॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|43
SK 3215
3|3|43
कर्मव्यतिहारे णच् स्त्रियाम्   🔊
SK 3215
सूत्रच्छेद:
कर्मव्यतिहारे - सप्तम्येकवचनम् , णच् - प्रथमैकवचनम् , स्त्रियाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्म क्रिया। व्यतिहारः परस्परकरणम्। कर्मव्यतिहारे गम्यमाने धातोः णच् पत्ययो भवति स्त्रीलिङ्गे वाच्ये। तच् च भावे। चकारो विशेषणार्थः णचः स्त्रियाम् अञ् 5|4|14 इति। व्यावक्रोशी। व्यावलेखी। व्यावहासी वर्तते। स्त्रियाम् इति किम्? व्यतिपाको वर्तते। बाधकविषये ऽपि क्वचिदिष्यते, व्यावचोरी, व्यावचर्ची। इह न भवति। व्यतीक्षा, व्यतीहा वर्तते। व्यात्युक्षी भवति। तदेतद् वैचित्र्यं कथं लभ्यते? कृत्यल्युटो बहुलम् 3|3|113 इति भवति।
`दातोः` 3|1|91 इत्यधिकाराद्धातुवाच्यं यत्कर्म तदव गृह्रते,न साधनकर्म। न हि धातोस्तत्र वृत्तिरस्तीति मत्वाऽ‌ऽह-- कर्मं क्रिया`इति। `चकारो विशेषणार्थः` इति। अन्तोदत्तार्थश्चकारः कस्मान्न भवति? नार्हत्यन्तोदात्तार्थो भवितुम्; णजन्तादञो विधानात्। सतिशिष्टस्वरेणाद्युदात्तेन भवितव्यम्,तत्र कुतोऽन्तोदात्तस्य सम्भवः। तस्माद्विशेषणार्थ एव चकारः। `स्त्रियाम्` इत्युच्यमाने `प्रज्ञाश्रद्धार्चाभ्यो णः` 5|2|100 इति प्राज्ञेत्यत्रापि स्यात्। `व्यावक्रोशी` इत्यादि। `क्रुश { आह्वाने रोदने च--ध।पा।}, `लिख अक्षरविन्यासे` (धातुपाठः-1365),`हसे हसने` (धातुपाठः-721)--एभ्यो णच्, `णचः स्त्रियाम्` 5|4|14 इति स्वार्तेऽञ्, `टिड्ढाणञ्` 4|1|15 इति ङीप्, `न कर्मव्यतिहारे` 7|3|6 इत्यैजागमप्रतिषेधः। आदिवृद्धिरेव भवति।`व्यतिपाकः` इति। तत्र पुंल्लिङ्गत्वाद्भावस्य घञ् भवति। अथ `स्त्रियां क्तिन्` 3|3|94 इत्यस्मिन्नेव प्रकरणे णच् कस्मान्नोक्तः, कः पुनरेवं सति गुणो भवति, द्विः स्त्रियांग्रहणं न कत्र्तव्यं भवित? अस्ति गुणः,वासरूपविधिस्तु न स्यात् ; अस्त्रियामिति प्रतिषेधात्। ततश्च क्तिनो णचासमावेशाभावाद्व्यावक्रुष्टिरिति न सिध्येत्। इह तु क्रियमाणे णच् सिध्यति; यस्मात् `वाऽसरूपोऽस्त्रियाम्` 3|1|94 इत्यत्र स्त्रीग्रहणस्य च स्वरितत्वात् स्त्र्यधिकरारविहितप्रत्ययविषय एव `अस्त्रियाम` 3|1|94 इति प्रतिषेधो विज्ञायते,न स्त्रीप्रत्ययमात्रविषये। तस्माद्यथान्यसमेव न्याय्यम्।