॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|56
SK 3231
3|3|56
एरच्   🔊
SK 3231
सूत्रच्छेद:
एः - पञ्चम्येकवचनम् , अच् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
भावे, अकर्तरि च कारके इति प्रकृतम् अनुवर्तते यावत् कृत्यल्युटो बहुलम् 3|3|113 इति। इवर्णान्ताद् धातोः भावे, अकर्तरि च कारके संज्ञायाम् अच् प्रत्ययो भवति। घञो ऽपवादः। चकारो विशेषणार्थः, अन्तः 6|2|143 था ऽथघञ्क्ताजबित्रकणाम् 6|2|144 इति। चयः। अयः। जयः। क्षयः। अज्विधौ भयादीनाम् उपसङ्ख्यानम्। नपुंसके क्तादिनिवृत्त्यर्थम्। भयम्। वर्षम्। जवसवौ छन्दसि वक्तव्यौ। ऊर्वोरस्तुम् मे जवः। पञ्चौदनः सवः।
`चकारो विशेषणार्थः` इति। विनापि तेन थाथादिसूत्रे 6|2|143 अप्रत्ययादित्यप्रत्ययस्यापि ग्रहणं स्यात्। `अज्विधौ` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु `कृत्यल्युटो बहुलम्` 3|3|113 इत्येतदाश्रित्य कत्र्तव्यम्। अन्यस्तु `पञ्चमी भयेन` 2|1|36 `वर्षप्रमाण ऊलोपश्चास्यान्तरस्याम्` 3|4|32 इति निपातनाद्भयादीनां सिद्धिमिच्छति, न चासौ युक्ता; किमिदं भयवर्षशब्दयोर्नपुंसकलिङ्गयोरुच्चारणम्? इत् पुंल्लिङ्गयोः? इति सन्देहात्। `वक्तयौ`इति। व्याख्येयावित्यर्थः। व्याख्यानं तु तदेव बहुलग्रहणमाश्रित्य कत्र्तव्यम्। `जवः, सवः` इति। `जु` 3|2|150 इत्येस्मात् सौत्राद्धातोः, `षुञ् अभिषवे` (धातुपाठः-1247) इत्येस्माच्चोत्तरसूत्रेणापि प्राप्तेऽज्भवति। स्वरे विशेषः-- अपि हि स्तामाद्युदात्तं पदं स्यात्, अजन्ते सत्यन्तोदात्तत्वं भवति॥
चकारो विशेषणार्थ इति । विना हि तेन थाथादिसूत्रेऽप्रत्ययादित्यस्यापि ग्रहणं स्यात् । वर्षमिति । वृषभो वर्षणादिति भाष्यकारप्रयोगादूर्षणमित्यपि भवति । जवसवाविति । अपि प्राप्तेऽज् विधीयते । स्वरे विशेषः । एरजण्यन्तानामिति तु नास्ति वचनम्, ठ्कल्प्यादिभ्यः प्रतिषेधवचनम्ऽ इत्येतदेवास्ति । कल्प्यते इति कल्पः, अर्थ्यते इत्यर्थः, मन्त्र्यते इति मन्त्रः । अचि प्रतिषिद्धे घञेव भवति ॥
सिद्धान्तकौमुदी
चयः । जयः ॥भयादीनामुपसङ्ख्यानम्, नंपुसके क्तादिनिवृत्त्यर्थम् (वार्तिकम्) ॥ भयम् । वर्षम् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
एरच् - वर्षमिति ।वृषभो वर्षणा॑ दिति भाष्यप्रयोगात्तु ल्युडपि । वर्षणम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
एरच् (1031) (551 इवर्णान्तादच्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.20) (4033 वार्तिकम्।। 1 ।।) - अज्विधौ भयस्योपसंख्यानम् - (भाष्यम्) अज्विधौ भयस्योपख्यानं कर्तव्यम्। भयम्।। (उपालम्भभाष्यम्) अत्यल्पमिदमुच्यते भयस्येति। भयादीनामिति वक्तव्यम्। इहापि यथा स्यात् ‐ भयं,वर्षम्।। (प्रश्रभाष्यम्) किं प्रयोजनम्?। (4034 वार्तिकशेषः।। 2 ।।) - नपुंसके क्तादिनिवृत्त्यर्थम् - (भाष्यम्) नपुंसकलिङ्गे भावे क्तादयो मा भूवन्निति।। (4035 वार्तिकम्।। 3 ।।) - कल्प्यादिभ्यः प्रतिषेधः - (भाष्यम्) कल्प्यादिभ्यः प्रतिषेधो वक्तव्यः। कल्पः अर्थः मन्त्र इति।। (4036 वार्तिकम्।। 4 ।।) - जवसवौ छन्दसि - (भाष्यम्) जवसवौ छन्दसि वक्तव्यौ ऊर्वोरस्तु मे जवः। अयं मे पञ्ञ्चौदनः सवः।। एरच् ।। 56 ।।