Page loading... Please wait.
3|3|45 - आक्रोशेऽवन्योर्ग्रहः
॥ तस्मै पाणिनये नमः ॥
3|3|45
SK 3220
आक्रोशेऽवन्योर्ग्रहः   🔊
सूत्रच्छेदः
आक्रोशे (सप्तम्येकवचनम्) , अव-न्योः (सप्तमीद्विवचनम्) , ग्रहः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
दृष्टानुवृत्तिसामर्थ्याद् घञनुवर्तते, न अनन्तर इनुण्। अव नि इत्येतयोः उअपदयोः ग्रहेर् धातोः घञ् प्रत्ययो भवति आक्रोशे गम्यमने। आक्रोशः शपनम्। अवग्राहो हन्त ते वृषल भूयत्। निग्राहो हन्त ते वृषल भूयात्। आक्रोशे इति किम्? अवग्रहः पदस्य। निग्रहश्चोरस्य।
` ग्रहवृदृ` 3|3|58 इत्यादिना प्राप्ते वचनम्। `दृष्टानुवृत्तिसाम्थ्र्यात्` इति। प्रयोगोपस्थानेन घञोऽनुवृत्तिसामथ्र्य दृष्टम्, इनुणस्तु कल्पयितव्यम्। दृष्टसामथ्र्ययोश्च सन्निधौ दृष्टसामथ्र्यदग्रहणं न्याय्यम्। अतो घञेवानुवत्र्तत इत्येके। एवं तु `ग्रहवृदृ` 3|3|58 इत्यादावपि सूत्रे घञेवानुवत्र्तते, नाप्। तस्मादन्यथा व्याख्यायते-- दृष्टमनुवृत्तिसामथ्र्यमधिकृतस्य यत्र तद्दृष्टानुवृत्तिसामथ्र्यम्, तत्र पुनः स्वरितत्वम्। ततो हि शास्त्रेऽधिकृतस्य शब्दस्यानुवृत्तौ सामर्थ्ये दृश्यते। तदेतदुक्तं भवति-- घञ एव स्वरितत्वं प्रतिज्ञायते, नेनुणः। तस्मात् स्वरितत्वाद्घञेवानुवत्र्तते, नेनुणिति॥
ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यापि प्राप्तेऽयमारम्भः । दृष्टानुवृत्तिसामर्थ्यादिति । दृष्टमनुवृत्तिसामर्थ्यं यस्येति बहुव्रीहौ ठ्द्व्येकयोःऽ इतिवद्भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशो दृष्टानुवृत्तिसामर्थ्यत्वादित्यर्थः । यद्वा---अनुवृतौ सामर्त्यमनुवृत्तिसामर्थ्यम्, ततो दृष्टशब्देन कर्मधारयः । आक्रोशः शपनमिति । न क्षेपः, स्वभावतो घञन्तस्य शपनविषयत्वात् । शपनमुअनिष्टाशंसनम् । अवग्रहःउअभिभवः । निग्रहःउबाधः । हन्तशब्दः कोपं द्योतयति । अवग्रहःउपदस्य छेदः । निग्रहः निरोधः ॥
सिद्धान्तकौमुदी
अव नि एतयोर्ग्रहेर्घञ् स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
आक्रोशेऽवन्योर्ग्रहः - आक्रोशे ।ग्रहवृदृ॑ इति — अपि प्राप्तेऽयमारम्भः । अवग्रहः पदस्येति । छेदविशेष इत्यर्थः । निग्रहो — निरोधः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.