`व्यावचोरी, व्यावचर्ची` इति। `चुर स्तेये` (धातुपाठः-1534), `चर्च अध्ययने` (धातुपाठः-1712)-- आभ्यां चुरादिणिजन्ताभ्याम् `ण्यासश्रन्थो युच्` 3|3|107 इति युच् प्राप्नोति, स च विशेषविहितत्वात् परवाच्च बाधकः, तथापि तद्विषये तु णजेवेष्यते। `व्यतीक्षा,व्यतीहा` इति। `ईक्ष दर्शने` (धातुपाठः-610), `ईह चेष्टायाम्` (धातुपाठः-632) -- आभ्यां `गुरोश्च हलः` 3|3|103 इत्यकारएव प्रत्ययो भवति। न णच् शक्यः कर्त्तुम्;यस्मात् क्वचिद्बाधकविषये स इष्यते, न सर्वत्र। बाधकत्वं त्वकारप्रत्ययस्य पूरववद्वेदितव्यम्। `व्यात्युक्षी`इति। `उक्ष सेचने` (धातुपाठः-657)। अत्र बाधकस्याप्यकारस्य विषये णजेव भवति। `तदेतद्वैचित्र्यं कथं लभ्यते` इति। न कथञ्चित्। तल्लाभहेतोरभावादिति भावः। `कृत्यल्युटो बहुलम्` 3|3|113 इत्यनेन। अतो हेतोर्वेचित्र्यमेतल्लभ्यत इति दर्शयति॥
ठ्धातुःऽ इति वर्तते, तस्य विशेषणं कर्मव्यतिहारग्रहणम्, कर्मव्यतिहारे वर्तमानादित्यर्थः । धातोश्च क्रियावाचित्वम्, न तस्य साधनकर्मव्यतिहारे वृत्तिः सम्भवति, अतो लौकिकस्य क्रियाकर्मणो ग्रहणमित्याह---कर्मव्यतिहारः क्रियाव्यतिहार इति । स्त्रीलिङ्गे भावे इति । कर्तूवर्जिते तु कारके न स भवति; अनभिधानादिति भावः । चकारो विशेषणार्थ इति । न स्वारार्थः, प्रत्ययस्वरेणैव सिद्धत्वात् । अस्य चाकारो न क्वापि श्रूयते, णजन्ताञ्च नित्यमञ् विधीयते, तत्र सतिशिष्टत्वाञ्ञित्स्वरेणैव भवितव्यम् । णचः स्त्रियामित्यत्र णात्स्त्रियामित्युच्यमाने ठ्ज्वलितिकसन्तेभ्यो णःऽ इत्यस्यापि ग्रहणं स्यात् । व्यावक्रोशीत्यादि । ठ्क्रुश आह्वानेऽ, ठ्लिख अक्षरविन्यासेऽ, ठ्हसे हसेनऽ णजन्तादञ् । स च कृद्ग्रहणपरिभाषया सोपसर्गादपि भवति, तद्धितत्वादादिवृद्धिः । ठ्न य्वाभ्याम्ऽ इत्ययं तु विधिर्न भवति; न कर्मव्यतिहार इति प्रतिषेधात् । ठ्स्त्रियां क्तिन्ऽ इत्यत्र प्रकरण एतन्नोक्तम् वासरूपविधिर्यथा स्यात्, तेन व्यावक्रुष्टिरिति क्तिन्नपि भवति । व्यावचोरीत्यत्र ठ्ण्यासश्रन्थोयुच्ऽ इति युच् प्राप्नोति, क्तिनोऽपवादः, तथाऽयमपि णच् येन नाप्राप्तिन्यायेन क्तिन एवापवादः, तत्रापवादविप्रतिषेधाद्यौचि प्राप्तेऽयमेव णजिष्यते । व्यतीक्षा, व्यतीहेति । अत्र क्तिनपवादः ठ्गुरोश्च हलःऽ इत्यकार एवेष्यते । व्यात्युक्षीति ठुक्ष सेचनेऽ, अत्राकारविषयेऽप्ययमेवेष्यते । तदेतद्वैचित्र्यं कथं भवतीति । न कथञ्चिदिति भावः । कृत्यल्युटो बहुलमिति । एवंविधं वैचित्र्यं कर्तुं बहुलग्रहणमेव भवतीति भावः ॥
सिद्धान्तकौमुदी
स्त्रीलिङ्गे भावे णच् ॥
