर्घान्तादप्युदाहरति — लवः । पव इति । घञचोरपवाद इति ।निश्चय॑ इत्यत्राऽचः प्राप्तिरन्यत्र घञ इति विवेकः । हस्तादाने तु प्रपूर्वकाच्चिनोतेर्घञुदाह्मतः ।
लघुसिद्धान्तकौमुदी
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। (घञर्थे कविधानम्)। प्रस्थः। विघ्नः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!