Page loading... Please wait.
3|3|53 - रश्मौ च
॥ तस्मै पाणिनये नमः ॥
3|3|53
SK 3228
रश्मौ च   🔊
सूत्रच्छेदः
रश्मौ (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ग्रहः विभाषा प्रे इति वर्तते। प्रशब्दे उपपदे ग्रहेर् धातोः विभाषा घञ् प्रत्ययो भवति, रश्मिश्चेत् प्रत्ययान्तेन अभिधीयते। रथादियुक्तानाम् अश्वादीनां संयमनार्था रज्जू रश्मिरिह गृह्यते। प्रग्राः, प्रग्रहः।
`रथादियुक्तानाम्` इत्यादि। कुतः पुनरेतल्लभ्यते,यावता रश्मिशब्दः सामान्यवचनः, यथैवासावआआदिसंयमनार्थायां रज्ज्वां वत्र्तते तथा चन्द्रार्कादिसम्बन्धिष्वपि रश्मिषु? एवं मन्यते- यथा `नौ वृ धान्ये` 3|3|48 इति धान्यशब्दस्यापि धान्यविशेष एव गृह्रते, प्रत्ययान्तेन शब्दशक्तिस्वभाव्याद्धान्यविशेषस्य वाभिधानात्; तथा यद्यपि रश्मिशब्दः सामान्यवाची, तथापि प्रत्ययान्तः स्वभावाद्रज्जुविशेष एव वत्र्तते। तस्मात् युक्तं ग्रहणमिति॥
रथादियुक्तानामिति । आदिशब्देन शकटस्य ग्रहणम् । अश्वादेरिति । अनुडुदादेरप्युपलक्षणमेतत् । संयमनमुनियमनम् । सा रश्मिरिह गृह्यत इति । रश्मिशब्दः पुंल्लिङ्गः, सेति रज्जुपरामर्शात्स्त्रीलिङ्गता । चन्द्रादिसम्बन्धिनां तु रश्मीनामग्रहणम्; अनभिधानात् । इह तु बहुकृत्वो ग्रहिरुपादीयते, सकृदेव तु कर्तुं शक्यम्; कथम् ? एवं वक्ष्यामि ठुदि ग्रहः समि मुष्टौ आक्रोशेऽवन्यो प्रे लिप्सायां परौ यज्ञेऽवे वर्षप्रतिबन्धे विभाषा प्रे वणिजाम्ऽ इत्यादि, ठ्परौ भुवोऽवज्ञानेऽ इत्यस्यानन्तरमाङ् रुप्लुवोइरिति ? तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
प्रग्रहः । प्रग्राहः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
रश्मौ च - रश्मौ च । रथादियुक्तानामआआनां संयमनार्था रज्जुः — रश्मिः । तस्यामभिधेययायां प्रे उपपदे ग्रहेर्घञ्वा स्याद्भावादौ । इह द्विःकृत्वो ग्रहिरुपात्तः, सकृदेव तु वक्तुं शक्यः । तथाहि — -उदि ग्रहः॑,समि मुष्टौ॑ ,आक्रौशेऽवन्योः॑,प्रे लिप्सायाम् ,परौ यज्ञे॑,अव वर्षप्रतिबन्धे विभाषाप्रे वणिजा॑मित्यादिपरौ भुवोऽवज्ञाने॑ इत्यस्यानन्तरम्आङि रुप्लुवोः ॑ इत्यस्तु, तथा तु न कृतमित्येव ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.