विभाषा कथमि लिङ् च - विभषा कथमि । गर्हायामित्येवेति । अनुवर्तत एवेत्यर्थः ।कालत्रये लि॑ङिति शेषपूरणम् । भविष्यतीति निवृत्तमिति । भावः चाल्लडिति । "समुच्चीयते" इति शेषः । तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हायां लिङ्लटौ वा स्त इति फलितम् । कथं धर्मं त्यजेरिति । त्यक्तत्वान् त्यक्ष्यसि त्यजसि वेत्यर्थः ।गर्हितमेतदिति कथंशब्दाद्गम्यते । लटि उदाहरति — त्यजसि वेति । उक्तोऽर्थः । पक्षे इति । विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लङ्लुङ्लट्लुट्लृट इत्यर्थः । अत्रेति । अत्रा = उक्तविषये भविष्यति काले क्रियाया अनिष्पत्तौ गम्यमानांलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति नित्यमेव लृङ्, कथमो गर्हायाश्च लिङ्निमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः । भूते वेति ।वोताप्यो॑रिति भूते लिङ् निमित्ते लृङ् वेत्यधिकृत्वादुक्तविषये भूतकाले लृङ् वेत्यर्थः । भविष्यि नित्यं लृडित्यत्रोदाहरति — कथं नामेति ।तत्र भवा॑निति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवंविधः कथं धर्मत्यक्ष्यत्, तत्त्यागस्य गर्हितत्वादिति भावः ।
कर्मव्यतिहारे णच् स्त्रियाम् - कर्मव्यतिहारे णच् । कर्मव्यतिहारः क्रियाव्यतिहारः । परस्परकरणमिति यावत् । तत्र वर्तमानाद्धातोरित्यर्थः । भावे णजिति । कर्तृवर्चिते कारके न भवत्यनभिधानादित्याहुः ।भावादा॑विति प्राचोक्तं यत्तदुपेक्ष्यम्, आकरविरोधात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्मव्यतिहारे णच् स्त्रियाम् (1018) (549 णच्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.19) (आक्षेपभाष्यम्) स्त्रीग्रहणं किमर्थम्। (4023 वार्तिकम्।। 1 ।।) - कर्मव्यतिहारे स्त्रीग्रहणं व्यतिपाकार्थम्- (भाष्यम्) कर्मव्यतिहारे स्त्रीग्रहणं क्रियते व्यतिपाकार्थम्। इह मा भूत् ‐ -व्यतिपाको वर्तते। (आक्षेपभाष्यम्) अथ किमर्थं पृथग्ग्रहणम्। (4027 वार्तिकम्।। 2 ।।) - पृथग्ग्रहणं बाधकबाधनार्थं व्यावचोरीव्यावर्चच्यर्थम्- (भाष्यम्) पृथग्ग्रहणं क्रियते (किं प्रयोजनम्?) बाधकबाधनार्थे, ये तस्यबाधकास्तद्बाधनार्थम्। किं प्रयोजनम्। व्यावचोरी व्यावर्चच्यर्थम्। व्यावचोरी वर्तते। व्यावचर्ची वर्तते। (4028 दूषणवार्तिकम्।।3 ।।) - तत्र व्यतीक्षादिषु दोषः- (भाष्यम्) तत्र व्यतीक्षादिषु दोषो भवति। व्यतीक्षा वर्तते। व्यतीहा वर्तते।। (4029 दूषणोद्धारवार्तिकम्।।4 ।।) - सिद्धं तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं णिज्ग्रहणं च- (भाष्यम्) सिद्धमेतत्। कथम्। प्रकृत एव स्त्रीग्रहणेऽयं योगः कर्तव्यः ‐ -स्त्रियां क्तिन्। ततः कर्मव्यतिहारे णच्। ततो णिचः।। कर्मव्यति।। 43 ।।